71026: नेतराच्छन्दसि ==================== **Padacheda:** न | S | 0 | 0 | इतरात् | S | 5 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **नपुंसकलिङ्गवाचिनः इतर-शब्दात् परस्य सुँ/अम्-प्रत्यययोः वेदानां विषये अद्ड्-आदेशः न भवति ।** **अद्ड् डतरादिभ्यः पञ्चभ्यः** (7.1.25) इत्यनेन इतर-शब्दात् परस्य सुँ / अम् -प्रत्यययोः अद्ड् आदेशः उच्यते । वेदानां विषये अयमादेशः न भवति । यथा - 'वार्त्रघ्नम् इतरम्' अयम् छान्दसः प्रयोगः। अत्र 'इतर + अम्' इत्यत्र **अतोऽम्** (7.1.24) इत्यनेन अम्-आदेशं कृत्वा रूपं सिद्ध्यति । Sutrartha (English) ------------------- In case of Vedas - The सुँ and अम् प्रत्यय occurring after the नपुंसकलिङ्गवाची 'इतर' शब्द do not get the अद्ड्-आदेशः । Vasu English Summary -------------------- In the छन्दस् (Vedas) अत् (or अद्) is not the substitute of सु and अम् Nominative 1st-Case and Accusative -2nd case endings after इतर। Vasu English Translation ------------------------ In the छन्दस् (Vedas) अत् (or अद्) is not the substitute of सु and अम् Nominative 1st-Case and Accusative -2nd case endings after इतर। As इतरमितरमण्डमजायत; वार्त्रघ्नमितरम् ॥ Why in the Vedas? See इतरत् काष्ठम्, इतरत् कुड्यम् ॥ Had this *sutra* been placed immediately after अतोऽम् (7.1.24), we could have made it simpler by saying इतराच्छन्दसि; the present position of the *sutra* indicates that we should divide it into two, to include other cases. In the case of एकतर, the अदड् substitution does not take place, either in the *Veda* or in the Common Language. As एकतरं तिष्ठति, एकतरं पश्य ॥ Bhashya ------- नेतराच्छन्दसि ॥ इतराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्र ॥ इतराच्छन्दसि प्रतिषेधे एकतरात्सर्वत्रेति वक्तव्यम् । एकतरं तिष्ठति । एकतरं पश्य ॥ ॥ नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा विप्रतिषेधेन ॥ नपुंसकादेशेभ्यो युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन । नपुंसकादेशानामवकाशः - त्रपु त्रपुणी त्रपूणि। युष्मदस्मदोर्विभक्त्यादेशानामवकाशः - त्वं ब्राह्मणः, अहं ब्राह्मणः, युवां ब्राह्मणौ, यूयं ब्राह्मणाः, वयं ब्राह्मणाः । इहोभयं प्राप्नोति - त्वं ब्राह्मणकुलमहं ब्राह्मणकुलम् । युवां ब्राह्मणकुले आवां ब्राह्मणकुले । यूयं ब्राह्मणकुलानि, वयं ब्राह्मणकुलानि । युष्मदस्मदोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन ॥ अथेदानीं युष्मदस्मदेर्विभक्त्यादेशेषु कृतेषु पुनः प्रसङ्गाच्छिशीलुङनुम्विधयः कस्मान्न भवन्ति ? ॥ सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेव ॥ - इति(1) ॥ Kashika ------- इतरशब्दादुत्तरयोः स्वमोश्छन्दसि विषयेऽद्डादेशो न भवति। मृ॒त॑मि॑त॒रमा॒ण्ड॑म॑वा॒पद्यत॒ (मै०सं० १.६.१२)। वार्त्रघ्नमितरम्। छन्दसीति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। **अतोऽम्** (७.१.२४) इत्यस्मादनन्तरमितराच्छन्दसीति वक्तव्ये नेतराच्छन्दसीति वचनं योगविभागार्थम्। एकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरं तिष्ठति, एकतरं पश्येति॥ Siddhanta Kaumudi ----------------- स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् (SK3332) ॥ Padamanjari ----------- अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ॥ Nyaas ----- पूर्वेणाद्डादेशस्य प्रसकतस्यायं प्रतिषेधः। अथ `अतोऽम्` (7.1.24) इत्यस्यानन्तरं ` इतराच्छन्दसि` इति कस्मान्नोक्तम्, एवं हि नेति प्रतिषेधः कर्तव्यो न भवति, अमादेशोऽद्डादेशस्यापवादो भविष्यति? इत्याह - `अतोऽमित्यस्मादनन्तरम्` इत्यादि। `योगविभागार्थम्` इति। नेत्येकयोगविभागो यथा स्यादिति। किमर्थं पुनर्योगविभाग इष्यते? इत्याह - `एकतराद्धि` इत्यादि। एकशब्दाद्धि सर्वत्र प्रतिषेध इष्यते, स च नेति योगविभागाल्लभ्यते। तस्माद्योगविभाग इष्यते। स च यथान्यासे सिध्यति; नान्यथेति `नेतराच्छन्दसि` इत्युच्यते॥ Prakriyasarvasvam ----------------- क्लीबादितरात् स्वमोरड्‌डादेशो न स्यात् । वातंन्नमितरम् । Vartika ------- एकतरात्प्रतिषेधो वक्तव्यः ।