82010: झयः ========== **Padacheda:** झयः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The व् is substituted for the म् of मत् after a अङ्ग (stem) ending in a mute consonant. Vasu English Translation ------------------------ The व् is substituted for the म् of मत् after a अङ्ग (stem) ending in a mute consonant. As अग्निचित्वान् ग्रामः, उदश्वित्वान् घोषः, विद्युत्वान् बलाहकः, इन्द्रो मरुत्वान्, दृषद्वान् देशः ॥ Kashika ------- झयन्तादुत्तरस्य मतोर्व इत्ययमादेशो भवति। अग्निचित्वान् ग्रामः। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान् (आ०श्रौ० २.११.१०)। दृषद्वान् देशः॥ Siddhanta Kaumudi ----------------- झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥ Laghu Siddhanta Kaumudi ----------------------- झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥ Balamanorama ------------ **झयः** - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः । Tattvabodhini ------------- **झयः** - झयः । इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम् । तदाह — — झयन्तादिति । विद्युत्वानिति । एतेनवह्निमद्वा॑निति नैयायिकप्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः । मत्वन्तान्मतुपो निषेधाच्च । ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृतेझयः॑इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात्प्रत्यये भाषायां नित्य॑मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् । घत्वढत्वयोरसिद्धत्वेनझयः॑इति वत्वाऽप्रवृत्तेः । Padamanjari ----------- अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥ Nyaas ----- `अग्निचित्वान्` इति। **तसौ मत्वर्थे** (1.4.19) इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं **झलां जशोऽन्ते** (8.2.39) इति जश्त्वं न भवति॥ Prakriyasarvasvam ----------------- झयः परस्य मतो वः स्यात् । कुमुद्वान् देशः । नड्वान् । वेतस्वान् । अत्रादुपधत्वाद् वः । (वा० ४२-८-७) महिष्मान् नाम देशः ॥ Sutra Prayogas -------------- * **कुमुद्वतीं** (भट्टिकाव्यम्): `झयः` इति वत्वम्। * **मरुत्वान्वि-कृतः** (भट्टिकाव्यम्): `झयः` इति मरुच्छब्दान्मतुपो वत्वम्। * **अक्षत-वद्योधा** (भट्टिकाव्यम्): `झयः` इति वत्वं न भवति।