71036: विदेः शतुर्वसुः ====================== **Padacheda:** विदेः | S | 5 | 1 | शतुः | S | 6 | 1 | वसुः | S | 1 | 1 | Sutrartha --------- **विद्-धातोः परस्य शतृ-प्रत्ययस्य विकल्पेन 'वसुँ' आदेशः भवति ।** विद् (ज्ञाने) इति अदादिगणस्य धातुः । **लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इत्यनेन अस्मात् धातोः शतृ-प्रत्ययः विधीयते । अस्य शतृ-प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'वसुँ' आदेशः भवति । अस्मिन् आदेशे कृते 'विद्वस्' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् - विद् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → विद् + शतृ [**लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [**कर्तरि शप्** (3.1.68) इति शप्] → विद् + शतृ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति विकरणस्य लुक्] → विद् + वसुँ [**विदेः शतुर्वसुः** (7.1.36) इति वसुँ-आदेशः] → विद् + वस् [**उपदेशेऽजनुनासिक इत्** (1.3.2) इति उँकारस्य इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → विद्वस् [**कृत्-तद्धित-समासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा] अनेन सूत्रेण निर्दिष्टः आदेशः विकल्पेनैव भवति, नित्यम् न । अतः अस्य आदेशस्य अनुपस्थितौ विद्-धातोः शतृप्रत्ययान्तरूपम् 'विदत्' इति भवति - विद् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → विद् + शतृ [**लटः शतृशानचावप्रथमासमानाधिकरणे** (3.2.124) इति लट्-इत्यस्य शतृ-आदेशः] → विद् + शप् + शतृ [**कर्तरि शप्** (3.1.68) इति शप्] → विद् + शतृ [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति विकरणस्य लुक्] → विदत् [ शकार-ऋकारयोः इत्संज्ञा, लोपः । वर्णमेलनम् ।] अस्य रूपाणि अग्रे 'पठत्' शब्दवत् भवन्ति । ज्ञातव्यम् - 1. विद्वस्-शब्दः 'वसुँ' प्रत्ययान्तशब्दः अस्ति, अतः अयम् 'उगित्' अस्ति । अतः अस्य शब्दस्य प्रक्रियायाम् **उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इत्यनेन नुमागमः विधीयते । यथा - विद्वस् + औ [प्रथमाद्विवचनस्य प्रत्ययः] विद्वन् स् + औ [**उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इति नुमागमः] → विद्वा न् स् औ [**सान्तमहतः संयोगस्य** (6.4.10) इति नकारस्य उपधावर्णस्य दीर्घः] → विद्वांसौ [**नश्चापदान्तस्य झलि** (8.3.24) इति अपदान्तनकारस्य अनुस्वारः] 2. धातुपाठे वस्तुतः 'विद्' इति पञ्च धातवः सन्ति । एतेषु केवलं अदादिगणस्य विद् (ज्ञाने) अस्य विषये एव वर्तमानसूत्रस्य प्रसक्तिः अस्ति । Sutrartha (English) ------------------- The शतृ प्रत्यय attached to the verb विद् (ज्ञाने) is optionally converted to 'वसुँ'. Vasu English Summary -------------------- वसु is substituted for the Present Participle affix शतृ after the root विद् 'to know'. Vasu English Translation ------------------------ वसु is substituted for the Present Participle affix शतृ after the root विद् 'to know'. Thus विद्वस् (nominative singular विद्वान्), विद्वांसौ, विद्वांसः ॥ The words formed with affixes having an indicatory उ or ऋ (उगित्) add a म् in their strong cases (7.1.70), and form their feminine with unaccented ई ॥ शतृ is an affix having an indicatory ऋ, therefore its substitute would also be considered as having an indicatory ऋ, the उ of वसु therefore is not absolutely necessary for the purposes of उगित् operations. वसु is so written, in order that in the *sutra* वसो संप्रसारणं (6.4.131), both क्वसु and वसु should be included. Nor can we object that in the above mentioned *sutra*, वसु with one indicatory letter being taken, cannot include an affix like क्वसु having two indicatory letters, -- on the maxim एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य -- for if that were so, there was no necessity of उ in वसु ॥ Some read the *anuvritti* of the word optionally into this : and we have विदन्, विदन्तौ, विदन्तः formed with शतृ (see (5.4.38)). Bhashya ------- विदेः शतुर्वसुः ॥ विदेर्वसोः कित्त्वम् ( -वसुग्रहणे लिडादेशग्रहणार्थम् ) ॥ विदेर्वसोः कित्त्वं वक्तव्यम् ॥ किं प्रयोजनम्(1) ? ॥ (ठवसुग्रहणेषु(2) लिडादेशग्रहणार्थम्) । वसुग्रहणेषु लिडादेशस्यापि ग्रहणं यथा स्यात् ॥ किं च कारणं न स्यात् ? ॥ अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणं नेत्येवं लिडादेशस्य न प्राप्नोति, सानुबन्धको हि स क्रियते ॥ किं पुनः कारणं स(1) सानुबन्धकः क्रियते ? ॥ अयमॄकारान्तानां लिटि गुणः प्रतिषेधविषय आरभ्यते स पुनः कित्करणाद्बाध्यते । आतीस्तीर्वान्(1) निपुपूर्वानिति ॥ स तर्ह्यस्यैवमर्थोऽनुबन्धः कर्तव्यः ? ॥ न कर्तव्यः । क्रियते न्यास एव - द्विसकारको निर्देशः । विदेः शतुर्वसुस्समासेऽनञ्ञ्पूर्वे त्त्क्वो ल्यप् ॥ ( विदेः शतुर्वसुः ) ॥ Kashika ------- **विद ज्ञाने** इत्येतस्माद् धातोरुत्तरस्य शतुर्वसुरादेशो भवति। विद्वान्,विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोरुकारकरणं **वसोः संप्रसारणम्** (६.४.१३१) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। **एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य** इत्येतदपि न भवति। तथा सत्युकारकरणमनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः॥ Siddhanta Kaumudi ----------------- वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥ Laghu Siddhanta Kaumudi ----------------------- वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥ Balamanorama ------------ **विदेः शतुर्वसुः** - विदेः शतुर्वसुः । वेत्तेरिति । 'विद ज्ञाने' इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात् । यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं,निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑त्युक्तेरिति भावः । वा स्यादिति ।तुह्रोस्तात॑ङ्ङित्यतस्तदनुवृत्तेरिति भावः । विदुषीति । उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम् । Tattvabodhini ------------- **विदेः शतुर्वसुः** - विदेः । स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणंवसोः संप्रसारण॑मित्यत्र क्वसोरपि सामान्यग्रहणार्थम् । तत्सामर्थ्याच्चएकानुबन्धग्रहणे न द्वयनुबन्धकस्ये॑त्येतदपि न प्रवर्तते । Nyaas ----- यद्यपि विदेरिति सामान्यनिर्देशोऽयम्, तथधापि ज्ञानार्थस्य ग्रहणं विज्ञायते। तस्यैव हि शतानन्तरः सम्भवति, नान्येषां विदीनाम्। तत्र सत्ताविचारणार्थयोः शतुरसम्भव एव; आत्मनेपदित्वम्। लाभार्थस्य तूभययदित्वात्? सम्भवत्यसौ, न त्वनन्तरः; शप्रत्ययेन व्यवधानात्। ज्ञानार्थस्य तु लुग्विकरणत्वाच्छतुर्विकरणकृतं व्यवधानं नास्ति, अतस्तस्यैव ग्रहणमित्याह - `विद ज्ञाने` इति। `विद्वान्` इति। उगित्त्वान्नुम्, **सान्तमहतः संयोगस्य** (6.4.10) इति दीर्घः। अन्यतरस्यांग्रहणमनुवर्तते। तेन पक्षे विदन्, विदन्तौ, विदन्त इत्याद्यपि भवति। एचच गम्यमानत्वाद्वृत्तौ नोक्तम्। अथ किमर्थमुकारोऽनुबन्धः क्रियते, नुमाद्युगित्कार्यं यथा स्यादिति चेत्? न; तस्य स्थानिवद्भावेनैव सिद्धत्वादित्यत आह - `स्थानिवद्भावात्` इत्यादि। `क्वसोऽपि` इति। अपिशब्दादस्यापि। असत्युकारे सामान्यार्थे क्वसोरेव ग्रहणं स्यात्, नान्यस्य। अथ **वसोः सम्प्रसारणम्** (6.4.131) इति सूत्रं क्रियत एवास्यैव ग्रहणार्थम्, न क्वसोः; ननु च सत्यप्युकारकरणे सामान्यग्रहणं नोपपद्यते, एकानुबन्धकपरि(व्या।प।52) भा,यास्यैव ग्रहणं स्यात्, न क्वसोः? इत्याह - `एकानुबन्धकग्रहणे` इत्यादि। एतत्? परिभाषासूत्रम्। न भवति। नोपतिष्ठत इत्यर्थः। किं कारणं न भवति? इत्याह - `तथा च सति` इत्यादि। एवञ्च सतीत्यर्थः। यदि क्रियमाणेऽप्युकार एकानुबन्धपरिभाषोपतिष्ठते, एवं सत्युकारकरणमनर्थकं स्यात्। विनाऽपि तेन `वसः सम्प्रसारणम्` इत्युच्यमाने केवलस्यास्य ग्रहणं लभ्यत एव। तस्मादुकारकरणसामर्थ्यादियं परिभाषा नोपतिष्ठते॥ Sutra Prayogas -------------- * **विद्वान्** (रघुवंशम्): `विदेः शतुर्वसुः` इति वस्वादेशः। * **विद्वत्सु** (किरातार्जुनीयम्): `विदेः शतुर्वसुः` इति वैकल्पिको वस्त्रादेशः। * **विद्वान्** (किरातार्जुनीयम्): `विदेः शतुर्वसुः` इति वैकल्पिको वसुरादेशः। * **विद्वानिव** (भट्टिकाव्यम्): `विदेः शतुर्वसुः` इति दीर्घहल्यादिसंयोगान्तलोपाः ।