33153: कामप्रवेदनेऽकच्चिति¶
Padacheda: कामप्रवेदने | S | 7 | 1 |
अकच्चिति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix लिङ् (Benedictive) comes after a root, in expressing or making known of a wish, except when the word कच्चित् is in composition with it.
Vasu English Translation¶
The affix लिङ् (Benedictive) comes after a root, in expressing or making known of a wish, except when the word कच्चित् is in composition with it. The phrase कामप्रवेदना means the expression of one’s wish. This debars all other tense-affixes. As कामो मे भुञ्जीत भवान् = अभिलाषो मे भुञ्जीत भवान् ‘it is my wish that you will eat’.
Why do we say ‘except the word कच्चित्’? Observe कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता । माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती ॥ ‘I hope thy mother is living, I hope thy father is living, I ask thee, O maravid ! (Parrot), I hope that Parvati is living’.
Kashika¶
स्वाभिप्रायाविष्करणं कामप्रवेदनम्। काम इच्छाभिलाष इत्यनर्थान्तरम्। तस्य प्रवेदनं प्रकाशनम्। तस्मिन् गम्यमानेऽकच्चित्युपपदे धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। कामो मे भुञ्जीत भवान्। अभिलाषो मे भुञ्जीत भवान्। अकच्चितीति किम्?
कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता।
माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती॥
Siddhanta Kaumudi¶
स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥
Balamanorama¶
कामप्रवेदनेऽकच्चिति - कामप्रवेदनेऽकच्चिति ।अकच्चिती॑ति च्चेदः । तदाह — नतु कच्चितीति । सर्वलकारापवादः । अभिप्रायः = इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ् । प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः । अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते ।
Tattvabodhini¶
कामप्रवेदनेऽकच्चिति - कामप्रवेदने । लिङ् स्यादिति । कालत्रये ।सर्वलकारापवादः । कच्चिज्जीवतीति ।कामो मे॑ इत्यनुषञ्जनीयम् ।वर्तमानसामीप्ये॑ इति लट् ।
Padamanjari¶
स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति - काम इच्छेति । माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम् - मातापितरौ पृच्छामि । किमत्र पृच्छयते ? कच्चिज्जीवति ते मातेति ॥
Nyaas¶
कामो मे भुञ्जीत भवान् इति। स्वाभिप्रायं परस्यानेनाविष्कारोति॥
Prakriyasarvasvam¶
<karika>स्वेच्छाप्रवेदनेऽर्थे तु कच्चिच्छब्देन वर्जितात् । लिङ् स्यादभिलषन् ब्रूते भुञ्जीतात्र सखे भवान् ॥ ७८० ॥</karika> सर्वलकारार्थेऽप्येवम् । कच्चिद्योगे तु लिङ् न । कच्चिद् भोक्ष्यते भवान् ।
Sutra Prayogas¶
यायास्त्वमिति (भट्टिकाव्यम्): कामप्रवेदनेऽकच्चिति इत्यकच्चित्युपपदे लिङ् ।
जह्यास्त्वं (भट्टिकाव्यम्): कामप्रवेदनेऽकच्चिति इति लिङ्।