72035: आर्धधातुकस्येड् वलादेः ============================= **Padacheda:** आर्धधातुकस्य | S | 6 | 1 | इट् | S | 1 | 1 | वलादेः | S | 6 | 1 | Sutrartha --------- **वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति ।** यस्य आर्धधातुकप्रत्ययस्य प्रथमवर्णः यकारम् विहाय अन्यत् व्यञ्जनमस्ति, तस्य आर्धधातुकप्रत्ययस्य इट्-आगमः भवति । यथा - 1. [तकारादिप्रत्ययः] अर्च् + तृच् → अर्चिता । 2. [सकारादिप्रत्ययः] लिख् + स्य + तिप् → लेखिष्यति । 3. [थकारादिप्रत्ययः] चल्-धातोः लिट्-लकारस्य मध्यमपुरुषैकवचनम् - चल् + थल् → चेलिथ । 4. [वकारादिप्रत्ययः] पच्-धातोः लिट्-लकारस्य उत्तमपुरुषद्विवचनम् - पच् + व → पेचिव । 5. [मकारादिप्रत्ययः] हस्-धातोः लिट्-लकारस्य उत्तमपुरुषबहुवचनम् - हस् + म = जहसिम । 6. [धकारादिप्रत्ययः] स्पर्ध्-धातोः लिट्-लकारस्य मध्यमपुरुषबहुवचनम् - स्पर्ध् + ध्वे - पस्पर्धिध्वे । ज्ञातव्यम् - 1. **आर्धधातुकं शेषः** (3.4.114) इत्यनेन धातुभ्यः विहिताः तिङ्भिन्नाः शित्-भिन्नाः च प्रत्ययाः 'आर्धधातुक'संज्ञकाः भवन्ति । 2. आर्धधातुकप्रत्यये इत्-वर्णाः सन्ति चेत् तेषां लोपं कृत्वा अनन्तरमेव 'प्रथमः वर्णः कः' इति निश्चेतव्यम् । यथा, 'ण्यत्' अस्य प्रथमः वर्णः यकारः अस्ति, यतः णकारस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा लोपश्च भवति । 3. यदि प्रत्ययस्य कश्चन आदेशः उक्तः अस्ति, तर्हि प्रथमं तमादेशं कृत्वा अनन्तरमेव तस्य आदेशस्य आदिवर्णः द्रष्टव्यः । यथा, यद्यपि 'ण्वुल्' प्रत्ययः वकारादिः अस्ति, तथापि अस्य प्रत्ययस्य **युवोरनाकौ** (7.1.1) इत्यनेन अक-आदेशः भवति, यः अजादिः अस्ति । अतः ण्वुल्-प्रत्ययः अजादिः एव ज्ञातव्यः । 4. ये धातवः औपदेशिक-अवस्थायाम् एकाचः सन्ति, येषां स्वरः च अनुदात्तसंज्ञकः अस्ति, तेषां विषये अनेन सूत्रेण इडागमे प्राप्ते **एकाच उपदेशेऽनुदात्तात्** (7.2.10) इत्यनेन सः निषिध्यते । अतः एतेषां विषये वलादि-आर्धधातुके प्रत्यये परे अपि इडागमः न भवति । एते धातवः एव सामान्यभाषायाम् 'अनिट्' धातवः नाम्ना ज्ञायन्ते । 5. अस्य सूत्रस्य प्रसक्तिः आर्धधातुकप्रत्यये परे एव अस्ति, सार्वधातुके प्रत्यये परे न । Sutrartha (English) ------------------- An आर्धधातुक-प्रत्यय that starts with a वल् letter gets an इट् आगम. Vasu English Summary -------------------- An आर्धधातुक affix -- आर्द्धधातुकं शेषः (3.4.114) etc., beginning with a consonant (except य) gets the augment इट् (in these rules). Vasu English Translation ------------------------ An आर्धधातुक affix -- आर्द्धधातुकं शेषः (3.4.114) etc., beginning with a consonant (except य) gets the augment इट् (in these rules). Thus लविता, लवितुम्, लवितव्यम्, पविता, पवितुम्, पवितव्यम् ॥ Why '*ardhadhatuka*'? Observe आस्ते, वस्ते ॥ The *niyama* rule of (7.2.76) ordaining इट् augment to *sarvadhatuka* affixes of *Rudadi* verbs, would prevent इट् augment before *sarvadhatuka* affixes when coming after other roots. The employment of *ardhadhatuka* here can be dispensed with. Why before affixes beginning with a वल्-consonant? Observe लव्यम्, पव्यम्, लवनीयम्, पवनीयम् ॥ Though the *anuvritti* of इट् was understood here, its repetition is for the sake of preventing the prohibition of the foregoing *sutras* like (7.2.8). Bhashya ------- आर्धधातुकस्येड्वलादेः आर्धधातुकग्रहणं किमर्थम् ? ॥ वलादिग्रहणमार्धधातुकविशेषणं(4) यथा विज्ञायेत - वलादेरार्धधातुकस्येति ॥ अथाऽक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणं विशेषणं स्यात् ? ॥ अङ्गस्येति वर्ततेऽङ्गविशेषणम् ॥ तत्र को दोषः ? ॥ अङ्गस्य वलादेरादित इट्प्रसज्येत - अडाड्वत् । तद्यथा - अडाटावङ्गस्यादितो भवतस्तद्वत् ॥ क्रियमाणेऽप्यार्धधातुकग्रहणेऽनिष्टं शक्यं(5) विज्ञातुं - वलादेरार्धधातुकस्य यदङ्गमिति । अक्रियमाणे चेष्टम् - अङ्गस्य योवलादिरिति ॥ किं चाङ्गस्य वलादिः ? ॥ निमित्तं, - यस्मिन्नङ्गमित्येतद्भवति ॥ कस्मिन्नङ्गमित्येतद्भवति ? ॥ प्रत्यये ॥ यावता क्रियमाणेऽपि चाऽनिष्टं विज्ञायते, अक्रियमाणे चेष्टं. तत्राऽक्रियमाणे एवेष्टं विज्ञास्यामः ॥ इदं तर्हि प्रयोजनम् - ःइह मा भूत् - आस्ते शेते ॥ एतदपि नास्ति प्रयोजनं - रुदादिभ्यः सार्वधातुक इत्येतन्नियमार्थं भविष्यति - रुदादिभ्य एव सार्वधातुक इड्भवति नान्येभ्य इति ॥ एवमपि वृक्षत्वं वृक्षता - अत्र प्राप्नोति ॥ एवं तर्हि विहितविशेषणं धातुग्रहणं - धातोर्यो विहितः ॥ ननु च(3) धातोरेवाऽयं विहितः ॥ न चायं धातोरित्येवं विहितः ॥ क्व पुनर्धातुग्रहणं प्रकृतम् ? ॥ ऋत इद्धातोरिति ॥ तद्वै षष्ठीनिर्दिष्टं पञ्ञ्चमीनिर्दिष्टेन चेह विहितः(4) शक्यते विशेषयितुम् ॥ अथेदानीं षष्ठीनिर्दिष्टेनचापि विहितः(4)शक्यते विशेषयितुम् । शक्यमार्धधातुकग्रहणमकर्तुमिति ॥ Kashika ------- छन्दसीति निवृत्तम्। आर्धधातुकस्य वलादेरिडागमो भवति। लविता। लवितुम्। लवितव्यम्। पविता। पवितुम्। पवितव्यम्। आर्धधातुकस्येति किम्? आस्ते। शेते। वस्ते। **रुदादिभ्यः सार्वधातके** (७.२.७६) इत्येतस्मिन् नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवतीति आर्धधातुक्रहणं क्रियते। वलादेरिति किम्? लव्यम्। पव्यम्। लवनीयम्। पवनीयम्। इडिति वर्तमाने पुनरिड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम्॥ Siddhanta Kaumudi ----------------- वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥ Laghu Siddhanta Kaumudi ----------------------- वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम॥ Balamanorama ------------ **आर्धधातुकस्येड् वलादेः** - सिपस्थलि बभू थ इति स्थिते — आर्धधातुस्येट् ।नेड्वशि कृती॑त्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं न कार्यमितिनेड्वशी॑ति सूत्रभाष्ये प्रत्याख्यातम् । आर्धधातुकस्येति किम् । जुगुप्सति । अत्र 'गुप्तिज्किद्भ्य' इति सनो धातोरित्यधिकृत्य विहितत्वाऽभावान्नार्धधातुकत्वम् । बभूविथेति । सिपस्थलि तस्य इडागमे वुगादि पूर्ववत् । बभूवथुरिति । थसोऽथुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इतिपरस्मैपदानां णलतु॑सित्यत्रोक्तम् । वुगादि पूर्ववत् । बभूवेति । मिपो णलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे वुगादि पूर्ववत् । नचात्रश्र्युकः किती॑तीडागमनिषेधः शङ्क्यः,कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति क्रादिनियमादिटसिद्धेः । बभूविमेति । मसो मादेशे इडागमे वुगादि पूर्ववत् । इति लिट्प्रक्रिया । Tattvabodhini ------------- **आर्धधातुकस्येड् वलादेः** - ॒नेड्वशि कृती॑त्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसंबद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तुसमर्थानां प्रथमाद्वे॑त्यनुवृत्तस्य पदत्रयस्य् मध्येप्राग्दिश् इत्यनन्तरंसमर्थानां प्रथमा॑दिति निवृत्तं,वे॑तित्वनुवर्तत इति व्याख्यानमिवनेति निवृत्तम्, इडित्यनुवर्तते॑ इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्युक्तं शक्यम्, तथापि स्पष्टप्रतिपत्त्यर्थं तत्स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् । आस्ते, शेते । वलादेः किम् । एधनीयम् । ननुरुदादिभ्यः सार्वधातुके॑ इत्यनेन सार्वधातुकस्य यदीड्भवति तर्हि रुदादिभ्य एवे॑ति नियमादास्ते शेत इत्यत्र इड्न भवेदित्याद्र्धधातुकस्येति ग्रहणं व्यर्थम् । न च रुदादिभ्यः सार्वधातुक एवेति विपरीतनियमाद्रोदितेत्यत्र न स्यात्, आस्ते शेत इत्यत्र तु स्यादिति शङ्क्यम् ।रुदविदमुषग्रहिस्वपिप्रच्छः संश्चे॑ति क्त्वाप्रत्यये औपदेशिककित्त्वस्य सुस्थत्वात् ।हलन्तञ्चे॑ति झलादिसनः कित्त्वाच्च । तस्माद्विपरीतनियमाऽसंभवेनाद्र्धदातुकग्रहणं व्यर्थमेव । ननु तद्ग्रहणाऽभावे वलादेरित्यस्य — अङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात्, ततश्च अडाटाविवेडागमोऽतादवस्थ्यात्, अकृते ।पि तद्ग्रहणेऽङ्गस्य यो वलादिरङ्गनिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्यानेशरणीकर्तव्येआर्धधातुकस्ये॑त्यस्य त्याग एव श्रेयान् । नन्वेवंकेशवः॑,अङ्गना॑वृक्षत्व॑मित्यत्रेट् स्यात् ।ऋत इद्धातो॑रित्यतो धातोरित्यनुवर्तनादधातोः परस्य न भवतीति परिहारसंभवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमः । विहितविशेषणेनाप्ययं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति लूभ्यां लूभिरित्यत्र ब्यामादेर्धातोर्विहितत्वाऽनपायात् । किंचजुगुप्सते॑ इत्यादौगुप्तिज्किद्भ्यः॑ इति धातोर्विहितस्य सन इड् दुर्वारः स्यात् । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं, तच्च दुर्लभम्,ऋत इद्धातो॑रित्यत्र धातोरित्यस्य षष्ठन्तत्वात्, तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यं, शब्दाधिकारपक्षे स्वरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलाभात् । अस्तु वा षष्ठन्तत्वं, विहितत्वं षष्ठर्थ इति व्याख्यायामिष्टसिद्धः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमाद्र्धधातुकस्यति ग्रहणम् । केचित्तु - धातोरित्युच्चार्य विहितो यः प्रत्ययस्तस्य#एडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाऽभावादाद्र्धधातुकस्येति व्यर्थमित्याहुः । बभूविवेति । न चाऽत्रश्र्युकः किती॑तीण्निषेधे वुगागमोऽपि न स्यादिति शङ्क्यं, क्रादिनियमादिटः प्रवृत्तेः॥ Padamanjari ----------- आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव एसार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्वविधानान्न भविष्यति । तानिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्वसद्भावादिति, ततश्च प्रतिपतिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङ्ग्स्य इत्यधिकारतस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदातः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेषनुदातात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङ्गः, आञ्त तैद्धातोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्ट्ंअ रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपतिगौरवपरिहार्थमार्धधातुकस्य इत्युक्तम् । प्रतिषेधनिवृत्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थैत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ॥ Nyaas ----- `आस्ते, शेते, वस्ते` इति। `आस उपवेशने` (धातुपाठः-1021), `शीङ्? स्वप्ने` (धातुपाठः-1032), `दस आच्छादने` (धातुपाठः-1023)। अदादित्वाच्छपो लुक्, **शीङः सार्वधातुके गुणः** (7.4.21) । आर्धधातुकग्रहणादिह - सार्वधातुकस्येण्न भवतीति। ननु च **रुदादिभ्यः सार्वधातुके** (7.2.76) इत्येतन्नियमार्थ विज्ञायते - `रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य` इति। `रुदादिभ्यः सार्वधातुकस्यैव` इत्येषा तु विपरीतनियमाशङ्का न कर्तव्या। यदि ह्रेवंविधो नियमः स्यात्, तदा रुदादेः परस्य सन इडागमो न स्यात्; नियमेन व्यावर्त्तितत्वात्। ततश्च `रुदविद` (1.2.8) इत्यत्र रुदिग्रहणमनर्थकं स्यात्; **हलन्ताच्च** (1.2.10) इति कित्त्वस्य सिद्धत्वात्। तस्मान्नात्र विपरीतनियमाशङ्का। `रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः` इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनार्धधातुकग्रहणेन? इत्यत आह - `रुदादिभ्यः` इत्यादि। **रुदादिभ्यः सार्वधातुके** (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्, तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने `प्रतिपत्तिगौरवं भवति` इति। इतिकरणो हेतौ। यत एव **रुदादिभ्यः सार्वधातुके** (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्। यदि ह्रङ्गस्य स्यात्, `एकाच उपदेशेऽनुदात्तात्` (7.2.10) इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्; प्राप्त्यभावा। **न क्त्वा सेट्** (1.2.18) , `निष्ठा शीङ्` (1.2.19) इति वचनाच्च। न ह्रस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्, वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्, `ऋत इद्धातोः` (7.1.100) इत्यतः `धातोः` इत्यनुवर्तते। नन्वेवमपि लूभ्याम्, लूभिरित्यत्र प्राप्नोतीत्येव, न ह्यत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्? नैतदस्ति; **ॠत इद्धातोः** (7.1.100) इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्। अत इहापि `धातो` रित्यनुवर्तमानं तथाभूतमेवानुवर्तते। तेन `धातोः` इत्येवंविहितस्येङ्विधानात्? लूभ्याम्, लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्यत्र धातोरित्येवं सन्? विहितः, किं तर्हि? गुपादीन्? धातून्? स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्। `ऋत इद्धातोः` (7.1.100) इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्। तदा तस्यापि `ऋतः` इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात्? तदर्थस्य विशेषणं विज्ञायत इत्यदोवः। अथ वा - तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्, अपरं स्वरूपपदात्मकम्। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्। अथेङ्ग्रहणं किमर्थम्, यावता **नेड् वशि कृति** (7.2.8) इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह - `इडिति वर्तमाने` इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्, न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात्? तु विधिरेष विज्ञास्यते॥ Prakriyasarvasvam ----------------- वलादेरार्धधातुकस्येडागमः स्यात् । इति तव्यस्येट् । टित्त्वादादौ । धातोर्गुणा- वादेशौ । भवितव्यं श्रिया । एवं भवनीयं श्रिया । इडनिड्व्यवस्थां तृचि वक्ष्यामः । शयितव्यं तु शयनं स्थातव्यं स्थितिरिव हि । एवं ल्युडादितुल्येऽपि भावे कृत्यान् हरोऽब्रवीत् ॥ ५६ ॥