82097: विचार्यमाणानाम् ====================== **Padacheda:** विचार्यमाणानाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The end syllable of those sentences is प्लुत which denote acts of reflection (or balancing between two alternatives). Vasu English Translation ------------------------ The end syllable of those sentences is प्लुत which denote acts of reflection (or balancing between two alternatives). To determine a thing by weighing all arguments pro and con is called *vichara* or judgment. Thus होतव्यं दीक्षितस्य गृहा ३ इ न होतव्या꣡३म् "should one perform sacrifice in the house of an initiated person". Similarly तिष्ठेद्यूपा३इ, अनुप्रहरेद्यूपा३इ ॥ Here also it is being reflected upon whether यूपे तिष्ठेत् or यूपे अनुप्रहरेत् ॥ i. e. should the stake remain upright or should it be put flat by the *yajamana*. किं यूपस्तिष्ठेत्, किं वा यूपं यजमानः शाययेत् ॥ Kashika ------- प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचार्यमाणानां वाक्यानां टेः प्लुतो भवति। हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। होतव्यं न होतव्यमिति विचार्यते। तिष्ठेद्यूपा३इ। अनुप्रहरेद्यूपा३इ। यूपे तिष्ठेत्, यूपेऽनुप्रहरेदिति विचार्यते॥ Siddhanta Kaumudi ----------------- वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ॥ Padamanjari ----------- कोटिद्वयस्य विज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ॥ इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृह3इ इति । गृहेशब्दस्य पूर्ववत् प्लुतविकारः । अनुप्रहरेदिति । अनुप्रहारः उ शायनम्, व्यत्ययेन कर्मणि कर्तृप्रत्ययः, शाययेतेत्यर्थः । अथ वानुप्रहरेदित्यत्र यूपं यजमान इत्यस्याध्याहारः, किं यूपं यजमानः शाययेदिति विचारार्थः ॥ Nyaas ----- `प्रमाणेन वस्तुपरीक्षणं विचारः। तेन विषयीक्रियमाणानि विचार्यमाणानि। बहुवचननिर्देशो येषामर्थगत एव विचारो न स्वरूपगतः, तेषामपि यथा स्यादित्येवमर्थः; इतरथा हि येषां स्वरूपगतो विचारस्तेषामेव स्यात्। न हि मुख्ये वाक्ये विचार्यमाणे सत्यर्थद्वारकं गौणं यस्य विचार्यमाणत्वं तस्य ग्रहणं युक्तम्। `गृहा3इ` इति। गृह इत्यत्र एकारः, तस्य `एचोऽप्रगृह्रस्य` (8.2.107) इत्यादिना पूर्वार्थस्याकारः, उत्तरार्धस्य त्विकारः। तस्याकारस्यानेन प्लुते भवति॥ Prakriyasarvasvam ----------------- विचार्यमाणार्थानां छन्दसि टेः प्लुतः स्यात् । सणकारं श्रवाणौ ३. अणकारां ३ इति ।