81016: पदस्य ============ **Padacheda:** पदस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Up to इडाया वा (8.3.54), inclusive, should be always supplied in every subsequent sūtra the phrase 'of a word' or 'to the whole of a word'. Vasu English Translation ------------------------ Up to इडाया वा (8.3.54), inclusive, should be always supplied in every subsequent sūtra the phrase 'of a word' or 'to the whole of a word'. This is an *adhikara* *sutra*, and extends up to (8.3.55). Whatever we shall treat of here-after, should be understood to apply to a full '*pada*' or a completed word. Thus (8.2.23), (संयोगान्तस्य लोपः) teaches "there is elision of the final of what ends in a conjunct consonant". The word पदस्य must be supplied here to complete the sense : viz, of a word which ends in a conjunct consonant, the final is elided. Thus पचन्, यजन्, from पचन्त् and यजन्त् ॥ Why do we say 'of a *Pada*'? Observe पचन्तौ, यजन्तौ where the त् though *sanyoganta* is not elided, because the stem is no longer called *pada*. The force of the Genitive in पदस्य must be construed according to the context, sometimes as *sthana*-*shashthi* i.e. "in the room of the whole *pada*"; and sometimes as *avayava*-*shashthi* i.e. "of a *pada*-of the portion of a *pada* ". Bhashya ------- पदस्य पदात् ॥ आ कुतः पदाधिकारः?॥ पदाधिकारः प्रागपदान्ताधिकारात्॥ अपदान्तस्य मूर्द्धन्य इत्यतः(1) प्राक् पदाधिकारः॥ अथ पदादित्यधिकार आ कुतः?॥ पदात्प्राक्(2) सुपि कुत्सनात्॥ पदादित्यधिकारः प्राक्सुपि कुत्सनात्। कुत्सने च सुप्यगोत्रादा(3) विति वक्ष्यति प्रागेतस्मात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्॥ यणेकादेशस्वरस्तूर्ध्वं पदाधिकारात्कर्तव्यः॥ इह वचने ह्यपदान्तस्याऽप्राप्तिः॥ इह क्रियमाणेऽपदान्तस्याऽप्राप्तिः स्यात्। उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्येति। इहैव स्यात्-कुमार्यौ किशोर्यौ(1)। इह न स्यात् कुमार्यः किशोर्यः॥ एकादेश उदात्तेनोदात्तः-ःइहैव स्यात्-वृक्षौ प्लक्षौ। इह न स्यात्-वृक्षाः प्लुक्षाः॥ न वा पदाधिकारस्य विशेषणत्वात्॥ न वोर्ध्वं पदाधिकारात् कर्तव्यो यणेकादेशस्वरः॥ किं कारणम्?॥ पदाधिकारस्य विशेषणत्वात्। पदस्येति नैषा स्थानषष्ठी॥ का तर्हि?॥ विशेषणषष्ठी॥ किं वक्तव्यमेतत्?॥ न हि॥ कथमनुच्यमानं गंस्यते?॥ प्रत्याख्यायते स्थानषष्ठी। ॥ अन्तग्रहणाद्वा नलोपे॥ अथवा यदयं नलोपः प्रातिपदिकान्तस्येत्यन्तग्रहणं करोति तज्ज्ञापयत्याचार्योविशेषणषष्ठ्येषा न स्थानषष्ठीति॥ (पदस्य पदात्) Kashika ------- पदस्येत्ययमधिकारः प्रागपदान्ताधिकारात् (८.३.५५)। यदित ऊर्ध्वमनुक्रमिष्यामः पदस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — **संयोगान्तस्य लोपः** (८.२.२३) — पचन्। यजन्। पदस्येति किम् ? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्याधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्या — क्वचित् स्थानषष्ठी क्वचिदवयवषष्ठी॥ Tattvabodhini ------------- **पदात्** - पदात् ।कुत्सने च सुप्यगोत्रादौ॑इत्यतः प्रागयमधिकारः । यदि तुकपत्सने च सुपी॑त्यत्रापि पदादित्यनुवर्तते, तदादेवदत्तः पचति पूति॑त्यत्रैव निघातः स्यान्न तुपचति पूती॑त्यत्र । Padamanjari ----------- प्रागपदान्ताधिकारादिति । ठपदान्तस्य मूर्द्धन्यःऽ इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ'मो नो धातोः' इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङ्न्तस्य च पदस्यैव कार्यविधानातेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च -'समानवाक्ये निघातयुष्मपदस्मादादेशाः' इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव - वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् ।'षष्ठी स्थानेयोगा' इति वचनात्'पदस्य' इति स्थानषष्ठी, ततश्च ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इत्यस्यायमर्थो भवति - उदातस्वरितयोर्योयण् ततः परो योऽनुदातस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात् - कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् ठेकादेश उदातेनोदातःऽ इत्यत्रापि अयमर्थो भवति - उदातानुदातयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात् - वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? - इत्याशङ्क्याह - वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः - अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः'पदस्य' इत्यनुवृतं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्यर्थम् । तेन पदावयवयोरनुदातैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलएपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ।ल अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति - क्वचिदिति । यद्येषा स्थानषष्ठ।लेव स्यात्'नलोपः प्रातिपदिकान्तस्य' इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ।लं तु ठलोन्त्यस्यऽ इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ।ल्पि विज्ञायते ॥ Nyaas ----- `प्रागपदान्ताधिकारात्` इति। `अपदान्तस्य भूर्धन्यः` (8.3.55) इत्यतः प्राक्। अनन्तरेषु योगेष्वामन्त्रितादेः सुबन्तस्य तिङन्तस्य च यत्? कार्य विधीयते तत्रान्तरेणापि पदाधिकारं पदस्यैव कार्यं लभ्यते, अतस्तानुल्लङ्ध्य यत्र पदाधिकारस्योपयोगस्तमेवोपन्यस्यत। `वक्ष्यति -संयोगान्तस्य लोपः` इति। **षष्ठी स्थानेयोगा** (1.1.49) इति नियमात्? `पदस्य` इत्येषा स्थानषष्ठी। स्थानषष्ठआञ्चास्यान्? `उदात्तस्वरतयोर्यणः स्वरितोऽनुदात्तस्य` (8.2.4) इत्यस्यायमर्थो जायते -उदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तस्य पदस्य स्वरितो भवतीतिः तथा चात्रैव स्यात् -कुमार्याविति, कुमार्य इत्यत्र न स्यात्। न ह्रेतदुदात्तस्वरितयोर्यणः परो योऽनुदात्तस्तदन्तं पदम्, किं तर्हि? सकारान्तम्। **एकादेश उदात्तेनोदात्तः** (8.2.5) इत्यत्रापि स्थानषष्ठआमस्यामयमर्थो जायते -उदात्तानुदात्तयोर्य एकदेशस्तदन्तस्य पदस्योदात्तो भवतीति। तथा चात्रैव स्यात् -वृक्षाविति, वृक्षा इत्यतर न स्यात्। न ह्यत्रोदात्तानुदात्तयोर्य एकादेशस्तदन्तं पदम्, किं तर्हि? सान्तमिति यश्चोदयेत्, तं प्रत्याह -`वक्ष्यमाणवाक्यापेक्षया` इत्यादि। हेतावियं तृतीया। वक्ष्यमाणानां वाक्यानां याऽपेक्षा तया हेतुभूतया पदस्याधिकृतस्य षष्ठर्थव्यवस्था द्रष्टव्या। व्यवस्था=नियम इत्यर्थः। वक्ष्यमाणानि हि वाक्यानि कानिचित्? **संयोगान्तस्य लोपः** (8.2.23) इत्येवमादीनि पदस्येति स्थानवष्ठीमपेक्षन्ते। कानिचित्? `उदात्तस्वरितयोर्यणः` (8.2.4) इत्येवमादीन्यवयवषष्ठीमिति। अत एव परापेक्षया षष्ठर्थे नियमो भवति। अधिकारा हि परार्था भवन्ति। एवञ्चैषां परार्थता भवति यदि ते परापेक्षानुरोधेनार्थमात्मसात्? कुर्वन्ति। `क्यचित्` इत्यादिना तामेव षष्ठर्थव्यवस्थां दर्शयति। किं पुनः कारणन्? `षष्ठो `स्थाने योगा` (1.1.49) इत्येष नियमोऽत्र न प्रवर्तते? एवं मन्यते -सम्बन्धन्ध्यन्तरापेक्षया नियमोऽयम्। योगो हि सम्बन्धः, स चानेकसम्बन्ध्याधारः। न चेहाधिकारसूत्रे सम्बन्ध्यन्तरं विद्यते, अतो नास्त्येव तस्येहोपस्थानमिति॥