33157: इच्छार्थेषु लिङ्लोटौ¶
Padacheda: इच्छार्थेषु | S | 7 | 3 |
लिङ्-लोटौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
The affixes लिङ् (Benedictive) and लोट् (Imperative) are used after a root when another verb having the same sense of ‘wishing’ is in construction with it.
Vasu English Translation¶
The affixes लिङ् (Benedictive) and लोट् (Imperative) are used after a root when another verb having the same sense of ‘wishing’ is in construction with it. This supersedes all other tense-affixes. When words expressing ‘wish’, such as इष्, कम्, प्राथ &c, are used, the Potential or Imperative is used; thus of इच्छामि कामये or प्रार्थये भुञ्जीत भवान् or भुङ्क्तां भवान् ‘I wish, desire or pray that your honor may eat’.
Vart:- It is only when a desire is expressed that Potential or Imperative should be employed and not merely when the verb ‘to wish’ or its synonyms are in composition. Therefore the Potential or Imperative are not used here: इच्छन् करोति ‘wishing, he does’.
The sutra may be rendered thus: ‘In connection with a verb in the sense of ‘wishing’ the Potential or the Imperative may be employed.
Bhashya¶
इच्छार्थेषु लिङ्लोटौ (1142) (586 लिङ्लोट्प्रत्ययविधिसूत्रम् ॥ 3 । 3 । 2 आ.16) (5013 वार्तिकम् ॥ 1 ॥) - इच्छार्थेषु लिङ् लोटौ कामप्रवेदने चेत्- (भाष्यम्) कामप्रवेदनं चेद्गम्यत इति वक्तव्यम्। इह मा भूत् - इच्छन् कटं करोतीति ॥ इच्छार्थेषु ॥ 157 ॥
Kashika¶
इच्छार्थेषु धातुषूपपदेषु धातोर्लिङ्लोटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। इच्छामि भुञ्जीत भवान्। इच्छामि भुङ्क्ता भवान्। कामये। प्रार्थये॥ कामप्रवेदन इति वक्व्यम्॥ इह मा भूत् — इच्छन् करोति॥
Siddhanta Kaumudi¶
इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ।<!कामप्रवेदन इति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । इच्छन् करोति ॥
Balamanorama¶
इच्छार्थेषु लिङ्लोटौ - इच्छार्थेषु लिङ्लोटौ । इच्छार्थकधातुषु प्रयुज्यमानेषु लिङ्लोटौ स्तः । सर्वलकारापवादः । असमानकर्तृकविषयमिदम् । समानकर्तृकेषु तुलिङ् चे॑ति वक्ष्यते । इच्छामिति । भुञ्जीत भवानिति इच्छामीत्यन्वयः । कामप्रवेदने इति । परं प्रति स्वाभिप्रायाविष्करणेइच्छार्थेषु लिङ्लोटा॑विति विधिरित्यर्थः । इच्छन्करोतीति । परं प्रति स्वाभिप्रायाविष्करणाऽभावान्न लिङ्लोटाविति भाव- ।कामप्रवेदनेऽकच्चिती॑ति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनं, नत्विच्छार्थकमुपपदमस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रंसमानकर्तृकेषु तुमु॑न्निति तु कृदधिकारे व्याख्यास्यते ।
Tattvabodhini¶
इच्छार्थेषु लिङ्लोटौ - इच्छार्थेषु लिङ्लोटौ । एषूपपदेषु धातोरेतौ स्तः । सर्वलकाराणामपवादः ।लिङ् चे॑त्यनेन रसमानकर्तृकेषु लिङो विधानादिह लिङ्लोटटावसमानकर्तृकेषु भवत इति बोध्यम् । * कामप्रवेदन इति वक्तव्यम् । इच्छन् करोतीति । अत्राऽनभिधानात्समानकर्तृकेषु॑ इति तुमुन् न । ननुकामप्रवेदनेऽकच्चिती॑त्यनेनैव लिङः सिद्धत्वादिह लिड्ग्रहणं मास्तु, लोडेव विधीयतामिति चेन्न, लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्याऽत्रावश्यकत्वात् । न चैवम्इच्छार्थेषु लोट् चे॑त्येव सूत्र्यतामिति वाच्यम् । चकारेण लिङोऽनुकर्षे तत्संबद्धविभाषाग्रहणस्याऽनुकर्षणप्रसक्त्या लकारान्तमपि स्यादिति । न चैवमपिकामप्रवेदने॑ इत्युपसङ्ख्यानादनेनैव सिद्धेकामप्रवेदनेऽकच्चिती॑ति सूत्रं मास्त्विति वाच्यम्, यत्राऽर्थप्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थं तदारम्भात् ।
Padamanjari¶
कामप्रवेदन इति वक्तव्यमिति ।’कामप्रवेदने’ कच्चिति इत्ययं तर्हि योगः किमर्थः, यावता कामो मे भुञ्जीत भवान्, अभिलाषो मे भुञ्जीत भवानित्यत्राप्यनेनैव सिद्धम् ? यत्रेच्छार्थमुपपदं न भवति, अर्थप्रकरणादिना तु कामप्रवेदनं गम्यते, तत्रापि लिङ् यथा स्यात् । इदं तर्हि किमर्थम् ? लोर्ड्थम्, लिङ्ग्रहणं तु लोटा बाधा मा भूदिति । एवमपि’लेट् च’ इति वक्तव्ये किं लिङ्ग्रहणेन ? प्रकृतं लिङ्ग्रहणं विभाषासम्बन्धम्, अतस्तदनुकर्षणे विभाषाग्रहणस्याप्यनुकर्षणं सम्भाव्येत ॥
Nyaas¶
भुङ्क्ताम् इति। टेरेत्वे कृत आम्।कामप्रवेदन इति वक्तव्यम् इति। कामस्येच्छायाः प्रवेदने = प्रकाशने इमौ लिङलोटौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - कामप्रवेदनेऽकच्चिति (3.3.153) इत्यतः कामप्रवेदनग्रहणमनुवर्तते, तेन कामप्रेवदन एव भवतः। अत्र लिङ्ग्रहणं किमर्थम्, न इच्छार्थेषु लोट् च इत्येवोच्यत, चकारेण समुच्चीयमानोऽपि प्रकृतो लिङ भविष्यति?नैतदस्ति; विभाषया हि भविष्यत्काल इत्युक्तम्,ततो यद्यसावनुवर्तते विकल्पः स्यात्। तद्बाधनार्थमेव पुनर्लिङग्रहणं क्रियते॥
Prakriyasarvasvam¶
इच्छार्थधातुयोगे कालत्रये लिङ्लोटौ स्तः । भवान् भुञ्जीतेति इच्छामि, भवान् भुङ्क्तामितीच्छामि । तिङोरन्वयार्थमिति शब्दः । कामप्रवेदन एवेष्टम् । अन्यत्र न । इच्छन् करोति ।
Vartika¶
कामप्रवेदन इति वक्तव्यम् ।
Sutra Prayogas¶
नन्देः (भट्टिकाव्यम्): इच्छार्थेषु लिङ्लोटौ इति लिङ्।
गम्यता (भट्टिकाव्यम्): इच्छार्थेषु लिङ्लोटौ इति लोट्।