72050: क्लिशः क्त्वानिष्ठयोः ============================ **Padacheda:** क्लिशः | S | 5 | 1 | क्त्वानिष्ठयोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after क्लिश्। Vasu English Translation ------------------------ The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after क्लिश्। As क्लिष्ठ्वा or क्लिशित्वा, क्लिष्टः or क्लिशितः, क्लिष्टवान् or क्लिषितवान् ॥ क्लिशू (IX. 50) having an indicatory ऊ would have optionally taken इट् before *ktva* by (7.2.44), but then the *Nishtha* affixes by (7.2.15) would never have taken the augment. क्लिश् (*Divadi* 52) उपतापे, being *anudatta* would always have taken इट् before *ktva* and *Nishtha*. Hence this rule ordains option with regard to *ktva*. Kashika ------- क्लिशः क्त्वानिष्ठयोर्वेडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। **क्लिशू विबाधने** इत्यस्य क्त्वायां विकल्पः सिद्ध एव, निष्ठायां तु **यस्य विभाषा** (७.२.१५) इति प्रतिषेधः प्राप्नोति। **क्लिश उपतापे** इत्येतस्य तु क्त्वायां निष्ठायां च नित्यमिडागमः प्राप्नोति। तदर्थं क्त्वाग्रहणं क्रियते॥ Siddhanta Kaumudi ----------------- इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥ Balamanorama ------------ **क्लिशः क्त्वानिष्ठयोः** - क्लिशः क्त्वानिष्ठयोः ।इड्वा स्या॑दिति शेषः ।स्वरति सूती॑त्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति ।आर्धधातुकस्येड्वलादे॑रित्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति ।यस्य विभाषे॑त्यनेनेति भावः । Padamanjari ----------- क्लिशित्वेति । मृडमृद इत्यादिना कित्वम् । विकल्पः सिद्ध एवेति । उदत्वात्स्वरत्यादिसूत्रेण । किमर्थं तर्हि क्त्वाग्रहणम् इत्यत आह - क्लिश उपताप तैत्यस्येति ॥ Nyaas ----- `क्लिष्ट्वा` इति। व्रश्चादिसूत्रेण (8.2.36) षत्वम्। `क्लिशित्वा` इति। **रलो व्युपधाद्धलादेः संश्च** (1.2.26) इति कित्त्वम्। `क्त्वाप्रत्यये विकल्पः सिद्ध एव` इति। ऊदित्वात्? `स्वरति` (7.2.44) इत्यादिना यदि कत्वाप्रत्यये विकल्पः सिद्ध एव, तत्किमर्थं क्त्वाग्रहणम्? इत्याह - `क्लिश उपताप इत्यस्य तु` इत्यादि। `नित्यमिडागमः प्राप्नोति` इति। उपतापार्थस्य क्लिशेरुदात्तत्वात्। `तदर्थम्` इति। उपतापार्थो यः क्लिशिस्तदर्थम्। सोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। अथ वा - उपतापर्थस्य क्लिशेर्यो नित्यमिडागमः प्राप्नोति तदर्थम्, तन्निवृत्यर्थ मित्यर्थः; अर्थशब्दस्य निवृत्तिवचनत्वात्॥ Prakriyasarvasvam ----------------- इड् वा स्यात् । क्लिष्टः क्लिशितः ॥ Sutra Prayogas -------------- * **क्लिशित्वा** (भट्टिकाव्यम्): `क्लिशः क्त्वा-निष्ठयोः` इति विकल्पेनेट्। * **क्लिष्ट्वा** (भट्टिकाव्यम्): `क्लिशः क्त्वा निष्टयोः` इति विभाषेट् ।