33143: विभाषा कथमि लिङ् च¶
Padacheda: विभाषा | S | 1 | 1 |
कथमि | S | 7 | 1 |
लिङ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix लिङ् (Benedictive) as well as लट् (Present Tense) is optionally used after a root when the word कथम् is in construction with it and censure is implied.
Vasu English Translation¶
The affix लिङ् (Benedictive) as well as लट् (Present Tense) is optionally used after a root when the word कथम् is in construction with it and censure is implied. The word ‘censure’ is understood, and by च we draw लट् from the previous sutra into this. By using the word ‘optionally’ in the aphorism, it is indicated that this rule does not exclude the application of the alternative tenses which would otherwise have been required by the time of the action. It is not total exclusion like the last. Thus कथं नाम तत्र भवान् वृषलं याजयेत् or याजयति or याजयिष्यति ‘Indeed, how your honor can (or will) sacrifice for a Sudra’.
So also, कथं नाम तत्र भवान् वृषलं याजयिता, अयाजयत् or याजयाञ्चकार ।
Here there is an occasion for the application of the Potential mood (लिङ्); therefore when we intend to express non-completion of action in the past time, we can optionally employ the Conditional also (लृङ्). As कथं नाम तत्र भवान् वृषलम् अयाजयिष्यत् or याजयेत् ‘Indeed, why did your honor (attempt to) sacrifice for that Sudra (in vain)’.
Under similar circumstances, in denoting future time, the Conditional (लृङ्) must invariably be employed (3.3.139); as, कथं धर्मम् अत्यजिष्यः ‘why will you (attempt to) give up your duty’.
Kashika¶
गर्हायामिति वर्तते। कथंशब्द उपपदे गर्हायां गम्यमानायां धातोर्लिङ् प्रत्ययो भवति, चकाराल्लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानामबाधनार्थम्। कथं नाम तत्र भवान् वृषलं याजयेत्। कथं नाम तत्र भवान् वृषलं याजयति। कथं नाम तत्र भवान् वृषलं याजयिष्यति। कथं नाम तत्र भवान् वृषलं याजयिता। कथं नाम तत्र भवान् वृषलमयीयजत्। कथं नाम तत्र भवान् वृषलमयाजयत्। कथं नाम तत्र भवान् वृषलं याजयांचकार। अत्र लिङ्निमित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम्॥
Siddhanta Kaumudi¶
गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥
Balamanorama¶
विभाषा कथमि लिङ् च - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । ‘समुच्चीयते’ इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।
Padamanjari¶
विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मातदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमितमस्तीति । कथमीत्येतद्गर्हा च ॥
Nyaas¶
विभाषाग्रहणम् इत्यादि। यस्मिन् काले लृङादयो विहितास्तेषां बाधनं मा भूदित्येवमर्थं विभाषाग्रहणम्। यद्येवम्, अनर्थकश्चकारः, विभाषाग्रहणादेव हि लटोऽप्यबाधित्वात् सिध्यत्येव? सत्यं सिध्यति वर्तमाने, कालान्तरे तु न सिध्यति। न हि तत्र कथमित्युपपदे लटः प्राप्तिरिति तत् कथं विभाषाग्रहणेन सिध्यति ! तस्माल्लडर्थश्चकारः कर्तव्यः।याजयेत् इति। लिङ। याजयिष्यति इति। लृट्। अयीयजत् इति। लुङ, च्लेश्चङ, णौ चङि ह्रस्वः, णिलोपः, चङि (6.1.11) इति द्विर्वचनम्, सन्यतः (7.4.79) इतीत्त्वम्। अयाजयत् इति। याजयाञ्चकार` इति। लिट्। कास्प्रत्ययात् (3.1.35) इत्याम्, आमः (2.4.81) इति लेर्लुक्, तस्याव्ययत्वात् सुबलुक्, कृञ्च (3.1.40) इत्यादिना लिट आम्परस्य कृञोऽनुप्रयोगःष णल्, द्विर्वचनम्, अभ्यासकार्यम्, अयामन्त (6.4.55) इत्यादिनायादेशः। अत्र लिङ्निमित्तमस्तीति कथमित्येतत् गर्हा च? तदेतद्गर्हायां लिङो विधानाद्भूतविवक्षायां क्रियातिपत्तौ लृङिति भूते चेति वर्तमाने वोताप्योः (3.3.141) इति वचनाद्भविष्यद्विवक्षायां सर्वत्र नित्यनैव लृङा भवितव्यमिति; भवितव्यमिति; भविष्यतीति वर्तमाने `लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति वचनात्॥
Prakriyasarvasvam¶
कथमायोगे कालत्रयेऽपि लिङ् लट् च वा स्यात् । कथं शूद्रान्नं भुञ्जीथाः, भुङ्क्षे वा । पक्षे कालत्रयलकारा ऊह्याः । अत्र लिङ्निमित्तत्वाद् भूते क्रियातिपत्तौ ‘वोताप्योः’ (३-३-१४२) इति वा लृङ् । कथं त्वं शूद्रान्नम्भोक्ष्यथाः । विकल्पात् प्राग्वल्लिलृटौ च । भविष्यति क्रियातिपत्तौ तु नित्यं लृङ्गेव । <karika>क्रियायाः खल्वनिष्पत्तिरतिपत्तिरिति स्थितिः । तद्विरुद्धक्रियायोगेऽप्यतिपत्तिः किलेष्यते ॥ ७७८ ॥</karika> <karika>काकुत्स्थदयितां साध्वीं त्वमशङ्किष्यथाः कथम् । मथ्योनिर्णयसद्भावेऽप्यशङ्किष्ठा इतीर्यते ॥ ७७९ ॥</karika>
Sutra Prayogas¶
उत्सहेय (भट्टिकाव्यम्): विभाषा कथमि लिङ् च इति लिङ्।
नाऽवैति (भट्टिकाव्यम्): विभाषा कथमि लिङ् च इति कथंशब्द उपपदे चकारात् गर्हायां लट् ।
प्रकुर्याम (भट्टिकाव्यम्): विभाषा कथमि लिङ् च इति गर्हायां कथमित्युपपदे भविष्यति लिङ्।
आनन्दयिष्यदागम्य (भट्टिकाव्यम्): विभाषा कथमि लिङ् च इति कथमि उपपदे लृङ्।