74050: तासस्त्योर्लोपः ====================== **Padacheda:** तासस्त्योः | S | 6 | 2 | लोपः | S | 1 | 1 | Sutrartha --------- **तास्-प्रत्ययस्य तथा अस्-धातोः सकारे परे लोपः भवति ।** लुट्-लकारस्य विकरणप्रत्ययः 'तास्' - इत्यस्य, तथा अस्-धातोः अन्तिम-सकारस्य सकारे परे लोपः भवति । यथा - 1. पठ्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) → पठ् + तास् + लुट् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + लुट् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + सिप् [**तिप्तस्..** (3.4.78) इति सिप्-प्रत्ययः] → पठ् इ + ता + सि [सकारे परे तास्-प्रत्ययस्य **तासस्त्योर्लोपः** (7.4.50) इति लोपः] → पठितासि 2. अस्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - अस् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → अस् + सिप् [**तिप्तस्..** (3.4.78) इति सिप्] → अस् + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्] → अस् + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → असि [सकारे परे अस्-इत्यस्य सकारस्य **तासस्त्योर्लोपः** (7.4.50) इति लोपः] ज्ञातव्यम् - अत्र **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिमवर्णस्य (इत्युक्ते 'तास्' तथा 'अस्' एतयोः सकारस्य) लोपः भवति । Sutrartha (English) ------------------- The सकार of तास् प्रत्यय and the verb root अस् is removed when followed by सकार. Vasu English Summary -------------------- The final स् of तास् (the character of the second future) and अस् 'to be' is elided before an affix beginning with स् । Vasu English Translation ------------------------ The final स् of तास् (the character of the second future) and अस् 'to be' is elided before an affix beginning with स् । As कर्त्तासि, कर्त्तासे, त्वमसि, ष्यति से ॥ See (6.4.111). In से the अ and स् both of अस् have been elided, the अ by (6.4.111), and स् by the present *sutra*,so that the mere suffix से remains, which however here is a finite verb: hence the स, is not changed to ष ॥ See (8.3.111). Kashika ------- तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वमसि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन **सात् पदाद्योः** (8.3.111) इति षत्वं न भवति। Siddhanta Kaumudi ----------------- तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥ Laghu Siddhanta Kaumudi ----------------------- तासेरस्तेश्च सस्य लोपः स्यात्सादौ प्रत्यये परे॥ Balamanorama ------------ **तासस्त्योर्लोपः** - तदाह — तासस्त्योः । 'सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् । Tattvabodhini ------------- **तासस्त्योर्लोपः** - ॒सः स्यार्धदातुके॑ इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्यत्राप्यूह्रम् । Padamanjari ----------- व्यतिसे इति ।'कर्तरि कर्मव्यतिहारे' इत्यात्मनेपदम्, शपो लुक्,'श्नसोरल्लोपः' इत्यकारलोपः । प्रत्ययमात्रमेतत्पदमिति । तेन'सात्पदाद्योः' इति षत्वप्रतिषेध इति भावः ॥ Nyaas ----- **अनद्यतने लुट्** (3.3.15) तासिः, सिप्। `कर्तासे` इति। `थासः से` (3.4.80) । `त्वमसि` इति। `स भुवि` (धातुपाठः-1065), पूर्ववच्छपो लुक्। `व्यतिसे` इति। `कर्तरि कर्मव्यतीहारे` (1.3.14) इत्यात्मनेपदं भवति। `थासः से` (3.4.80) , **श्नसोरल्लोपः** (6.4.111) इत्यकारलोपः। अथ **आदेशप्रत्यययोः** (8.3.59) इति षत्वं कस्मान्न भवति? इत्यत आह - `अस्तेरकारसकारयोः` इत्यादि। अकारसकारयोर्हि लुप्तयोः प्रत्ययमात्रमवशिष्यते, तदेव पदम, अतः **सात्पदाद्योः** (8.3.111) इति प्रतिषेधात्? षत्वं न भविष्यतीति भावः॥ Prakriyasarvasvam ----------------- सादौ प्रत्यये परे तासेरस्तेश्च सलोपः स्यात् । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः । तङ्यपि—प्रथमपुरुषस्य डारौरसः प्राग्वत् । भविता भवितारौ भवितारः । 'थासः से' । 'तासस्त्यो'रिति सलोपः । भवितासे । भवितासाथे², धि च । (८-२-२५) सलोपः । भविताध्वे । भवितास् ए । Sutra Prayogas -------------- * **शून्यश्चाऽसीति** (भट्टिकाव्यम्): `तासस्त्यो लोपः` इति सकारलोपः ।