83007: नश्छव्यप्रशान् ===================== **Padacheda:** नः | S | 6 | 1 | छवि | S | 7 | 1 | अप्रशान् | S | 1 | 1 | 6 Sutrartha --------- **'प्रशान्' इति शब्दं वर्जयित्वा, अन्यत्र पदान्तनकारात् परः संहितायाम् छव्-वर्णः, तस्मात् परः च अम्-वर्णः विद्यते चेत् नकारस्य रुँ आदेशः भवति ।** सूत्रपाठे **मतुवसो रु सम्बुद्धौ छन्दसि** (8.3.1) इत्यस्मात् सूत्रात् आरभ्य **कानाम्रेडिते** (8.3.12) इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य **रुत्वप्रकरणस्य** इदम् सप्तमम् सूत्रम् । **पदान्तनकारात् अनन्तरम् संहितायाम् छव्-वर्णः, तस्मात् च अनन्तरम् संहितायाम् अम्-वर्णः वर्तते चेत् नकारस्य अनेन सूत्रेण रुँ आदेशः भवति (परन्तु प्रशान्-शब्दस्य विषये न भवति)** इति अस्य सूत्रस्य आशयः । छव् = चवर्ग/टवर्ग/तवर्गस्य प्रथमद्वितीयव्यञ्जनम् = छ्, ठ्, थ्, च्, ट्, त् । । आहत्य षट् व्यञ्जनानि । अम् = स्वराः, अन्तःस्थाः, वर्गपञ्चमाः, हकारः । सर्वे स्वराः + आहत्य दश व्यञ्जनानि । यथा, 'भवान् तिष्ठति' इत्यत्र अस्य सूत्रस्य प्रयोगं कृत्वा 'भवाँस्तिष्ठति / भवांस्तिष्ठति' इति द्वे रूपे भवतः । प्रक्रिया इत्थम् — .. code-block:: text यथा - भवान् + तिष्ठति → भवारुँ + तिष्ठति [**नश्छव्यप्रशान्** (8.3.7) इति पदान्तनकारस्य रुँत्वम् ] → भवाँरुँ + तिष्ठति / भवांरुँ + तिष्ठति [**अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति विकल्पेन अनुनासिकः । अनुनासिकाभावे **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इति अनुस्वारः] → भवाँः तिष्ठति / भवांः तिष्ठति [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] → भवाँस् तिष्ठति / भवांस् तिष्ठति [**विसर्जनीयस्य सः** (8.3.34) इति सकारादेशः] → भवाँस्तिष्ठति / भवांस्तिष्ठति । अनेनैव प्रकारेण अन्यानि अपि बहूनि उदारहणानि दातुम् शक्यन्ते । यथा — 1) राजन् + चिनुहि → राजँश्चिनु, राजंश्चिनु । अत्र प्रक्रियायाम् सकारस्य **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वे शकारः भवति । 2) शार्ङ्गिन् + छिन्धि → शार्ङ्गिँश्छिन्धि, शार्ङ्गिंश्छिन्धि । अत्र प्रक्रियायाम् सकारस्य **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वे शकारः भवति । 3) काव्यान् + टङ्कयति = काव्याँष्टङ्कयति, काव्यांष्टङ्कयति । अत्र प्रक्रियायाम् सकारस्य **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे षकारः भवति । 4) गतवान् + ठक्कुरः = गतवाँष्ठक्कुरः, गतवांष्ठक्कुरः । अत्र प्रक्रियायाम् सकारस्य **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वे षकारः भवति । 5) विद्वान् + तत्र → विद्वाँस्तत्र, विद्वांस्तत्र । 6) चक्रिन् + त्रायस्व → चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व । 7) दोषान् + त्यक्त्वा → दोषाँस्त्यक्त्वा, दोषांस्त्यक्त्वा । 8) भवान् + थूत्करोति → भवांस्थूत्करोति, भवाँस्थूत्करोति । अस्य रुत्वप्रकरणस्य सूत्रैः विहितात् रुत्वात् पूर्वम् विद्यमानः यः वर्णः, तस्य विकल्पेन **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अनुनासिकादेशः भवति, तदभावे च **अनुनासिकात् परोऽनुस्वारः** (8.3.4) इत्यनेन अनुस्वारः विधीयते । अतः अत्र प्रक्रियायाम् सर्वत्र द्वे रूपे भवतः । प्रशान् इति पदस्य विषये तु इदं सूत्रम् नैव प्रवर्तते । प्र-उपसर्गपूर्वकात् शम्-धातोः क्विप्-प्रत्यये कृते 'प्रशाम्' इति प्रातिपदिकं सिद्ध्यति, तस्य प्रथमैकवचनम् 'प्रशान्' इति नकारान्तं जायते । अस्य शब्दस्य विषये अस्य सूत्रस्य प्रयोगः न भवति, अतः अस्मिन् सूत्रे "अप्रशान्" इति निषेधः कृतः वर्तते । अतः अस्य शब्दस्य विषये "प्रशान् + तनोति‌ → प्रशान्तनोति" इत्येव जायते । **दलकृत्यम्** **1. पदान्तनकारस्य इति किमर्थम् ?** अपदान्तनकारस्य विषये इदं सूत्रं न प्रवर्तते । यथा, तुदादिगणस्य कृतीँ (छेदने) धातोः लट्लकारस्य प्रथमपुरुषस्य एकवचनस्य रूपम् "कृन्तति" इति भवति । अत्र नकारः पदान्ते न विद्यते, अतः अम्-परके तकारे परे अस्य रुँत्वम् न भवति । **2. छवि इति किमर्थम् ?** "भवान् + करोति" अत्र प्रकृतसूत्रेण रुत्वँ न भवति । **3. अम्परे इति किमर्थम् ?** यत्र छव्-वर्णात् अनन्तरम् अम्-वर्णः नास्ति, तत्र प्रकृतसूत्रम् नैव प्रवर्तते । यथा, "सन् + त्सरुः (handle of a sword)" अत्र प्रकृतसूत्रेण रुत्वँ न भवति । Sutrartha (English) ------------------- In the context of संहिता, when a पदान्त नकार is followed by a letter from छव् प्रत्याहार, which in turn is followed by a letter from अम् प्रत्याहार, then the नकार is converted to रुँ. But this conversion does not happen for the word 'प्रशान्'. Vasu English Summary -------------------- रु is substituted for the final न् of a word, with the exception of न् of प्रशान् before a छव् letter (छ ठ थ च ट त) which is followed by an अम् letter (vowel, semi-vowel and nasal). Vasu English Translation ------------------------ रु is substituted for the final न् of a word, with the exception of न् of प्रशान् before a छव् letter (छ ठ थ च ट त) which is followed by an अम् letter (vowel, semi-vowel and nasal). The word अम्परे is to be read into this *sutra*. The word अप्रशान् in the *sutra* is in the Nominative case, but it has the force of Genitive. Thus भवाँश्छादयति or भवांश्छादयति; भवाँश्चिनोति or भवांश्चिनोति; भवाँष्टीकते or भवांष्टीकते, (from the root टीकि 'to go'), भवाँस्तरति or भवांस्तरति ॥ Why do we say 'before a छव् letter'? Observe भवान् करोति ॥ Why do we say 'with the exception of the न् of प्रशान्'? Observe प्रशाम् छादयति, प्रशान् चिनोति ॥ Why do we say 'when अम् follows छव्'? See भवान् त्सरुकः ॥ त्सरु is sword, he who is dexterous in it, is called त्सरुकः (कन् (5.2.64)). Kashika ------- अम्पर इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। भवाँश्छादयति, भवांश्छादयति। भवाँश्चिनोति, भवांश्चिनोति। भवाँष्टीकते, भवांष्टीकते। भवाँस्तरति, भवांस्तरति। छवीति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छादयति। प्रशान् चिनोति। अम्पर इत्येव — भवान् त्सरुकः॥ Siddhanta Kaumudi ----------------- अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिँश्छिन्धि । शार्ङ्गिंश्छिन्धि । चक्रिँस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥ Laghu Siddhanta Kaumudi ----------------------- अम्परे छवि नान्तस्य पदस्य रुः ; न तु प्रशान्शब्दस्य॥ Balamanorama ------------ **नश्छव्यप्रशान्** - नश्छव्यप्रशान् । 'न' इति षष्ठन्तं पदस्येत्यधिकृतस्य विशेषणम् । तदन्तविधिः । 'अम्परे' इत्यनुवर्तते, 'रु' इति च । तदाह-अम्पर इत्यादिना ।अप्रशा॑निति षष्ठर्थे प्रथमा । तदाह-न त्विति । विसर्ग इति । 'शाङ्ग-छिन्धि'चक्रिन्-त्रायस्वे॑ति स्थिते नकारस्यानेन रुत्वम् । अनुनासिकानुस्वारविकल्पः । ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः । शार्ङिंश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङिंश्चिन्धीति । अनुस्वारपक्षे रूपम् ।चक्रिंस्त्रायस्वे॑त्यनुनासिकपक्षे । अनुस्वारपक्षे तुचकिंरस्त्रायस्वे॑ति । त्रैङ् पालने । ङित्त्वादात्मनेपदी ।त्राही॑ति प्राचीनग्रन्थस्तु प्रामादिकः । त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम् । प्रशानिति । प्रपूर्वाच्छाभ्यतेः क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।मो नो धातो॑रिति मस्य नः । तस्यासिद्धत्वान्नलोपो न । Tattvabodhini ------------- **नश्छव्यप्रशान्** - प्रशानिति । प्रपूर्वाच्छाम्यतेः क्विप् ।अनुनासिकस्ये॑ति दीर्घः ।मो नो धातो॑रिति नः । तस्याऽसिद्धत्वान्नलोपो न । Padamanjari ----------- प्रशान्वर्जितस्येति । सूत्रे तु ठप्रशान्ऽ इति षष्ठ।ल्र्थे प्रथमा । टीकतिर्गत्यर्थोऽनुदातेत् । त्सरुः उ खङ्गग्रहणप्रदेशः, तत्र कुशलः त्सरुकः, आकर्षादिभ्यः कन् ॥ Nyaas ----- `स` इति। निवृत्तम्, रुरेवानुवर्तते; सोऽपि मतुवसुभ्यामसम्बद्ध एव; तयोरपि निवृत्तत्वात्। `न` इति वर्णग्रहणम्, तच्च प्रकृतस्य पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - `नकारान्तस्य पदस्य` इत्यादि। `भवांश्छादयति` इति। `झद अपवारणे` (धातुपाठः-1833), चुरादिणिच्। `भवांष्टीकते` इति। `टिकृ टीकृ रधि लघि गत्यर्थाः` (धातुपाठः-103,104,107,108)। अनुदात्तत्त्वादात्मनेपदम्। `प्रशान्` इति। प्रपूर्वाच्छमेः क्विप्? `अनुनासिकस्य विवझलोः क्ङिति` (6.4.15) इति दीर्घः, **मो नो धातोः** (8.2.64) इति मकारस्य नकारः, तस्यासिद्धत्वान्नलोपाभावः। `भवान्? त्सरुकः` इति। त्सरौ कुशलः, **आकर्षादिभ्यः कन्** (5.2.64) इति कन्प्रत्ययः॥ Praudhamanorama --------------- **चक्रिँस्त्रायस्वेति।** यत्तु प्राचा त्राहीत्युक्तं, तत्र परस्मैपदमयुक्तम्। त्रायतेर्ङित्त्वात्। त्रायत इति त्राः स इवाचरतीत्यर्थे कर्तरि क्विबन्तादाचारक्विपि वा बोध्यम्। **प्रशानिति।** प्रपूर्वाच्छाम्यतेः क्विप्। **अनुनासिकस्य क्वि—** (6.4.15) इति दीर्घः। **मो नो धातोः** (8.2.64) इति नः। तस्यासिद्धत्वान्नलोपो न॥ Prakriyasarvasvam ----------------- अम्परे छवि परे नान्तस्य पदस्य रुः स्यात् नतु प्रशान् शब्दस्य । क्रीडर् चक्री । जनार् त्राता । प्राग्वदनुनासिकानुस्वारौ । Sarala ------ **पदस्य** (८.१.१६) इत्यधिकृतं, तच्च विशेष्यं, "न" इति च विशेषणम् । विशेषणेन च तदन्तविधिः ॥ **मतुवसो रु सम्बुद्धौ छन्दसि** (८.३.१) इत्यतः "रु" इति, **पुमः खय्यम्परे** (८.३.६) "अम्परे" इति चानुवर्तते इत्याह - **अम्परे इति** ॥ Sudha ----- **नश्छव्यप्रशानिति ।** न इति षष्ठ्यन्तं पदस्येत्यधिकृत्य विशेषणम् । तदन्तविधिः । अम्परे इति रुँ इति चानुवर्तते, तदाह — **अम्पर इत्यादिना । ** **चक्रिंस्त्रायस्वेति । ** "चक्रिन्-त्रायस्व" इति स्थिते **नश्छव्यप्रशान्** (8.3.7) इत्यनेन नान्तस्य पदस्य "चक्रिन्" इत्यस्य रुँत्वे प्राप्ते **अलोऽन्त्यस्य** (1.1.52) इत्यनेन न् इत्यस्य स्थाने रुँ कृते अम्परकछव्प्रत्याहारान्तःपातिनि ककारे परे "चक्रिरुँ त्रायस्व" इति जाते रेफोत्तरवर्त्युकारस्येत्संज्ञायां लोपे च "चक्रिर् त्रायस्व" इति जाते **अत्रानुनासिकः पूर्वस्य तु वा** (8.3.2) इति अनुनासिके, पक्षे **अनुनासिकात्परोऽनुस्वारः** (8.3.4) इत्यनुस्वारे च "चक्रिँर् त्रायस्व", "चक्रिंर् त्रायस्व" इति जाते **खरवसानयोर्विसर्जनीयः** (8.3.15) इति उभयत्र रेफस्य विसर्गे कृते सति **विसर्जनीयस्य सः** (8.3.34) इत्यनेन विसर्गस्य सत्वे "चक्रिँस्त्रायस्व", "चक्रिंस्त्रायस्व" इति रूपद्वयं बोध्यम् ॥ **अप्रशान् किमिति ।** "प्रशान् तनोति" इत्यत्र सूत्रार्थसमन्वयात् नकारस्य रुत्वं प्राप्तम्, तन्नेष्टमिति शास्त्रे **अप्रशान्** इति पर्युदस्यते ॥ Sutra Prayogas -------------- * **त्रि-मूर्धाश्चाऽहतां** (भट्टिकाव्यम्): `नश्छव्यप्रशान्` इति रुः । * **स्वस्मिंस्तिष्ठन्तमात्मनि** (भट्टिकाव्यम्): `नश्छव्यप्रशान्` इति नकारस्य रुत्वम्। * **काम्यंस्तमस्** (भट्टिकाव्यम्): `नश्छव्यप्रशान्` इति रुत्वं विसर्जनीयसकारौ च पूर्वस्यानुनासिकः। * **भक्ष्यांश्चाऽऽदन्यथेप्सितान्** (भट्टिकाव्यम्): `नश्छव्यप्रशान्` इति रुत्वम्। * **अवर्त्स्यंस्तरां** (भट्टिकाव्यम्): `नश्छव्यप्रशान्` इति रुत्वं पूर्वस्यानुस्वारः।