82099: प्रतिश्रवणे च
====================
**Padacheda:** प्रतिश्रवणे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha
---------
****
Vasu English Summary
--------------------
The end syllable of the sentence which expresses assent or promise or listening to, is प्लुत।
Vasu English Translation
------------------------
The end syllable of the sentence which expresses assent or promise or listening to, is प्लुत।
The word प्रतिश्रवण means "agreement, assent or promise": It also means "listening to". All these senses are to be taken here, as there is nothing in the *sutra* to restrict its scope. Thus it has three senses, 1. to promise something to a petitioner, 2. to acknowledge the truth of some proposition, 3. to listen to another's words. Thus गां मे देहि भोः, 1. हन्त ते ददामि꣡ ३ ॥ 2. नित्यः शब्दो भवितुमर्हति꣡ ३ ॥ 3. देवदत्त भोः, किमात्या꣡ ३ ॥
Kashika
-------
प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम्, श्रवणाभिमुख्यं च। तत्राविशेषात् सर्वस्य ग्रहणम्। प्रतिश्रवणे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति। देवदत्त भोः, किमा॒त्थ३। गां मे देहि भोः, अहं ते द॒दा॒मि३। नित्यः शब्दो भवितुम॒र्ह॒ति३॥
Siddhanta Kaumudi
-----------------
वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ॥
Padamanjari
-----------
प्रतिश्रवणे च॥ प्रतिश्रवणमभ्युपगम इति। अङ्गीकारः। प्रतिज्ञानमिति। प्राथितस्य देयत्वेन संवादः। अत्रोभयत्रापि गतिसमासः, अर्थध्वयेऽपि प्रतिपूर्वः शृणोतिः प्रसिद्धः। श्रवणाभिमुख्यं चेति। अत्र'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः। उदाहरणानि तु व्युत्क्रमेण दतानि। किमात्थ6 इति। किं ब्रूषे - इत्येतत्पृच्छति। अत्र च श्रवणाभिमुख्यं गम्यते। हन्त ते ददामि 6इति। अत्रि प्रार्थितस्य संवादो गम्यते। देवदत भोरित्यामन्त्रितम्। स यदर्थमामन्त्रितस्तच्छवणार्थं किमात्थ इति। गां मे देहि भोः, नित्यः शब्दो भनितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते॥
Nyaas
-----
प्रतिश्रुतिः प्रतिश्रवणम्। प्रतिपूर्वाच्छृणोतेर्भावे ल्युट्, `कुगति` (2.2.18) इत्यादिना तत्पुरुषः। प्रतिपूर्वस्य शणोतिर्यदा परानुग्रहो विवक्ष्यते, तदाभ्युपगमे वर्तते। अथ त्वविवक्षा परानुग्रहस्य, तदा प्रतिज्ञाने। यदा श्रितिः -श्रवणमिति भावसाधनेन श्रवणशब्देन प्रतिशब्दस्य **लक्षणेनाभिप्रती आभिमुख्ये** (2.1.14) इत्यव्ययीभावः क्रियते, तदा श्रवणाभिमुख्ये श्रवणं प्रति प्रवृत्त इत्यर्थः। तदिह विशेषानभिधानात्? सर्वस्मिन्? प्रतिश्रवणे वाक्यस्य टेः प्लुतो भवति। `देवदत्त भोः किमात्थ3` इति। एतच्छ्रवणाभिमुख्य उदाहरणम्। `देवतत्त भोः` इत्यामन्त्रितम्। तप्र श्रवणार्थमेवमाह -`किमात्थ3` इति। एकत्र श्रवणमुद्दिश्य प्रवृत्तत्वादभिमुखं भवति। अभ्युपगमे तूदाहरणम् -`गां मे देहि भोः, अहं ते ददामि3` इति। प्रतिज्ञाने -`नित्यः शब्दो भवितुमर्मति` इति। चकारो भाषायामित्यनुकर्षणार्थः॥
Prakriyasarvasvam
-----------------
प्रार्थितस्यानुवादश्च स्वस्याभ्युपगमस्तथा । श्रवणाभिमुखत्वं च प्रतिश्रवणमिष्यते ॥ ३९ ॥ एष्वर्थेषु वाक्यटेः प्लुतः स्यात् । इष्टं ददामि ३ इत्याह नित्य आत्मा ३ इति ब्रुवे । सखे किमात्थ ३ इत्याह श्रवणाभिमुखोऽपरः ॥ ४० ॥