33151: शेषे लृडयदौ

Padacheda: शेषे | S | 7 | 1 |

लृट् | S | 1 | 1 |

अयदौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In all the cases when ‘wonder’ is implied by word other than यच्च and यत्र , the affix लृट् (I Future) is used after a root, except when the word यदि is used.

Vasu English Translation

In all the cases when ‘wonder’ is implied by word other than यच्च and यत्र , the affix लृट् (I Future) is used after a root, except when the word यदि is used. In all other cases, that is to say, in cases where the words यच्च or यत्र are not employed, as well as where the word यदि is not used, the First Future is used in preference to the Potential.

Thus आश्चर्यं, चित्रं, अद्भूतम् अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरणम् अध्येष्यते ‘it is wonderful, strange and astonishing that the blind man should ascend a mountain, or a deaf person should read grammar’.

Not so, when the word यदि is employed. Thus आश्चर्यं यदि सोऽधीयीत ‘a wonder, if he study’. आश्चर्यं यदि स भुञ्जीत ‘a wonder, if he eat’.

As there is, in this case, no occasion to employ the Potential, we cannot employ the Conditional as directed in sutras (3.3.139), (3.3.140) and (3.3.141).

Bhashya

शेषे लृडयदौ ,(1136) (587 लृट्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 2 आ.14) - चित्रीकरणे यदिप्रतिषेधानर्थक्यमर्थान्यत्वात्- (भाष्यम्) चित्रीकरणे यदि प्रतिषेधोनर्थकः। किं कारणम्? अर्थान्यत्वात्, नहि यदावुपपदे चित्रीकरणं गम्यते। किं तर्हि? संभावनम्॥ शेषे लृड॥ 151 ॥

Kashika

यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः। शेष उपपदे चित्रीकरणे गम्यमाने धातोर्लृट् प्रत्ययो भवति, यदिशब्दश्चेद् न प्रयुज्यते। सर्वलकाराणामपवादः। आश्चर्यं चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति। बधिरो नाम व्याकरणमध्येष्यते। अयदाविति किम्? आश्चर्यं यदि स भुञ्जीत। यदि सोऽधीयीत। लिङ्निमित्ताभावादिह लृङ् न भवति॥

Siddhanta Kaumudi

यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥

Balamanorama

शेषे लृडयदौ - शेषे लृडयदौ ।यच्चयत्राभ्यामन्यः शेषः । तदाह — यच्चयत्राभ्यामन्यस्मिन्निति । ‘यदिभिन्ने’ इति शेषः । लृट्स्यादिति । नतु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं द्रक्ष्यतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक् इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्याश्चर्यद्योतकम् ।

Tattvabodhini

शेषे लृडयदौ - शेषे । सर्वलकारापवादः । सोऽधीयीतेति । यदायद्योरुपसङ्ख्यानात्जातुयदो॑रिति लिङ् । लिङ्निमित्ताऽभावादिह लृङ् न ।

Padamanjari

यच्चयत्राभ्यामिति । चित्रीकरणापेक्षस्तु शेषो न भवति, तस्येह स्वरितत्वेनाधिकारात् । आश्चर्यं यदि स भुञ्जीतेति । अत्रानवकॢप्तिराश्चर्यं च द्वयं गम्यते, तत्राश्चर्यनिमिते लृटि प्रतिषिद्धे जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानमित्यनवकॢप्तौ लिङ् । भाष्ये तु शम्भावनार्थो यदिशब्दः प्रयुज्यते, ततश्च सम्भावनमत्र तात्पर्यार्थः, न चित्रीकरणम्; ततश्चायदाविति न वक्तव्यम्, लिङपि’सम्भावने’ लम्ऽ इत्यनेनैव’ इत्युक्तम् । यदाह - चित्रीकरणे यदिप्रतिपेधानर्थक्यमर्थान्यत्वादिति ॥

Nyaas

यच्चयत्राभ्याम् इत्यादिना यच्चयत्रापेक्षं शेषं दर्शयति। चित्रीकरणापेक्षया शेषो न शक्यते विज्ञातुम्; चित्रीकरणस्येह स्वर्यमाणत्वात्। आरोक्ष्यति इति। रुह बीजजन्मनि प्रादुर्भावे च (धातुपाठः-859)। हो ढः (8.2.31) , षढोः कः सि (8.2.41) । आश्चर्य यदि भुंजीत इति। अनवकॢप्रेरत्राश्चर्य गम्यते। तत्राश्चर्यनिमित्ते लृटि प्रतिषिद्धे जातुयदोर्लिङविधाने यदायद्योरूपसंख्यानम् (वा।331) इत्यनवकॢप्तौ लिङ॥

Prakriyasarvasvam

यच्चयत्राभ्यामन्येन यदिवर्जेन योगे चित्रीकरणेऽर्थे कालत्रयेऽपि लृङेव । आश्चर्यमेष खलु कृष्णं द्रक्ष्यति । अत्र लिङ्निमित्ताभावाल्लृङ् न । अयदावित्युक्तेः आश्चर्यं यदि स भुञ्जीतेत्यत्र यदायद्योः इति लिङेव ।

Sutra Prayogas

  • तप्र्स्यन्ति (भट्टिकाव्यम्): शेषे लृट् इति लृट्।