82091: ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ========================================== **Padacheda:** ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् | S | 6 | 3 | आदेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In a sacrificial work, the first syllable of 1. ब्रूहि 2. प्रेष्य 3. श्रौषट् and 4.आवह is प्लुत। Vasu English Translation ------------------------ In a sacrificial work, the first syllable of 1. ब्रूहि 2. प्रेष्य 3. श्रौषट् and 4.आवह is प्लुत। Thus अग्नयेऽनुब्रू꣡३हि (*Maitr* *Samhita* I.4. II), अग्नये गोमयानि (or म्) प्रे꣡ ३ष्य, अस्तु श्रौ꣡ ३षट्; सोमस्याग्ने वीही ३ वौ꣡ ३षट्, अग्निमा꣡ ३वह ॥ So also in पित्र्यायामनुस्व३धाon the analogy of ब्रूहि, so also अस्तुस्व३धा ॥ The word वौषट् is illustrative of the six forms वषट्, वौषट्, वौक्षट्, वाक्षट्, वामद, वक्षाट् ॥ But there is no prolation in आवह देवान् यजमानाय; आवह जात वेदः ॥ Kashika ------- ब्रूहि प्रेष्य श्रौषट् वौषट् आवह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि। अग्नये॒ऽनुब्रू३हि॒ (श०ब्रा० २.५.३.१२)। प्रेष्य — अग्नये गोमयान् प्रे३ष्य॑। श्रौषट् — अस्तु॒ श्रौ३ष॒ट् (तै०सं० १.६.११.१)। वौषट् — सोमस्याग्ने वीही३वौ३ष॑ट् (ऐ०ब्रा० ३.५,६)। आवह — अ॒ग्निमा३व॑ह (तै०ब्रा० ३.५.३.२)। आव॑ह दे॒वान् यज॑मानाय (तै०ब्रा० ३.५.३.२) इत्येवमादावयं प्लुतो न भवति। **सर्वे विधयश्छन्दसि विकल्प्यन्ते** इति॥ Siddhanta Kaumudi ----------------- एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ॥ Padamanjari ----------- पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व3धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्शब्दस्य । आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन -आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ॥ Nyaas ----- श्रौषट्, वौषडिति निपातौ; इतराणि लोण्मध्यमपुरुषैकवचनानि। केचित्तु आवहशब्दोऽपि निपात इत्याहुः। `प्रेष्य` इति। `ईषु गतौ` [दिवादिषु `इष गतौ` इत्येव पठते] (धातुपाठः-1127), दिवादित्वाच्छ्यन्, उपसर्गाकारेण सह **आद्गुणः** (6.1.87) । अथेह कस्मान्न भवति -`आवह देवान्? यजमानाय` (वा।सं।5।12), `आवह जातवेदः` (आ।श्रौ।सू।1.3.22), `सुयजा यज`? इत्याह -`आवह देवान्` इत्यादि। आदिग्रहणं वाक्यादेर्मा भूदिति॥ Prakriyasarvasvam ----------------- यज्ञे एषामादेरचः प्लुतः स्यात् । अग्नयेऽनुब्रू ३ हि । अग्नये प्रै ३ ष्य । अस्तु श्रौ ३ षट् । जिह्वामग्ने चकृषे हव्यवाहां ३ वौ ३ षट् । जिह्वामग्ने चकृषे हव्यवाहां ३ वौषट् । वौषट् शब्दस्योपलक्षणत्वाद् वषट् शब्दमते तस्यापि स्यात् । अग्निमा ३ वह । आवह देवानित्यादौ छन्दसि सर्वस्य विकल्पितत्वान्न प्लुतः ।