72027: वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः
=================================================
**Padacheda:** वा | S | 0 | 0 |
दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः | S | 1 | 3 |
Sutrartha
---------
****
Vasu English Summary
--------------------
The following irregularly formed participles from the causative roots may optionally take इट् - 1. दान्त 2. शान्त 3. पूर्ण 4. दस्त 5. स्पष्ट 6. छन्न and 7. ज्ञप्त।
Vasu English Translation
------------------------
The following irregularly formed participles from the causative roots may optionally take इट् - 1. दान्त 2. शान्त 3. पूर्ण 4. दस्त 5. स्पष्ट 6. छन्न and 7. ज्ञप्त।
These words are formed either from the causative base or from the primary roots दम् &c. The other forms are दमितः, शमितः, पूरितः, दासितः, स्पाशितः, छादितः and ज्ञपितः ॥ The words दान्त &c. are formed by the *luk*-elision of णि (Causative), and not taking the इट् Augment. By (7.2.49) ज्ञप् optionally is सेट् and, therefore, by (7.2.15), its Participle would have been always अनिट्, hence, this *sutra* makes an option.
Bhashya
-------
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः अथ(1) दान्तशान्तयोः किं निपात्यते ? ॥ दान्तशान्तयोरुपधादीर्घत्वं च ॥ (दान्तशान्तयोरुपधादीर्घत्वञ्ञ्च) ॥ किं च ? ॥ णिलोपेट्प्रतिषेधौ च ॥ उपधादीर्घत्वमनिपात्यं, वृध्द्या सिद्धम् ॥ न सिध्यति, मितां ह्रस्व इति ह्रस्वत्वेन भवितव्यम् ॥ एवं तर्ह्यनुनासिकस्य क्विझलोः क्ङितीत्येवात्र (2)दीर्घत्वं भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ णिचा व्यवहितत्वात् ॥ णिलोपे कृते नास्ति व्यवधानम् ॥ स्थानिवद्भावाद्व्यवधानमेव ॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधि प्रति न स्थानिवदिति ॥ अथ स्पष्टच्छन्नयोः किं निपात्यते ? ॥ स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ॥ ( स्पष्टच्छन्नयोरुपधाह्रस्वत्वं च ) ॥ किं च ? ॥ णिलोपेट्प्रतिषेधौ च ॥
Kashika
-------
णेरित्यनुवर्तते। दम् शम् पूरी दस् स्पश् छद् ज्ञप् इत्येतेषां ण्यन्तानां धातूनां वानिट्त्वं निपात्यते। दान्तः, दमितः। शान्तः, शमितः। पूर्णः, पूरितः। दस्तः, दासितः। स्पष्टः, स्पाशितः। छन्नः, छादितः। ज्ञप्तः, ज्ञपितः। इट्प्रतिषेधो णिलुक् च निपात्यते। ज्ञपेस्तु भरज्ञपिसनाम् (७.२.४९) इति विकल्पविधानाद् **यस्य विभाषा** (७.२.१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम्॥
Siddhanta Kaumudi
-----------------
एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥
Balamanorama
------------
**वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः** - वा दान्त ।णेरध्ययने वृत्त॑मित्यतो णेरित्यनुवर्तते । 'दमु शमु उपशमे' ण्यन्ताभ्यामिडभावो निपात्यते ।अनुनासिकस्ये॑ति दीर्घः । णिलोपस्तु न स्थानिवत्, निपातनाद्दीर्घविधौ तन्निषेधाच्च । दान्तः । शान्तः । 'पूरी आप्यायने' ण्यन्तात्क्तः, इडभावो निपात्यते, णिलोपः । रात्परत्वान्नत्वं, णत्वं । पूर्णः । एतेनन ध्याख्यापृमूर्च्छी॑त्येव सिद्धे पूर्णग्रहणं व्यर्थमित्यपास्तम्, पूरीधातोण्र्यन्तात्पूर्णरूपार्थत्वात् । 'दसु उपक्षये' ण्यन्तात् इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । 'स्पश बाधने' ण्यन्तात् क्तः, इडभावो निपात्यते, उपधावृद्ध्यभावश्च । णिलोपः । स्पष्टम् ।छद अपवारणे॑ । ण्यन्तात्क्तः । इडभावो वृद्ध्यभावश्च निपात्यते । णिलोपः ।रदाभ्या॑मिति नत्वं, — छन्नः ।ज्ञप मिच्चे॑ति चुरादिण्यन्तात् क्तः । इडभावो णिलोप इति कैयटः । ज्ञप्तः । पक्ष इति । निपातनाऽभावपक्ष इत्यर्थः । दमितः शमित इति । अमन्तत्वेन मित्त्वाद्ध्रस्वः । ज्ञापत इति । अचौरादिकस्य रूपम् । चौरादिकस्य तु ज्ञपित इत्येव ।
Tattvabodhini
-------------
**वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः** - वा दान्त । शमु दमु उपशमे, पूरी आप्यायने, दिवादिश्चुरादिश्च । दसु उपक्षये, स्पश बाधने, छद अपवारणे । ज्ञपिर्मित्संज्ञायांमारणतोषणनिशामनेष्वि॑त्युक्तः ।
Padamanjari
-----------
दान्तः, शान्त इति । दमिशमी उपशमनार्थे । णलुगिट्प्रतिषेधयोः अनुनासिकस्य क्विझलोः इति दीर्घः । निपात्यमानस्य च णिलुकोऽपरनिमितकत्वाद्दीर्घविधिं प्रति निषेधाच्च स्थानिवद्भावो नास्ति । पूर्ण इति । पूरी आप्यायने दिवादिः, चुरादिश्च । दस्त इति । तसु उपक्षये दमु च । अत्र ह्रस्वत्वमपि निपात्यते । स्पष्टः च्छन्न इति । स्पशबाधनस्पर्शनयोः, च्छद अपवारणे । अत्रापि ह्रस्वत्वमपि निपात्यते । ज्ञप्त इति । ज्ञप मिच्च, एचुरादिः । इट्प्रतिषेधो णिलुक्च निपात्यत इति । चकारात्क्वचिदुपधाह्रस्वत्वं च । क्वचित्पठ।ल्ते - ज्ञपेभंरज्ञपिसनामिति विकल्पिविधानाद्यस्य विभाषेतीट्प्रतिषेधे प्राप्ते विकल्पार्थे निपातनमिति । एकाज्ग्रहणम् यस्य विभाषा इत्यत्र नानुवर्तत इति भावः । अत्रादितश्चतुर्णां ग्रहणं शक्यमकर्तुम् । कथमन्तर्भवितण्यर्थानां प्रकृत्यन्तानां दान्त इत्यादीनि रुपाणि, अन्यत्र ण्यन्तानां दमित इत्यादीनि ॥
Nyaas
-----
`दान्तः, शान्तः` इति। `शमु दमु उपशमे` (धातुपाठः-1201,1203)। हेतुमण्णिच्, णिलुगिट्प्रतिषेधयोः कृतयोः **अनुनासिकस्य क्विझलोः क्ङिति** (6.4.15) इति दीर्घः। ननु च णिलोपस्य स्थानिवद्भावाद्व्यवधाने सति न प्राप्नोति? नैतदस्ति; न हि निपातनेन लोपे सति तस्य परनिमित्तत्वव्यपदेशो विद्यते, तत्? कुतः स्थानिवद्भावः! `न पदान्त` (1.1.57) इत्यादिना दीर्घविधौ स्थानिवद्भावप्रतिषेधाच्च। `दमितः, शमितः` इति। `मितां ह्रस्वः` (6.4.92) इति ह्रस्वत्वम्। `पूर्णः` इति। `पूरी आप्यायने` (धातुपाठः-1803)। दिवादिश्चुरादिश्च। `दस्तः` इति। `तसु उत्क्षेपे` (धातुपाठः-1212) [`उपक्षये` - धातुपाठः-] `दसु च` (धातुपाठः-1213)। अत्रोपधा ह्रस्वत्वमपि निपात्यते। `स्पष्टश्छन्नः` इति। `स्पश बाधनस्पर्शनयोः (धातुपाठः-887), `छद अपवारणे` (धातुपाठः- 1935)। अत्रापयुपधाह्रस्वत्वमपि निपात्यते। ज्ञप्त इति। `ज्ञप मारणतोषणनिशामनेषु` (धातुपाठः-1624)[`ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - धातुपाठः-] इति चुरादिः, `मारणतोषणनिशामनेषु ज्ञा मिच्च` (धातुपाठः-811) इति घटादिश्च, ततो णिच्। `इट्प्रतिषेधो णिलुक्च` इति। चकारात्? क्वचिदुपधाह्रस्वत्वमपि निपात्यते॥
Prakriyasarvasvam
-----------------
णिजन्तानां दमादीनां दान्ताद्या वा निपातिताः । दान्तश्च दमितः शान्तः शमितः पूर्णपूरितौ ॥ ११७ ॥ उपक्षये दसिस्तस्य णिचि दस्तश्च दासितः । स्पश बाधन इत्यस्य स्पष्टः स्पाशित इत्यपि ॥ ११८ ॥ एवं छन्नः छादितः । ज्ञप्तः ज्ञपितः । ज्ञपयतेर्ज्ञानार्थत्वात् तस्य च सनि वेट्त्वात् ज्ञातोऽपि ज्ञप्तः । सर्वत्रेट्पक्षे 'निष्ठायां सेटि' (६-४-५२) इति णिलोपः । अन्यत्र निपातनात् सर्वसिद्धिः ॥
Sutra Prayogas
--------------
* **प्रशान्तघर्माभिभवः** (किरातार्जुनीयम्): `वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः` इति निपातनात्साधुः।
* **प्रच्छन्नः** (किरातार्जुनीयम्): `वा दान्तशान्त-` इत्यादिना निपातः।
* **छन्नेऽपि** (शिशुपालवधम्): `वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः` इति वैकल्पिको निपातः।