81014: यथास्वे यथायथम् ====================== **Padacheda:** यथास्वे | S | 7 | 1 | यथायथम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word यथायथम् is irregularly formed in the sense of 'respectively, fitly, properly'. Vasu English Translation ------------------------ The word यथायथम् is irregularly formed in the sense of 'respectively, fitly, properly'. What is one's own nature, and whatever is natural to one, that is called यथास्व ॥ In this sense is formed यथायथ꣡म् there being doubling and neuter gender. It is an Indeclinable. As ज्ञाताः सर्वे पदार्था यथायथम् = यथास्वभावं "all objects have been known according to their respective nature". सर्वेषां तु यथायथं यथास्मीयं ॥ Kashika ------- यो य आत्मा, यद् यदात्मीयम्, तत् तद् यथास्वम् तस्मिन् यथायथमिति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्था य॒था॒य॒थम्। यथा — स्वभावमित्यर्थः। सर्वेषां तु य॒था॒य॒थम्। यथात्मीयमित्यर्थः॥ Siddhanta Kaumudi ----------------- यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥ Balamanorama ------------ **यथास्वे यथायथम्** - यथास्वे यथायथम् । वीप्सायामिति । कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः । कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची । इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह — द्वे इति । 'स्त' इति शेषः । निपातनादिति भावः । न चनित्यवीप्सयो॑रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात् । अन्यथा 'सर्वो घटः' इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति ।यथा-यथा इति समुदायस्ये॑ति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृत्तद्वित्वस्य नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्रज्ञाते॑ति तृन्नन्तम् ।तद्योगेन लोके॑ति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तुयथायथस्य ज्ञाते॑त्येव । Tattvabodhini ------------- **यथास्वे यथायथम्** - यीऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति ।न लोके॑त्यनेन कृद्योगषष्ठीनिषेघः, ज्ञातेत्यस्य तृन्नन्तत्वात् ।यो य आत्मा॑इत्यर्ते विद्यमानयथायथशब्दस्यार्थमाह -यतास्वभावमिति ।आत्मा यत्नो धृतिर्बुद्धिः स्वबावो ब्राहृ वष्र्म चे॑त्यमरः । Padamanjari ----------- 'यथास्वे' इति'यथा' सादृश्येऽ इति वीप्सायमव्ययीभावः । स्वशब्द आत्मवचनः, आत्मीयवचनो वेति दर्शयति । यो य आत्मेति । ज्ञातिधनवचनस्य तु ग्रहणं न भवति; द्विर्वचनस्य तत्रासमर्थत्वात् ॥ Nyaas ----- `यथास्वम्` इति। `यथाऽसादृश्ये (2.1.7) इति वीप्सायामव्ययीभावः। स्वशब्दो हीहात्मवचनः, आत्मीयवचनो वा -इति दर्शयितुमाह -`यो य आत्मा` इत्यादि। `यथायथम्` इति। `ह्रस्वो नपुंसके` (1.2.47) इति ह्यसवः॥ Prakriyasarvasvam ----------------- यथायथं भागान् गृह्णीध्वम् । यथास्वमित्यर्थः ॥ Sutra Prayogas -------------- * **यथायथं** (किरातार्जुनीयम्): `यथास्वे यथायथम्` इति निपातनाद्द्विर्भावो नपुंसकत्वं च।