71027: युष्मदस्मद्भ्यां ङसोऽश् ============================== **Padacheda:** युष्मद्-अस्मद्भ्याम् | S | 5 | 2 | ङसः | S | 6 | 1 | अश् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- अश् -- अनेकाल्शित्सर्वस्य (1.1.55), is substituted for the Genitive 6th-Case ending अस् after the अङ्ग (stems) युष्मद् and अस्मद्। Vasu English Translation ------------------------ अश् -- अनेकाल्शित्सर्वस्य (1.1.55), is substituted for the Genitive 6th-Case ending अस् after the अङ्ग (stems) युष्मद् and अस्मद्। Thus तव and मम ॥ The indicatory श् of अश् shows that by (1.1.55), the whole of the affix अस् is to be replaced : otherwise it would have replaced only the first letter of the affix; and the affix not being a substitute-affix, rule (7.2.89), would not be applicable to it. The तव is substituted for युस्मद्, and मम for अस्मद् by (7.2.96); and तव + अ (अश्), and मम + अ = तव and मम् by (6.1.97). Bhashya ------- युष्मदस्मद्भ्यां ङसोऽश् किमर्थः शकारः ? ॥ सर्वादेशार्थः(2) । शित्सर्वस्येति सर्वादेशो यथा स्यात् ॥ नैतदस्ति प्रयोजनम् - अक्रियमाणेऽपि शकारेऽलोन्त्यस्य विधयो भवन्तीत्यन्त्यस्याऽकारे कृते त्रयाणामकाराणामतो गुणे पररूपत्वे सिद्धं रूपं स्यात् - तव स्वम् मम स्वम् ॥ यद्येतल्लभ्येत कृतं स्यात्तत्तु न लभ्यम् ॥ किं कारणम् ? ॥ अत्र हि तस्मादित्युत्तरस्यादेः परस्येत्यकारस्य प्रसज्येत ॥ अत उत्तरं पठति - ॥ ङस आदेशे शित्करणानर्थक्यमकारस्याकारवचनानर्थक्यात् ॥ ङस आदेशे शित्करणमनर्थकम् ॥ किं कारणम् ? ॥ अकारस्याकारवचनानर्थक्यात् । अकारस्याऽकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति ॥।. अर्थवत्त्वादेशे लोपार्थम् ॥ अर्थवत्त्वकारस्याऽऽकारवचनम् ॥ कोऽर्थः ? ॥ आदेशे लोपार्थम् । यः स शेषे लोपः आदेशे स विज्ञायते ॥ ननु चादेशो या विभक्तिरित्येवमेतद्विज्ञायते ॥ आदेश एषा विभक्तिः ॥ कथम् ? । सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपद्यते ॥ 1 । ॥ तस्माच्छित्करणम् ॥ तस्माच्छकारः कर्तव्यः ॥ न कर्तव्यः ॥ क्रियते न्यास एव ॥ कथम् ? ॥ प्रश्लिष्टनिर्देशोऽयम् - अ अ अ इति । सोऽनेकाल्शित्सर्वस्येति सर्वस्य भविष्यति ॥ ( युष्मदस्मद्भ्याम्) ॥ Kashika ------- युष्मदस्मदित्येताभ्यामुत्तरस्य ङसोऽशित्ययमादेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा ह्यादेशव्यपदेशप्रक्ऌप्त्यर्थमादेरेव स्यात्, ततश्च **योऽचि** (७.२.८९) इत्येतद् न स्यात्॥ Siddhanta Kaumudi ----------------- स्पष्टम् । तव । मम । युवयोः । आवयोः ॥ Laghu Siddhanta Kaumudi ----------------------- तव। मम। युवयोः। आवयोः॥ Balamanorama ------------ **युष्मदस्मद्भ्यां ङसोऽश्** - युष्मदस्माद्भ्यां ङसोऽश् । स्पष्टमिति । युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः । सित्त्वात्सर्वादेशः । तव ममेति । युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः । युवयोः आवयोरिति । युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोःयोऽची॑ति दस्य यत्वे पररूपमिति भावः । Tattvabodhini ------------- **युष्मदस्मद्भ्यां ङसोऽश्** - युष्मादस्मद्यां ङसोऽश् । शित्त्वं सर्वादेशार्थम् । अन्यथा हिआदेः परस्ये॑तिस्यात् । न चाऽकारस्याऽकारविधाने वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात् । न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यं,सर्वे सर्वपदादेशा॑इति सिद्धान्तात् । इदमेव शित्त्वं ज्ञापयतिसर्वे सर्वपदादेशाः॑इति । अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः । सिच्चङादयस्तु वचनसामर्थ्यादनर्थकस्यापि भवन्तीति मनोरमायां स्थितम् । Padamanjari ----------- शित्करणं सर्वादेशार्थमिति । अन्यथा आदेः परस्य इत्यादेः स्यात् । ननु चाकारस्याकारवचने प्रयोजनाभावादाद्यनुसंहारे बाधिते अलोन्त्यस्य इति मकारस्याकारे सति अतो गुणे इति पररुपेणैव सिद्धमत आह - अन्यथा हीति । आदेश इति व्यपदेश आदेशव्यपदेशः, यस्यादेशस्य प्रयोजनं नास्तीति मन्यसे तसयैव स्यादित्येवशब्दार्थः । किं पुनरादेशव्यपदेशेन प्रयोजनं यत आदेरेव स्यात् तत्राह -ततश्चेति । ह्यर्थे चः एपठितः । ततो ह्यादेशव्यपदेशाद् योऽचि इति यत्वं न स्यात्, यत्वाभावः प्रयोजनमादेशव्यपदेशस्य स्यादित्यर्थः । योऽचि त्यित्र युष्मदस्मदोरनादेशे इति वर्तते । ननु चानादेशो या विभक्तिरित्येवं तत्र विज्ञास्यते, न हि तदादिविधिरस्ति यत अनादेशादाविति विज्ञायेत ततश्च सत्यष्यादेशादित्वे विभक्तेरनादेशत्वात्स्यादेव यत्वमिति व्यर्थमेवाकारस्याकारविधानम् एवं मन्यते - सर्वे सर्वपदादेशाः इति न्यायेनादिविकारद्वारेण विभाक्तेरेवादेशो विधीयत इति विभक्तिरेवादेश इति । सर्वे सर्वपदादेशाः इत्यत्र न पदशब्देन सुप्तिङ्न्तमुच्यते, किं तर्हि पद्यते गम्यतेऽनेनार्थं इति पदम्, ततश्च पचत्वित्यत्र यथा तिशब्दस्य तुशब्दो भवति, तद्वदत्रापि ङ्सोऽशेव विधीयत इति भवत्येवादेशात्वं विभक्तेः ॥ Nyaas ----- यदि **शेषे लोपः** (7.2.90) इत्यन्तलोपः, तदास्य भावे प्राप्त इदं वचनम्। अथ टिलोपः, तदा विभक्तेः श्रवणप्राप्त आदेशार्थं वचनम्। `तद स्वम्, मम स्वम्` इति। `तदममौ ङसि` (7.2.96) इति मपर्यन्तयोर्युष्मदस्मदोस्तवममादेशौ भवतः। **शेषे लोपः** (7.2.90) इति दकरलोपे कृते **अतो गुणे** (6.1.97) पररूपत्वम्। `शित्करणं सर्वादेशार्थम्` इति। असति शित्करणे **आदेः परस्य** (1.1.54) इत्याकारस्यादेशोऽकारः स्यात्। ननु चाकारस्याकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शित्करणं सर्वादेशो भविष्यति, अन्तस्य वा। तत्र द्वयोरकारयोरतो गुणे पररूपत्वेनेष्टं सिध्यति? अत आह - `अन्यथा हि` इत्यादि। अन्यथा यदि शित्करणं न स्यात्? तदाऽऽदेश इति योऽयं व्यपदेशस्तस्य या प्रकॢप्तिः=निष्पत्तिस्तदर्थमादेरेव स्यात्; **आदेः परस्य** (1.1.54) इति वचनात्। स्यादेतत् - यद्यादेशव्यपदेशप्रकॢप्तितः कश्चिदर्थः सम्पद्यते तदा स्यात्? तदर्थमादेरेव वचनम्, न च ततः कश्चिदर्थः सम्पद्यते तस्मादयुक्तमेवेति? इत्यत आह - `ततश्च` इत्यादि। चशब्दो हेतौ। लिङ्? सम्भावनायाम्। तत आदेशव्यपदेशप्रकॢप्तेः `योऽचि` (7.2.82) इति कार्यं न स्यात्। एतद्धि यत्र विभक्तावादेशो नास्ति तत्र विधीयते; `अनादेशे` (7.2.86) इत्यधिकारात्। तस्मात्? प्रयोजनवत्यादेशवयपदेशप्रकॢप्तिरिति तदर्थमादेरेव स्यात्, ततश्चेटं रूपं न सिध्येत्। तस्मात्? सर्वादिशार्थः शकारः कर्तव्यः॥ Praudhamanorama --------------- शित्त्वं सर्वादेशार्थम्। अन्यथा हि 'आदेः परस्य' इति स्यात्। न च वैयर्थ्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात्। न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यम्? 'सर्वे सर्वपदादेशा' इति सिद्धान्तात्। इदमेव शित्त्वं 'सर्वे सर्वपदादेशा' इति। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः। सिच्चङादयस्तु वचनसाममर्थ्यादनर्थकस्यापि बोध्याः। इत्थं त्ववधेयम्- अन्त्यलोपपक्षे अशः स्यादेशः प्रप्तोऽङ्गवृत्तपरिभाषया वारणीयः। यदि त्वङ्गस्य यत्कार्यं तद्विषयिण्येव सा परिभाषा, न त्वङ्गाधिकारमात्रपरेति दुराग्रहस्तर्हि अशित्यत्र 'अतो गुणे' इति पररूपेणाकारान्तरं प्रश्लिष्याऽकाररूप एव अश् भवति, न विक्रियते इति व्याख्येयम्। यत्तु स्यादेशस्यापवादोऽशिति; तन्न, अशादेशप्रवृत्तिकाले शेषे लोपाभावेन स्यादेशस्याप्रसक्तेः॥ Prakriyasarvasvam ----------------- आभ्यां परस्य ङसः अश् स्यात् । शित्त्वात् सर्वस्य । शेषे लोपः' (७-२-९०) पररूपम् । तव मम । 'योऽचि' (७-२-८९) युवयोः । आवयोः । आमि—