72051: पूङश्च ============= **Padacheda:** पूङः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after पू। Vasu English Translation ------------------------ The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after पू। As पूत्वा or पवित्वा, सोमोतिपूतः, सोमोतिपवितः पूतवान् or पवितवान् ॥ This allows option where by (7.2.11) there would have been prohibition. See (1.2.22). Kashika ------- पूङश्च क्त्वानिष्ठयोर्वेडागमो भवति। पूत्वा, पवित्वा। सोमोऽतिपूतः, सोमोऽतिपवतिः। पूतवान्, पवितवान्। **श्र्युकः किति** (७.२.११) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते॥ Siddhanta Kaumudi ----------------- पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥ Balamanorama ------------ **पूङश्च** - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । 'श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम् । Tattvabodhini ------------- **पूङश्च** - पूङश्च ।श्र्युकः किती॑ति निषेधे प्राप्ते वचनम् । Nyaas ----- उगन्तत्वात्? `श्रयुकः किति` (7.2.11) इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्। `पवित्वा, पक्तिः, पवितवान्` इति। **पूङः क्त्वा च** (1.2.22) इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। `पूङः` इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्॥। Prakriyasarvasvam ----------------- क्त्वानिष्ठयोर्वेट् ॥ Sutra Prayogas -------------- * **मन्त्रपवितं** (शिशुपालवधम्): `पूङ्श्च` इति विकल्पादिडागमः। * **पूतं** (भट्टिकाव्यम्): `पूङश्च` इति विकल्पेनेट्।