33140: भूते च¶
Padacheda: भूते | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And (where there is a reason for affixing लिङ् (Benedictive) , the affix ऌङ् (Conditional Future) is to be used, when the non-completion of the action is to be understood) if the sense is that of past time.
Vasu English Translation¶
And (where there is a reason for affixing लिङ् (Benedictive) , the affix ऌङ् (Conditional Future) is to be used, when the non-completion of the action is to be understood) if the sense is that of past time. The whole of the last aphorism is understood in this. The last sutra enjoined लृङ् in the Future tense; this sutra ordains it in the Past, the Conditional tense having both these significations. The reasons for affixing लिङ् are given in sutras (3.3.152) and those that follow it. In sutra (3.3.141) and those that follow, as far as (3.3.152), optional rules for the employment of the Conditional tense will be given. Thus:- दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाऽभोक्ष्यत, न तु भुक्तवान्, अन्येन पथा स गतः । ‘I saw your son, wandering about in search of food, I saw also a twice-born in search of a *Brahmana*(whom he would feast); if he (your son) had been seen by him (the twice-born), then he would have been fed; but as a matter of fact, he has not been fed, he went by a different road’.
The conditional sentence यदि स तेन दृष्टोऽभविष्यत् तदाऽभोक्ष्यत is employed under circumstances set out above. It refers to a past time, there is the relation of cause and effect existing, one being in search of food, and another in search of a guest to feed; and the action is not completed; both taking different roads, did not come across each other.
Bhashya¶
भूते च (1125) (579 लृङ्विधिसूत्रम्॥ 3 । 3 । 2 आदृ 9) (5005 वार्तिकम्॥ 1 ॥) - भूते लृङुताप्यादिषु- (भाष्यम्) भूते लृङ् उताप्यादिषु द्रष्टव्यः। उताध्यैष्यत। अप्यध्यैष्यत॥ भूते॥ 140 ॥
Kashika¶
लिङ्निमित्ते लृङ्क्रियातिपत्ताविति सर्वमनुवर्तते। पूर्वेण भविष्यति विहितः, संप्रति भूते विधीयते। भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ् प्रत्ययो भवति। उताप्योः० (३.३.१५२) इत्यारभ्य लिङ्निमित्तेषु विधानमेतत्। प्राक् ततो विकल्पं वक्ष्यति। दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदाभोक्ष्यत। न तु भुक्तवान्, अन्येन पथा स गतः॥
Siddhanta Kaumudi¶
पूर्वसूत्रं संपूर्णमनुवर्तते ॥
Balamanorama¶
भूते च - भूते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिङ्निमित्ते लृङ् क्रियातिपत्तौ भूत इति अधिक्रियते इति फलितमिति भावः ।
Tattvabodhini¶
भूते च - भूते च । लिङ्निमित्ते लृङ् स्याद्भूते भविष्यति च क्रियापत्तौ । अद्यतनाऽनद्यतनसाधारमं भूतसामान्यमिह ज्ञेयम् । अस्योदाहरणानि -॒उताप्योः समर्थयोर्लिङ् इत्यारभ्यसमानकर्तृकेषु तुमु॑न्निति विहाय सप्तसूत्र्यां बोध्यानि, ततः प्राचीनेषुवोताप्यो॑रित्यनेन विकल्पोक्तेः ।
Padamanjari¶
अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह - यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु’यदायद्योरुपसंख्यानम्’ इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः - अन्येन पथा स गत इति ॥
Nyaas¶
उताप्यरित्यारभ्य`इत्यादि। `उताप्योः समर्थययोः (3.3.152) इत्येतत्प्रभृतिषु लिङ्निमित्तेषु ह्रेतल्लृङविधानम्। कुत एतदित्याह - प्राक् इत्यादि। यस्मात् प्राक् वोताप्योः (3.3.141) इति वक्ष्यते, ततश्च पारिशेष्याद्भूते लिङो विधानं वोताप्योः (3.3.141) इत्यादिष्वेवावतिष्ठते। न तु भुक्तवान् इत्यादि। क्रियातिपर्तिंत दर्शयति॥
Prakriyasarvasvam¶
भूतेऽर्थे चैवं लृङ् स्यात् । लस्तिवादि स्यश्च प्राग्वत् । ङिल्लकारत्वाद् इलोपस्तामादिश्च । अट् । अभविष्यत् अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । तड्यपि लङ्वत् । अभविष्यत अभविष्येताम् अभविष्यन्त । अभविष्यथाः अभविष्येथाम् अभविष्यध्वम् । अभविष्ये अभविष्यावहि अभविष्यामहि । भावकर्मणोर्वा चिण्वदिट् । अभाविष्यत अभविष्यतेत्यादि तद्ववत् । युद्ध- चिन्तायां पाण्डवोक्तिः- <karika> कृष्णः परपक्षेऽसावभविष्यच्चेत् त एव चाजेष्यन् । पूर्वं द्यूते चासावभविष्यच्चेन्न भङ्गमैयाम ॥ ६७४ ॥ </karika> अत्र कृष्णस्य परपक्षे भवनं तेषां जये हेतुरेवेति हेतुहेतुमद्भावोऽस्ति । तस्य चास्मासु दयालुतया तथा न भविष्यतीत्येवं भविष्यदर्थे क्रियातिपत्तिः । भूतेऽर्थेऽपि । कृष्णस्य द्यूते भवनमस्मदभङ्गे हेतुः । स च तत्र नाभूत् । तस्माद् भङ्गो जातः । इति योज्यम् ॥ लृङ् ॥