72058: गमेरिट् परस्मैपदेषु ========================== **Padacheda:** गमेः | S | 5 | 1 | इट् | S | 1 | 1 | परस्मैपदेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- An आर्धधातुक affix beginning with स् gets the इट् augment after गम् 'to go' in the परस्मैपद । Vasu English Translation ------------------------ An आर्धधातुक affix beginning with स् gets the इट् augment after गम् 'to go' in the परस्मैपद । As गमिष्यति, अगमिष्यत्, जिगमिषति ॥ Why of गम् ? Observe चेष्यति ॥ The repetition of इट् shows that the rule is invariable. Why 'in the *Parasmaipada*'? Observe संगंसीष्ट, संगसीष्ट, संगंस्यते, संजिगंसते, संजिगंसिष्यते, अधिजिगांसते, अधिजिगांसिष्यते ॥ The lengthening takes place by (6.4.16) when गम् is the substitute of the root इङ् (2.4.48) Why before स् ? Observe गन्तास्मि, गन्तास्वः, गन्तास्मः ॥ *Ishti*: This इट् augment is not desired of the root गम् standing in the same *pada* with an *atmanepada* affix. But it occurs every where else. As जिगमिषिता इव आचरति = जिगामिंषित्रीयते, here there is इट् augment, because *atmanepada* affix is not in the same *pada* with गम्, but is *bahiranga*. Compare (7.2.36) *vartika*. It occurs before *krit* affixes, and even where is *luk*-elsion of *Parasmaipada* affix, and where therefore the affix generally would have left no trace behind by (1.1.63). As संजिगमिषिता and अधिजिगमिषिता व्याकरणस्य ॥ So also जिगमिष त्वम्, here there is *luk*-elision of the Imperative affix हि ॥ The opinion of the author of *Padaseshakara* is that the employment of the term *Parasmaipada* in the *sutra* is illustrative. He explains it by saying:- परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्य इट् भवति ॥ According to him we have the forms संजिगंसिता and अधिजिगंसिता व्याकरणस्य ॥ Bhashya ------- गमेरिट् परस्मैपदेषु ॥ गमेरिट्परस्मैपदेषु चेत्कृत्युपसड्ख्यानम्(3) ॥ गमेरिट् परस्मैपदेषु(4) चेत्कृत्युपसङ्ख्यानं कर्तव्यम् । जिगमिषिता जिगमिषितुम् जिगमिषितव्यम् ॥ तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ॥ न कर्तव्यम् । अविशेषेण गमेरिडागममुक्त्वा आत्मनेपदपरे नेति वक्ष्यामि ॥ आत्मनेपदपरप्रतिषेधे उक्तम् ॥ किमुक्तम् ? ॥ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेध इति । इहापि - ॥ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषुप्रतिषेधोवक्तव्यः ॥ तत्परपरे तावत् - संजिगंसिष्यते । सीयुटि - संगंसीष्ट । एकादेशे - संगंस्यन्ते । एकादेशे कृते व्यपवर्गाऽभावान्न(1) प्राप्नोति ॥ सिद्धं तु गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ गमेरात्मनेपदेन समानपरस्थस्य (ःइट्प्रतिषेधात् । गमेरात्मनेपदेन समानपदस्थस्य(2)) इण्न भवतीति वक्तव्यम् ॥ (गमेरिट्परस्मैपदेषु) ॥ Kashika ------- गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति। गमेरिति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्। परस्मैपदेष्विति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य **अज्झनगमां सनि** (६.४.१६) इति दीर्घत्वम्। स इत्येव — गन्तास्मि, गन्तास्वः, गन्तास्मः आत्मनेपदेन समानपदस्थस्य गमेरयमिडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च — संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येड् भवति। तन्मतेन संजिगंसिता, अधिजिगांसिता व्याकरणस्य इत्येव भवितव्यम्॥ Siddhanta Kaumudi ----------------- गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥ Laghu Siddhanta Kaumudi ----------------------- गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥ Balamanorama ------------ **गमेरिट् परस्मैपदेषु** - गमेरिट् ।गमे॑रिति पञ्चमी ।सेऽसिची॑त्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः । तदाह — गमेः परस्येत्यादिना ।परस्मैपदेष्वि॑त्यस्य आत्मनेपदाऽभावे इत्यर्थः । एवं चसंजिगमिषिते॑ति तृचि इट् सिध्यति । गमिष्यतीति । गच्छतु अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह — लृदित्त्वादङिति ।गमहने॑ति उपधालोपो नेत्याह — अनङीति पर्युदासादिति । अगमदिति । लृङि — अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः । रपरत्वम् । ससर्पेति । ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः । ससर्पिथ ससृपथुः । ससृप.ससर्प ससृपिव ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते — अनुदात्तस्य च ।सृजिदृशो॑रित्यतो झल्यमकितीति, 'आदेच' इत्यत उपदेशे इति चानुवर्तते । तदाह — उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः । उपदेशे किम् । क्तप्रत्यये — सृप्तः । रुआप्तेति । सृप्धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः । सर्प्तेति । अमभावेलघूपधगुणे रपरत्वमिति भावः । एवं रुआप्स्यति सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति । लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः । अरुआप्स्यत् । असर्प्स्यत् । यम उपरमे इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति ।इषुगमियमा॑मिति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । तदाह- येमिथ । ययन्थेति । इडभावे रूपम् । येमथुः येम । ययाम । ययम । येमिव । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति ।यमरमे॑ति इट्सकौ ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संतापे इति । अनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ ततप्थ तेपथुः तेप । तताप ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे — षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात्तपधातौ परत इति यावत् । 'अनासेवने' इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे - पौनः पुन्यमिति ।आसेवन॑शब्देन सह नञ्समास इत्यभिप्रेत्याह — ततोऽन्यस्मिन्विषये इति । आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकास्य ष्टुत्वेन टः । आसेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह — तत्यजिथ तत्यक्थेति । इडभावेचोः कु॑रिति भावः । त्युक्तेति । त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति । षोपदेशोऽयमनिट्, नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परेअनिदिता॑मिति नलोपाऽप्रवृत्तेरराह — दंशसञ्जेति नलोप इति । अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । अतुसादौ तु अकित्त्वान्न नलोपः । ससञ्जतुः ससञ्जुः । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ — ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज । ससञ्जिव ससञ्जिम.क्रादिनियमादिट् । सङ्क्तेति । तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः । सङक्ष्यति । सजत् । असजत् । सजेत् । सज्यात् । असाङक्षीत् । हलन्तत्वाद्वृद्धिः । असङ्क्ष्यत् । दृशिर्प्रेक्षणे इति । इरित् । अनिट् च । पश्यतीति । शितिप्राघ्राध्मे॑ति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः । अजन्ताऽकारवत्त्वाऽभावात्अचस्तास्वदिति, 'उपदेशेऽत्त्वतः' इति निषेधस्य चाऽप्राप्तेः । ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः । Padamanjari ----------- एसंगंस्यत इति । समो गम्यृच्छि इत्यात्मनेपदम् । गमेरिङदेशस्येति । तेन सञ्जिगंसते इत्यत्र न भवतीति भावः । आत्मनेपदेन समानपदस्थस्येति । इह तु जिगमिषितेवाचरति जिगमिषित्रीयत इति बहिरङ्गत्वादात्मनेपदस्य प्रतिषेधाभावः । एतच्च प्रस्नवित्रीयत् , इत्यत्र वार्तिककारमेत व्याख्यात्म् । अन्यत्र सर्वत्रैवेष्यत इति । कथं पुनरिष्यमाणोऽपि लभ्यते योगविभागात् । गमः सकारादाविड् भवतीत्येको योगः, ततः परस्मैपदेषु इति द्वितीयो नियमार्थः । लुल्यजातीयचापेक्षत्वान्नियमस्यात्मनेपदविषय इण्निवर्तत इति केचिदाहुः । अन्ये मन्यन्ते - परस्मैपदेष्विति सप्तमीनिर्देशादानन्तर्याश्रयणादयमर्थो भवति - गमेरुतरस्य सकारादेरार्धधातुकस्य तिङ्क्ष्बनन्तरेषु यदिड्भवति परस्मैपदेष्वेवेति, ततश्च सङ्गंस्यते इत्यत्रैव व्यावृत्तिः एस्यात्, न सङ्गंसीष्टेत्यत्र । नापि संजिगांत त्यादिउ, शपा व्यावधानात् । एकादेशे नास्ति व्यावधानम् एकादेशः पूर्वविधौ स्थानिवद्भवति तैति स्थानिवद्भावाव्द्यवधानमेव । संजिगंसिष्ययत इत्यादौ च नैव स्यात्, तस्मादिष्टिरेवेयम् । अत तेव इष्यत इत्युक्तम् । पदशेषो नाम ग्रन्थविशेषः । तन्तेनेत्यादि । अनन्तरोक्तस्य दूषणम् न पुनरयं पक्षः स्यापितः, वार्तिकविरोधात् । यदाह - सिद्धं गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति ॥ Nyaas ----- `गम्लृ गतौ` (धातुपाठः-982)। गमिरयमनुदात्तत्वादनिट्। योऽपि `सनि च` (2.4.47) इति `इण्? गतौ` (धातुपाठः-1045) इत्यस्य गमिरादेशः, यश्च `इण्वदिक इति उक्तव्यम्` (वा।167) इति `इक्? स्मरणे` (धातुपाठः-1047) इत्येतस्य, यश्च `इङश्च` (2.4.48) इति `इङ्? अध्ययने` (धातुपाठः-1046) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्। `गमिष्यति, अगमिष्यत्` इति। अनादेशस्य गमेरुदाहरणम्। `जिगमिषति` इति। एतत्? तस्येणादेशस्य, इगादेशस्य वा।अथेडिते वर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - `इङ्ग्रहणं नित्यार्थम्` इति। तद्धि [`तद्धि पूर्वकमिङ्ग्रहण्। `उदितो वा` इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्, अतस्तदनुवृत्तौ` इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं **उदितो वा** (7.2.56) इति वाग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, तथा च विकल्पेनेट्? प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। `संगंसीष्ट` इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्, `समो गम्पृच्छि` (1.3.29) इत्यादिनाऽऽत्मनेपदम्, **सुट् तिथोः** (3.4.107) इति सुट्, धत्वम्, ष्टुत्वम्। `सञ्जिर्गसते` इति। `पूर्ववत्सनः` (1.3.62) इत्यात्मनेषदम्। `अधिजिगांसते` इति। गमेरिङादेशस्य प्रत्युदाहरणम्। अथ सञ्चिगंसत इत्यत्र **अज्झनगमां सनि** (6.4.16) इति दीर्घत्वं कस्मान्न भवति? इत्याह - `गमेरिङादेशस्य` इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य। तथा हि तत्रोक्तम् - गमेरिङादेशस्येति वक्तव्यमिति। यदि परस्मैपदेष्वित्युच्यते, तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह - `आत्मनेपदेन` इत्यादि। `समानपदस्थस्य` इति। एकपदस्थस्येत्यर्थः। `अन्यत्र सर्वत्रैवेष्यते` इति। एतच्च `कृत्यपि हि` इत्यादिना विसपष्टीकरोति। `सञ्जिगमिषिता, अधिजिगमिषिता` इति। कृत्युदाहरणे द्वे। `जिगमिव त्वमिति` इति। एतत्? परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्, सिप्, `सेह्र्रपिच्च` (3.4.87) इति सेहिंरादेशर#ः, **अतो हेः** (6.4.105) इति लुक्। कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते - योगविभागः कर्तव्यः; `गमेरिट` इत्येको भागः, तत्र `से` इत्यनुवर्तते - सकारादावार्थधातुके गमेरिडागमो भवति। ततः `परस्मैपदेषु` इति द्वितीयो योगो नियमार्थः। स चायं नियमो यद्यविशेषेण स्यात्? तदा पूर्वयोगोऽनर्थकः स्यात्। तस्मात्? तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ् - सिङ्विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति। `पदशेषकारस्य पनः` इत्यादि। पदशेषकारः पुनरेवं मन्यते - परस्मैपदेष्विति नेयं परसप्तमी, किं तर्हि? विषयसप्तमी, परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड्? भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः, तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड्? भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्। तथा हि - सम्पूर्वाद्गमेः `समो गम्युच्छि` (1.3.29) इत्यादिनाऽऽत्मनेपदं विहितम्। अधिपूर्वादपि स्थानिवद्भावात्? `अनुदात्तङितः` (1.3.12) इत्यनेनात्मनेपदमिति॥ Prakriyasarvasvam ----------------- गमेः सादेरार्धधातुकस्य परस्मैपदेष्विट् स्यात् । गमिष्यति । अगमिष्यत् । कर्मणि गंस्यते । अगंस्यत । 'समो गमि—' इत्यादि तङ्यपि संगच्छते इत्यादि । लुङि 'वा गमः' इति वा कित्त्वम् । 'ह्रस्वादङ्गात्' । समगत, समगंस्त । समगसाताम्, समगंसाताम् । इत्यादि सर्वं कर्मोक्तवत् । पतॢ गतौ । पतति । लुङि लृदित्वादङ् ।