82096: अङ्गयुक्तं तिङ् आकाङ्क्षम् ================================= **Padacheda:** अङ्गयुक्तम् | S | 1 | 1 | तिङ् | S | 1 | 1 | आकाङ्क्षम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The final syllable of a finite verb used as a threat becomes प्लुत when the word अङ्ग is joined with it and it demands another sentence to complete the conclusion. Vasu English Translation ------------------------ The final syllable of a finite verb used as a threat becomes प्लुत when the word अङ्ग is joined with it and it demands another sentence to complete the conclusion. Thus अङ्ग कूजा꣡ ३ इदानीं ज्ञास्यसि जाल्म ॥ अङ्ग व्याहरा꣡ ३, इदानीं ज्ञास्यसि जाल्म ॥ Why do we say 'a verb'? Observe अङ्ग देवदत्त मिथ्या वदसि ॥ Why do we say "when this calls for a conclusion"? Observe अङ्ग पच ॥ Here it is a complete sentence and does not demand another to complete the sense. The word भर्त्सने of the last *sutra* is understood here also. Therefore not here, अङ्ग अधीष्व, ओदनं ते दास्यामि ॥ Here अङ्ग has the force of solicitation. (8.1.33). Kashika ------- अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते। अङ्ग कू॒ज३, अङ्ग व्या॒ह॒र३ इदानीं ज्ञास्यसि जाल्म। तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि। आकाङ्क्षमिति किम्? अङ्ग पच। नैतदपरमाकाङ्क्षति। भर्त्सन इत्येव — अङ्गाधीष्व, ओदनं ते दास्यामि॥ Siddhanta Kaumudi ----------------- अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ॥ Padamanjari ----------- आकाङ्क्षतीत्याकाङ्क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये । अङ्ग देवदतेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ॥ Nyaas ----- `आकाङ्क्षम्` इति। आकाङ्क्षति अपेक्षत इत्याकाङ्क्षम्, पचाद्यच्। `अङ्ग कूज3` इत्यादि। अङ्गकूज 3, अङ्ग व्याहर 3 -इत्येतदुभयमपि `इदानीं ज्ञास्यति जाल्म` इत्येतदपेक्षते। `अङ्ग देवदत्त` इत्येतदपि `मिध्या वदसि` इत्येतत्। `अधीष्व` इत्येतदपि `ओदनं ते दास्यामि` इत्येतत्। `नैतदपरमाकाङ्क्षति` इति। विवक्षितार्थस्य परिसमाप्तत्वात्। अथ युक्तग्रहणं किमर्थम्, यावता पदविधित्वादेव योगो विज्ञास्यते। एवं तर्हि युक्तग्रहणं कुर्दन्नेतज्ज्ञापयति -**समर्थः पदविधिः** (2.1.1) इत्येषा परिभाषाऽनित्या। तेनाऽसूर्यम्पश्यानि मुखानीति नञोऽसत्यपि सूर्यशबह्देन सामर्थ्ये समासः सिद्धो भवति॥ Prakriyasarvasvam ----------------- अङ्गशब्दयुक्तं वाक्यान्तराकाङ्क्षं तिङन्तं भर्त्सने प्लवते । अङ्ग प्रलप³ ३ इदानीं ज्ञास्यसि ।