82015: छन्दसीरः =============== **Padacheda:** छन्दसि | S | 7 | 1 | इरः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) व् is substituted for the म् of मत् after a अङ्ग (stem) ending in इ (or ई) or र्। Vasu English Translation ------------------------ In the छन्दस् (Vedas) व् is substituted for the म् of मत् after a अङ्ग (stem) ending in इ (or ई) or र्। To take some examples of a stem ending in इ, as त्रिवती याज्यानुवाक्या भवति; हरिवो मे दनं त्वा; अधिपति वती जुहोति; चतुरग्निवानिव; आरेवानेतु मा विशत् (आरेवान् from रयि with vocalisation). सरस्वतीवान्, भारतीवान्, दधीवांश्चरुः ॥ As all rules have optional force in the *Chhandas*, we have no change here सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान् सूर्यं ते द्यावापृथिवीमन्तं ॥ Of stems ending in र we have गीर्वान्, धूर्वान्, आशीर्वान् ॥ Bhashya ------- छन्दसीरः छन्दसीर(1) इत्युच्यते(2) तत्र ते विश्वकर्माणन्ते सप्तर्षिमन्तमित्यत्रापि प्राप्नोति॥ नैष दोषो-नैवं विज्ञायते-छन्दसि इरइति॥ कथं तर्हि?॥ छन्दसि-ःइर्र इति॥ एवमपि-त्विषीमान् पतीमानित्यत्रापि प्राप्नोति॥ नैष दोषो-विहितविशेषणमीकारग्रहणम्-ःईकारान्ताद्यो विहितइति॥ एवमपि-सूर्यं ते देवा पृथिवीमन्तम् इत्यत्राऽपि प्राप्नोति। इह च(3) न प्राप्नोति-त्रिवतीर्याज्यानुवाक्या भवन्तीति॥ एवं तर्हि परिगणनं कर्त्तव्यम्॥ त्रिहर्यधिपत्यग्निरे(1)॥ त्रि-त्रिवतीर्याज्यानुवाक्या भवन्ति। त्रि॥ हरि-हरिवो मेदिनं त्वा। हरि॥ अधिपति-अधिपतिवतीर्जुहोति। अधिपति॥ अग्नि-चतुरग्निवानिव। अग्नि॥ रे-आरेवानेतु नो विश इति॥ यदि तर्हि परिगणनं क्रियते सरस्वतीवान् भारतीवान्(2) अपूपवान् दधिवांश्चरुः इत्यत्र न प्राप्नोति॥ एवं तर्हिझ्र्॥छन्दसीरो(3) बहुलम्॥ट॥ छन्दसीरो बहुलमिति वक्तव्यम्। Kashika ------- छन्दसि विषय इवर्णान्ताद् रेफान्तात् चोत्तरस्य मतोर्वत्वं भवति। इवर्णान्तात् तावत् — त्रिवती याज्यानुवाक्या भवति। हरिवो मे॒दिनं॑ त्वा (तै०सं० ४.७.१४.४)। अधिपतिवतीर्जुहोति। च॒रुर॑ग्नि॒वाँ इ॑व (ऋ० ७.१०४.२)। आरेवानेतु मा विशत्। **रयेर्मतौ०** (६.१.३७ वा०) इति संप्रसारणम्। स॑र॒स्वती॒वान् भा॑र॒तीवान् (मै०सं० ३.१०.६)। दधि॑वांश्च॒रुः (शौ०सं० १८.४.१७)। **छन्दसि सर्वे विधयो विकल्प्यन्ते** इतीह न भवति — सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति। रेफान्तात् — गीर्वान्। धूर्वान्। आशीर्वान्॥ Siddhanta Kaumudi ----------------- इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ॥ Nyaas ----- `हरिवो मेदिनम्` इति। **न मु ने** (8.2.3) इत्यत्रैतद्व्युत्पादितम्। `आरेवानेतु मा विशत्` इति। रयिशब्दस्य `रयेर्मतौ बहुलम्` (दा।665) इति सम्प्रसारणम्, परपूर्वत्वम्, **आद्गुणः** (6.1.87) । अथेह कस्मान्न भवति -सप्तर्षिमन्तं द्यावापृथिवीमन्तम्? इत्याह -द्यौश्च पृथिवी चेति द्वन्द्वे कृते **दिवसश्च पृथिव्याम्** (6.3.30) इति दिवो द्यावादेशः। `गोर्वान्, धूर्वान्, आशीर्वान्` इति। `गृ? शब्दे` (धातुपाठः-1498), `धुर्वी हिंसार्थः (धातुपाठः-573), `आङ शासु श्च्छायाम्` (धातुपाठः-1022), एषां सम्पदादित्वात्? क्विप्। गृणातेः `ऋत इद्धातोः` (7.1.100) इतीत्त्वम्, धुर्वेः **राल्लोपः** (6.4.21) इति वकारलोपः, **शास इदङ्हलोः** (6.4.34) , इत्यत्र शास इत्त्वे `आशासः क्वावुपसंख्यानम्` (वा।781) इत्याङ्पूर्वस्य शास इत्त्वम्, मतुपि कृते `ससजुवो रुः` (8.2.66) इति रुत्वम्॥ Prakriyasarvasvam ----------------- इवर्णान्तादेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । चक्षुरग्निवां इव । आहुं सरस्वतीवतोः । रान्तात् - आशीर्वन्तः सुता इमे ।