81011: कर्मधारयवत् उत्तरेषु =========================== **Padacheda:** कर्मधारयवत् | S | 0 | 0 | उत्तरेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In the following rules, the double-word is treated like a कर्मधारय समास । Vasu English Translation ------------------------ In the following rules, the double-word is treated like a कर्मधारय समास । The reason for making it a *Karmadharaya* is to elide the case-affix (2.4.71), to make the first member a masculine term even when the word refers to a feminine (6.3.42), and to regulate the accent by (6.1.223). Thus पटुपटुः, मृदुमृदुः where the first member has lost the case-affix. पटुपट्वी, मृदुमृद्वी where the first member is treated as a masculine, even when there is a क in the penultimate as कालककालिका (See (6.3.37) and (6.3.42); पटुपटुः꣡, पटुपट्वी꣡, the accent falls on the final, for the rule (6.1.223) was debarred by (8.1.3), but the present rule re-instates (6.1.223). The word उत्तरेषु is for the sake of distinctness, the *sutra* being an *adhikara* one, would have applied to the subsequent aphorisms, without even the word *uttareshu*. Bhashya ------- कर्मधारयवदुत्तरेषु कर्मधारयवत्त्वे कानि प्रयोजनानि?॥ कर्मधारयवत्त्वे प्रयोजनं(1) सुब्लोपपुंवद्भावान्तोदात्तत्वानि॥ (कर्मधारयत्त्वे सुब्लोपपुंवद्भावाऽन्तोदात्तत्वानि) ? ॥ प्रयोजनं(1) सुब्लोपः-पटुपटुः। (सुब्लोपः)॥ पुंवद्भावः - पटुपट्वी (पुंवद्भावः)॥ अन्तोदात्तत्वम्-पटुपटुः (कर्मधारयवदुत्तरेषु)॥ Kashika ------- इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवतीत्येतद् वेदितव्यम्। कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि। सुब्लोपः — पटुपटुः। मृदुमृदुः। पण्डितपण्डितः। पुंवद्भावः — पटुपट्वी। मृदुमृद्वी। कालककालिका। कोपधाया अपि हि कर्मधारयवद्भावात् **पुंवत्कर्मधारय०** (६.३.४२) इति पुंवद्भावो भवति। अन्तोदात्तत्वम् — प॒टु॒प॒टुः। प॒टु॒प॒ट्वी। समासान्तोदात्तत्वमनेनैव विधीयत इति परत्वादामे्रडितानुदात्तत्वं बाध्यते। अधिकारेणैव सिद्धे यदुत्तरेष्विति वचनं तद् विस्पष्टार्थम्॥ Siddhanta Kaumudi ----------------- इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥ (वार्तिकम्) ॥ Balamanorama ------------ **कर्मधारयवत् उत्तरेषु** - कर्मधारयवदुत्तरेषु ।कार्यं स्या॑दिति शेषः । कर्मधारयवत्त्वस्य फलमाह — प्रयोजनमिति । सुब्लोपादीनां प्रत्येकान्वयाभिप्रायमेकवचनम् । अन्तोदात्तत्वानीति ।अनुदात्तं चे॑त्यधिकृतमपि भाष्यप्रामाण्यान्नात्र सम्बध्यत इति भावः । Tattvabodhini ------------- **कर्मधारयवत् उत्तरेषु** - कर्मधारयवदुत्तरेषु । अधिकरेणैव सिद्धेउत्तरेषुटैति वचनं विस्पष्टार्थमिति वृत्तिः । Padamanjari ----------- कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदातत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदातत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्तनात् ॥ Nyaas ----- कर्मधारयवत्? कार्यं भवतीत्यनेन कार्यातदेशोऽयमित्याचष्टे। कार्यातिदेशस्य फलमुत्तरत्र दर्शयिष्यते। `कर्मधारयवत्त्वे प्रयोजनम्` इत्यादि। तत्र सुग्लुग्बहुव्रीहिवद्भावे, अस्मिन्नतिदेशे च साधारणं प्रयोजनम्। पुंवद्भा वस्तु क्वचित्? साधारणम्, क्वचिदसाधारणम्; यत्र हि पुंवद्भावस्य प्रविषेधो नास्ति -पटुपट्वीत्यादौ, तत्र साधारणम्, यत्र तु **न कोपधायाः** (6.3.37) इत्यादिना पुंवद्भावप्रतिषेधोऽस्ति -कालककालिकेत्यादौ, तत्रा साधारणम्। तथा हि यस्य हि पुंवद्भावः प्रतिविद्धस्तस्यापि **पुंवत् कर्मधारयजातीयदेशीयेषु** (6.3.42) इत्यादिना कर्मधारये पुंवद्भावो विधीयते। अन्तोदात्तत्वं त्वसाधारणमेव। यस्मात्? कर्मधारय एव **समासस्य** (6.1.223) इत्यन्तोदात्तत्वं विधीयते, न बहुव्रीहौ; तत्र **बहुव्रीहौ प्रकृत्या पूर्वपदम्** (6.2.1) इति पूर्वपदप्रकृतस्वरस्य समासान्तोदात्तस्यापवादस्य विधीनात्। तत्र यदसाधारणं प्रयोजनं तदिममतिदेशं प्रयोजयति, नेतरत्। तद्धि बहुव्रीहिवदित्यतिदेशस्यानुवृत्तावपि सिद्ध्यत्येव। सति त्वन्यार्थोऽस्यारम्भे बहुव्रीहिवदित्यतिदेशस्यानुवृत्तिरपार्थिका; अनेनैव साधारणस्यापि सिद्धत्वात्। अतः सुब्लुगादिकमपि साधारणं कर्मधारयवत्त्वे प्रयोजनं न भवति। `पटुपट्वी` इति। `वोतो गुणवचनात्` (4.1.44) इति ङीष्। स च पूर्वपदे पुंवद्भादेन निवर्तते। `कालककालिका` इति। अज्ञाताद्यर्थे `प्रागिवात्? कः` (5.3.70) , टाप्, `केऽणः` (7.4.13) इति ह्रस्वः, पूर्ववदित्त्वम्। पुंवद्भावेन पूर्वपदे टाबित्त्वयोर्निवृत्तिः। कथं पुनरत्र पुंवद्भावः, यावता **न कोपधायाः** (6.3.37) इत्यस्य प्रतिषेधः कृतः? इत्याह -`कोपधायाः` [`न कोपधायाः` इत्यादि -प्रा। मु। पाठ] इत्यादि। कर्मधारये हि **पुंवत् कर्मधारयजातीयदेशीयेषु** (6.3.42) इत्यादिनां योगेन प्रतिषेधविषयेण पुंवद्भावो विहितः तेन कोपधाया अपि पुंवद्भावो भवत्येव। ननु चाभ्रेडितानुदात्तत्वमाष्टिकिमम्, समासान्तोदात्तत्वं च षाष्ठिकम्, अतः परत्वादाभ्रेडितानुदात्तत्वेनैव भवितव्यम्; न चैवं सति कर्मधारयदित्यतिदेशस्य वैयथ्र्यं स्यात्, तस्य प्रयोजनान्तरे चरितार्थत्वात्? इत्यत आह -`समासान्तोदात्तत्वमनेन` इत्यादि। शल्त्रातिदेशे हि शस्त्रेध्वतिदिष्टेषु तैरेव स्वदेशस्थैः कार्याणि क्रियन्त इत्याभ्रेडितानुदात्तस्य समासान्तोदात्तत्वात्? परत्वं स्यात्। न चायं शास्त्रातिदेशः, किं तर्हि? कार्यातदेशः। कार्यातिदेशे सत्यतिदेशशास्त्रेणैव विधियते। तस्मादन्तोदत्तत्वेमेव परम्। अतस्तस्मात्? परत्वादाभ्रेडितानुदात्तत्वं बाधते। ननु चान्तरेणाप्युत्तरग्रहणं यथा **प्रत्ययः** (3.1.1) इत्येवमादीनामधिकाराणामुत्तरत्रावस्थानं भवति, तथाऽस्यापि भविष्यति; अधिकाराणामुत्तरत्रानुधृत्तिदर्शनात्, तत्किकमर्थम्? `उत्तरेषु` इति वचनम्? इत्याह -`अधिकारेणैव` इत्यादि। अधिकाराणां क्वचिल्लक्षणत्वस्य व्यवहारः, यथा `शेषे` (4.2.91) इत्यधिकारस्य लक्षणत्वमस्ति, तच्चाविस्पष्टम्; अन्येष्वधिकारेषु **प्रत्ययः** (3.1.1) इत्येवमादिष्वदृष्टत्वात्। तस्मादस्य विस्पष्टत्वं यथा स्यादित्येवमर्थमुत्तरेष्विति वचनम्। एतद्धि लक्षणत्वमस्य मा भूदित्येवमर्थं क्रियते। यदि तु लक्षणस्याधिकारेष्वसम्भवः स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यार्त्त्याभावात्। अथ वा -सिंहावलोकितव्यायस्येत्यव्याहारः। प्रायेण ह्रणिकारणमुत्तरत्रानुवृत्तिर्दुष्टेति सिहावलोकितन्यायस्याविस्पष्टता; केषुचित्? प्रत्ययादिष्वदृष्टत्वात्। तस्मात्? तस्य विस्पष्टीकरणार्थमुत्तरेष्विति वचनम्। यदि सिंहावलोकितन्यायेन पूर्वत्रानुवृत्तेरधिकारणां न सम्भव एव स्यात्, उत्तरेष्विति वचनमनर्थकं स्यात्; व्यावर्त्त्याभावात्॥ Prakriyasarvasvam ----------------- उत्तरेषु द्विवचनेषु कर्मधारयवत् कार्यं स्यात् । सुब्लुक्पुंवद्भावावस्यापि कार्यम् । स्वरादौ तु भेदः ॥ Sutra Prayogas -------------- * **शून्यशून्यां** (शिशुपालवधम्): `कर्मधारयवदुत्तरेषु` इति कर्मधारयवद्भावादवयवसुपो लुक्।