33155: विभाषा धातौ सम्भावनवचनेऽयदि¶
Padacheda: विभाषा | S | 1 | 1 |
धातौ | S | 7 | 1 |
सम्भावनवचने | S | 7 | 1 |
अयदि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix लिङ् (Benedictive) is optionally used after a verb when it has another verb which expresses ‘expectation’ in construction with it, but not so when the word यत् is used.
Vasu English Translation¶
The affix लिङ् (Benedictive) is optionally used after a verb when it has another verb which expresses ‘expectation’ in construction with it, but not so when the word यत् is used. The whole of the last sutra qualifies this sutra; the ‘expectation’ indicated here being of the kind mentioned in the last sutra and governed by the conditions laid down in that aphorism. The word by which an ‘expectation’ is expressed such as सम्भावय अपि, or अपिनाम, is called सम्भावन-वचन. This sutra enjoins an option where by the last aphorism, there would have been necessarily the Potential Tense. Thus सम्भावयामि भुञ्जीत or भोक्ष्यते भवान् ‘I expect you will eat’; अवकल्पयामि भुञ्जीत or भोक्ष्यते भवान् ‘I hope you will eat’; श्रद्दधे भुञ्जीत or भोक्ष्यते भवान् ‘I believe you will eat’. But no option is allowed, and the Potential must necessarily be used, when the word यत् is employed. As सम्भावयामि यद् भुञ्जीत भवान् ‘I expect you will eat’.
The sutra may also be rendered thus. “The Potential is not necessarily employed where there is in connection with it a verb in the sense of ‘to hold as possible’, but not when यद् is employed.”
Kashika¶
संभावनेऽलमिति चेत् सिद्धाप्रयोग इति सर्वमनुवर्तते। संभावनमुच्यते येन स संभावनवचनः। संभावनवचने धातावुपपदे यच्छब्दवर्जिते धातोर्विभाषा लिङ् भवति। पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनम्। संभावयामि भुञ्जीत भवान्। संभावयामि भोक्ष्यते भवान्। अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान्। श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान्। अयदीति किम्? संभावयामि यद् भुञ्जीत भवान्॥
Siddhanta Kaumudi¶
पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥
Balamanorama¶
विभाषा धातौ सम्भावनवचनेऽयदि - विभाषा धातौ ।अयदी॑ति छेदः । तदाह — नतु यदिति । लिङभावे लृट्, ‘शेषे लडयदौ’ इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः ।
Tattvabodhini¶
विभाषा धातौ सम्भावनवचनेऽयदि - विभाषा धातौ । संभावनमुच्यते येन तत्संभावनवचनं, तस्मिन्धातौ । संभावनार्थकधातावित्यर्थः । भुञ्जीथास्त्वमिति । अत्र पूर्वेण नित्यो लिङ् । धातौ किम् ।संभावनवचने स्वरूपग्रहणं माभूत् । कृते तु संभावनवचने तद्वाचकधातोरप्रयोगादिह विभाषा न भवति । भुञ्जीत भवान् । पूर्वेणाऽत्र नित्यो लिङ् ।
Padamanjari¶
सम्भावयामि भुञ्जीत भवानिति । भोजने भवांश्च्छक्त इत्युत्प्रेक्ष इत्यर्थः ॥
Nyaas¶
{भविष्यति च काले - काशिका} भविष्यति काले` इति। इष्यत इत्यपेक्षते। कथं पुनर्विभाषा भविष्यत्कालश्च लभ्यते, यावता नेह सूत्रे विभाषाग्रहणं विनापि भविष्यत्कालोऽस्ति? अत आह - यस्माद्विभाषाग्रहणमनुवर्तते` इति। तेन विभाषा लिङप्रत्ययो लभ्यते। यत् उताप्योः (3.3.152) इत्यादेः सूत्राल्लिङिति वर्तमाने पुनर्लिङग्रहणं क्रियतेऽतोभविष्यत्कालो लभ्यते। पुनर्लिङग्रहणस्यैतत् प्रयोजनम् - कालविशेषे भविष्यति यथा स्यादिति। तेन हन्तीति पलायत इत्येवमादौ वर्तमानविवक्षायां लडेव भवति। अत्र हननं हेतुः, पलायनं हेतुमत्। पलायते इति। उपसर्गस्यायतौ (8.2.19) इति लत्वम्॥
Prakriyasarvasvam¶
अयदीति छेदः । सम्भावनार्थे धातावुपपदे यच्छब्दाभाव उक्तार्थे लिङ् वा स्यात् । सम्भावयाम्ययं मल्ल हन्यात्, हनिष्यति । यच्छब्दयोगे तु नित्यं लिङेव । सम्भावयामि यदयं मल्लं हन्यात् ।