33159: लिङ् च

Padacheda: लिङ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix लिङ् (Benedictive) is used after a verb when the verbs meaning ‘to wish’ are in construction with it and the agent of both the verbs is the same.

Vasu English Translation

The affix लिङ् (Benedictive) is used after a verb when the verbs meaning ‘to wish’ are in construction with it and the agent of both the verbs is the same. Under similar conditions, with words implying ‘wish’, the Potential is used in the sense of the Infinitive; Thus भुञ्जीय इति इच्छति ‘he wishes that he may eat’; अधीयीयेतीच्छति ‘he wishes that he will read’.

When the non-completion of the action is implied, the Conditional must be employed under rule (3.3.139).

Kashika

इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ् प्रत्ययो भवति। भुञ्जीयेतीच्छति। अधीयीयेतीच्छति। क्रियातिपत्तौ लृङ् भवति। योगविभागः उत्तरार्थः॥

Siddhanta Kaumudi

समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥

Balamanorama

लिङ् यदि - लिङ्यदि । कालसमयवेलास्वत्यनुवर्तते । सर्वलकारापवादः, तुमुनपवादश्च । भुञ्जीत भवानिति यत्तस्यकालः समयो वेला वेत्यन्वयः ।

Tattvabodhini

लिङ् यदि - लिङ् यदि । कालसमयवेलासु चेति ।उपपदेष्वि॑ति वचनविपरिणामेन संबध्यते । तुमुनोऽपवादः । यद्भुञ्जीतेति । यत्कालः पचतीत्यत्र तु न , प्रेषादीनामनुवृत्तेः ।

Padamanjari

किमर्थमिदमुच्यते ? लिङ् यथा स्यात् । सिद्धोऽत्र लिङ् ठिच्छार्थेषु लिङ्लोटौऽ इति ? तस्य समानकर्तृकेषु तुमुन् बाधकः प्राप्तः । वासरूपविधिश्च क्तल्युट्तुमुन्खलर्थेषु प्रतिषिद्धस्तत्र यथा लोण्न भवति एवं लिङपि नस्यात् । अथापि वासरूपविधिः स्याद् ? एवमपि लिणेóव यथा स्याल्लोण्माभूदित्येवमर्थमेतदारब्धव्यमेव ॥

Nyaas

भुञ्जीयाधीय इति। इटोऽत् (3.4.106) । किमर्थं पुनरिदमुच्यते, यावता वासरूपविधिनैवात्र लिङ् भविष्यति? नैतदस्ति;लिङलोटोरपवादत्वाद् बाधकयोः प्राप्तयोस्तद्वबाधनार्थस्तुमुन्, विधीयते। तेन बाधितत्वाद्यथा लोड् न भवति, तथा लिङ्गपि न स्यात्। तसमाल्लिङविधानार्थमिदमुच्यते। योगविभाग उत्तरार्थः इति। उत्तरसूत्रे लिङ एवानुवृत्तिर्यथा स्यात्, तुमुनो मा भूत्॥

Prakriyasarvasvam

समानकर्तृकेष्विच्छार्थेषूपपदेषु तुमुनुक्तः । तत्र लिङ् च स्यात् । न तु लोट् । भुञ्जीयेतीच्छति ।