82016: अनो नुट् =============== **Padacheda:** अनः | S | 5 | 1 | नुट् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix मत् gets the augment नुट् in the छन्दस् (Vedas) after a अङ्ग (stem) ending in अन्। Vasu English Translation ------------------------ The affix मत् gets the augment नुट् in the छन्दस् (Vedas) after a अङ्ग (stem) ending in अन्। As अक्षण्वन्तः कर्णवन्तः सखायः; अस्थन्वन्तं यदनस्था बिभर्त्ति (*Rig*. I.164.4), अक्षण्वता लाङ्गलेन; शीर्षण्वती, मूर्द्धन्वती ॥ The word अक्षण्वत् is thus formed : अक्षि + मतुप् = अक्ष् + अन् + मत् (अनङ् is substituted for the final of *akshi* by (7.1.76)) = अक्षमत् (the म् is elided by (8.2.7)). Now we add the augment नुट् ॥ If this augment is added to मतुप्, as म्मतुप् then it becomes a portion of मतुप्, and this म् would be changed to व by (8.3.9) read with (1.1.54), and not the letter म्, because म् intervenes. If we add this augment to the end of the stem, then in अक्षण्वता &c. we cannot change it to ण because of the prohibition in (8.4.37), and the augment being नुक्, the न् would be changed to र् by (8.3.7) in सुपथिन्तरः &c (8.2.17). The first view, however, is the correct one and the difficulty in its acceptance is obviated by नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति; ततः परस्य च भवति; as shown above. The नुट् augment being considered as *asiddha*, is not changed to व, but the letter following it, is so changed. Thus अक्षन् (7.1.76) + मत् = अक्ष + मत् (the न् of the stem is elided by (8.2.7). Add the augment नुट् now, and we have अक्ष + न्मत् ॥ The augment according to (8.2.1), is *asiddha*, so that according to (8.2.9), व् is substituted for म्, and not for न्, as would have been required by (1.1.54). Bhashya ------- अनो नुट् यदि पुनरयं नुट् पूर्वान्तः क्रियेत-अनो(2) नुगिति॥ अनो नुकिविनामरुविधिप्रतिषेधः॥ अनो नुकि सति विनामो विधेयः। अक्षण्वान् पदान्तस्य(4) नेति निषेधः प्राप्नोति॥ रुश्च प्रतिषेध्यः-सुपथिन्तरः। नश्छव्यप्रशानिति रुः प्राप्नोति॥ अस्तु तर्हि परादिः॥ परादौ वत्वप्रतिषेधोऽवग्रहश्च॥ यदि परादिर्वत्वस्य प्रतिषेधो वक्तव्यः। अक्षण्वानिति(2)। मादुपधायाश्च मतोर्वोऽयवादिभ्य इति वत्वं प्राप्नोति। अवग्रहश्चाऽनिष्टे देशे प्राप्नोति-अक्षण्वानिति(2)॥ अस्तु तर्हि पूर्वान्तः॥ ननु चोक्तम्-अनो नुकि विनामरुविधिप्रतिषेधइति। ॥ भत्वात्सिद्धम्॥ झ्र्भत्वात्सिद्धमेतत्(3)ट भसंज्ञा वक्तव्या॥ यदि तर्हि भसंज्ञा अल्लोपोऽन इत्यल्लोपः प्राप्नोति॥ अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि॥ अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि वक्तव्यम्॥ इह तर्हि सुपथिन्तरः-नान्तस्य टिस्तद्धिते लुप्यत इति लोपः प्राप्नोति॥ ॥ घग्रहणं च॥ घग्रहणं च कर्तव्यम्॥ तत्तर्हीदं बहुवक्तव्यं, नुग्वक्तव्यो, भसंज्ञा च वक्तव्या, अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि कर्त्तव्यं(1), घग्रहणं च कर्तव्यमिति॥ न कर्तव्यम्-यत्तावदुच्यते नुग्वक्तव्यइति, नुक एष परिहारो भत्वात्सिद्धमिति॥ झ्र्यदप्युच्यते(2)ट ठभसंज्ञा वक्तव्येति। क्रियते न्यास एव-अयस्मयादीनिच्छन्दसीति॥ यदप्युच्यते अनस्तु प्रकृतिभावे मतुब्ग्रहणं छन्दसि घग्रहणं च कर्तव्यमिति, न कर्तव्यम्। उभयसंज्ञान्यपि हि छन्दांसि दृश्यन्ते। तद्यथा-स सुष्ठुभा स ऋक्वता गणेन। पदत्वात्कुत्वं, भत्वाज्जश्त्वं, न भवति। एवमिहापि पदत्वादल्लोपटिलोपौ न, भत्वाद्विनामरुविधिप्रतिषेधौ भविष्यतः॥ सिध्यति-सूत्रं तर्हि भिद्यते॥ यथान्यासमेवाऽस्तु॥ ननु चोक्तं-परादौ वत्वप्रतिषेधोऽवग्रहश्चेति॥ यत्तावदुच्यते वत्वप्रतिषेधइति। निर्दिश्यमानस्यादेशा भवन्ती- त्येवं न भविष्यति। यस्तर्हि(3) निर्दिश्यते तस्य न प्राप्नोति॥ किं कारणम्?॥ नुटा व्यवहितत्वात्॥ असिद्धो नुट्, तस्याऽसिद्धत्वाद्भविष्यति॥ अवग्रहेऽपि, न लक्षणेन पदकारा अनुर्वत्याः, पदकारैर्नाम लक्षणमनुर्वत्त्यम्। यथालक्षणं पदं कर्तव्यम्॥ झ्र्अनो नुट्ट॥ Kashika ------- छन्दसीति वर्तते। अनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये। अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः (ऋ० १०.७१.७)। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)। अक्षण्वता लाङ्गलेन (पै०सं० ९.८.१)। शी॒र्ष॒ण्वती॑ (शौ०सं०१०.१.२)। मूर्ध॒न्वती॑ (तै०सं० २.६.२.२)। नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति॥ Siddhanta Kaumudi ----------------- अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ॥ Padamanjari ----------- अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि'च्छन्दस्यपि दृश्यते' इति अनङदेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति ।'शीर्षंश्च्छन्दसि' शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति च्छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात्'मादुपधायाः' इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता - णत्वं न स्यात् । इह च सुपथिन्तरः - उतरसूत्रेण नुकि कृते पदान्तत्वात्'नश्च्छव्यप्रशान्' इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्तव्यः, तत्र चोक्तो दोषः । अत आह - नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति - अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ Nyaas ----- `अक्षण्यन्तः` इति। **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः** (7.1.75) , ` छन्दस्यापि दृश्यते` (7.1.76) इत्याङ्; नुट्, अनङी नकारस्य लोपः नुमो णत्वम्। `अस्थन्वन्तम्` इति। अस्थिशब्दस्य णत्ववर्ज पूर्ववदनङादि कर्तव्यम्। `शीर्षण्वती` इति। **शीर्षंश्छन्दसि** (6.1.60) निपातितम्। ननु च नुटोऽनन्तरत्वात्? तस्यैव वत्वेन भवितुं युक्तम्, न तु तद्व्यवहितस्य मकारस्य, तत्कथमिह नुटो वत्वं न भवति, ततस्तु परस्य न भवति? इत्याह -`नुटोऽसिद्धत्वात्` इत्यादि। अथायं नुट्? परत्वादपवाद एव कस्मान्न भवति? भिन्नजातीयत्वात्। समानजातीयकार्यपन्नो हि विशेषः सामान्यस्य बाधको भवति, इह कार्यभेदोऽस्ति; वत्वस्यादेशत्वान्नुटस्थ्वागमत्वादिति नास्ति वाध्यबाधकभावः, नुटः परादिकरणं णत्वं यथा स्यादित्येवमर्थम्; अन्यथा हि **पदान्तस्य** (8.4.37) इति प्रतिषेधः स्यात्॥ Prakriyasarvasvam ----------------- अन्नन्तात्परस्य मतोर्नुट् स्यात् । वर्मवन्त इति प्राप्ते वर्मंण्वन्ता न योधाः । नुटोऽसिद्धत्वाद् अवर्णात्परस्य वत्वम् । नान्तात्परयोस्तरप्तमपोनुंट् स्यात् न लोपे प्राप्ते सुपथिनतरः । समीधे दस्युहन्तमः । “भूरिदाव्नस्तुङ् वा वक्तव्यः” (वा. ८-२-१७) । भूरिदावत्तरो जनः । (वा. ८-२-१७) । रथीतमं रथीनाम् । (वा. ८-२-३५) । सुवेक्षसं वाजमाभरा नः । गृभ्णाति ते ।