82098: पूर्वं तु भाषायाम् ========================= **Padacheda:** पूर्वम् | S | 1 | 1 | तु | S | 0 | 0 | भाषायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the common speech, the end vowel of the first alternative is only प्लुत। Vasu English Translation ------------------------ In the common speech, the end vowel of the first alternative is only प्लुत। This makes a *niyama* or restriction. The previous *sutra*, is thus confined to Vedic literature, and not to the vernacular. तु here has the force of 'only'. Thus अहि र्तू꣡ ३ रज्जुर्नु 'Is it a snake or a rope'? लोष्टो तू꣡ ३ कपोतोनु 'Is it a clod of earth or a pigeon ?' The priority, of course, depends upon employment. The order of words depends upon one's choice. Kashika ------- भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते। अहिर्नु३ रज्जुर्नु। लोष्टो नु३ कपोतो नु। प्रयोगापेक्षं पूर्वत्वम्। इह भाषाग्रहणात् पूर्वयोगश्छन्दसि विज्ञायते॥ Siddhanta Kaumudi ----------------- विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥ Padamanjari ----------- पूर्वं तु भाषायाम्॥ पूर्वेणैव सिद्धे नियमार्थमेतत्, तुशब्दस्त्विष्टतोऽवधारणार्थः, यर्थेवं विज्ञायेत - पूर्वमेव भाषायामिति, मैवं विज्ञायि -पूर्वं भाषायामेवेति। पूर्वत्वं च प्रयोगापेक्षम्। उदाहरणे नुशब्दो वितर्केअ। लोष्टःउमृत्पिण्डः॥ Nyaas ----- पूर्वेणैव सिद्धे नियमार्थमेतत्। तुशब्दस्त्विष्टतोऽवधारणार्थः। असति हि तस्मिन्? विपरीतोऽपि नियमो विज्ञायेत -भाषायामेव पूर्वमिति। पूर्वत्वं च प्रयोगापेक्षम्। अहिर्नु3, रज्जुर्नु3 -इत्येतयोर्वाक्यायोर्यत्? पूर्वं प्रयुज्यते तस्यैव टेः प्लुतो भवति। इह तु भावाग्रहणात्? पूर्वयोगाश्छन्दसीति विज्ञायते॥ Prakriyasarvasvam ----------------- लोके विचार्यमाणानां पूर्वभागः प्लवते । रज्जुर्नु ३ अहिर्नु ।