82090: याज्याऽन्तः ================== **Padacheda:** याज्याऽन्तः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The last vowel at the end of मन्त्र-s called याज्य , when used in sacrificial works is प्लुत and has the acute accent (उदात्त). Vasu English Translation ------------------------ The last vowel at the end of मन्त्र-s called याज्य , when used in sacrificial works is प्लुत and has the acute accent (उदात्त). Thus स्तोमैर्विधेमाग्नये३ (*Rig*. VIII.43. II), जिह्वामग्ने चकृषे हव्यवाहा३म् (*Rig*. X. 8.6). Why do we say 'at the end'? There are some *Yajya* hymns, consisting of several sentences. The final vowel (टि) of every sentence would have become *pluta*, in such a hymn. To prevent it, the word "*anta*" is used, so that the final vowel of the hymn at the end of all, becomes *pluta*. Bhashya ------- याज्याऽन्तः अन्तग्रहणं किमर्थम्?॥ याज्या नामर्चो वाक्यसमुदायस्तत्र यावन्ति वाक्यानि सर्वेषां टेः प्लुतः प्राप्नोति, इष्यते चाऽन्त्यस्य स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमन्तग्रहणम्॥ झ्र्याज्याऽन्तःट। Kashika ------- याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्रास्तेषामन्त्यो यष्टिः स प्लवते, यज्ञकर्मणि। स्तोम॑ैर्विधेमा॒ग्नये॑३ (ऋ० ८.४३.११)। जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑३म् (तै०सं० ४.४.४.१)। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद् वाक्यसमुदायरूपाः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्यैवेष्यते, तदर्थमन्तग्रहणम्॥ Siddhanta Kaumudi ----------------- ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ॥ Padamanjari ----------- याज्याकाण्ड इति । याज्यानुवाक्याकाण्डमिति समाख्याने प्रकरणे । तेषामिति । मन्त्राणाम् । तासामिति पाठे तासां याज्यानामन्तः । प्लवत इति । त्रिमात्रतया वर्धत इत्यर्थः । अग्नये3 इति । चतुर्थ्येकवचनान्तस्याग्नयेशब्दस्य ठेचोऽप्रगृह्यस्यऽ इति प्लुतविकारः । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्, विशेषणं वा; पूर्वस्मिन् कल्पे प्लुतश्रुत्याच्परिभाषोपस्थानादचान्ते विशेषेतेऽजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकम्; टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह - अन्तग्रहणं किमिति । इतरोऽपि विदिताभिप्राय आह - याज्या नामेति ॥ Nyaas ----- इहान्तग्रहणं टेरित्येतस्य निवर्तकं वा स्यात्? विशेषणं वा? पूर्वस्मिन्? पक्षेऽचान्ते विशेषितेऽजन्ताया एव याज्याया प्लुतः स्यात्। इतरस्मस्त्वन्तग्रहणमनर्थकम्, न ह्रनन्त्यष्टिः सम्भवति; **अचोऽन्त्यादि टि** (1.1.64) इत्यस्यैव टिशब्दरूपविशषसंज्ञाविधानादित्यभिप्रायेणाह -`अन्तग्रहणं किम्` इति। इतरोऽपि विदिताभिप्रायोऽन्यदेवान्तग्रहणस्य प्रयोजनं दर्शयितुमाह -`याज्या नाम` इत्यादि। गतार्थम्॥ Prakriyasarvasvam ----------------- याज्यानामन्तष्टिः प्लवते । जिह्वामग्ने चक्रृषे हव्यवाहां ३ वौ । अन्तग्रहणं मृङ्मध्यवाक्यान्त्यस्याभावार्थः ।