64107: लोपश्चास्यान्यतरस्यां म्वोः ================================== **Padacheda:** लोपः | S | 1 | 1 | च | S | 0 | 0 | अस्य | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | म्-वोः | S | 7 | 2 | Sutrartha --------- **असंयोगपूर्वः यः प्रत्ययान्तः उकारः तस्य मकारे वकारे च परे विकल्पेन लोपः भवति ।** यदि प्रत्ययस्य अन्तथः उकारः असंयोगपूर्वः अस्ति, तर्हि तस्य मकारे वकारे च परे विकल्पेन लोपः भवति । अस्मिन् सूत्रे 'अस्य' इति प्रयुक्तमस्ति । 'अस्य' इत्युक्ते **उतश्च प्रत्ययादसंयोगपूर्वात्** (6.4.106) अस्मिन् पूर्वसूत्रे निर्दिष्टस्य उकारस्य । अतः **उतश्च प्रत्ययादसंयोगपूर्वात्** (6.4.106) इत्यनेन यस्य उकारस्य निर्देशः क्रियते, तस्यैव उकारस्य ग्रहणमस्मिन् सूत्रेऽपि भवति, अन्यस्य कस्यापि उकारस्य न । **उतश्च प्रत्ययादसंयोगपूर्वात्** (6.4.106) इत्यनेन तु 'श्नु' इत्यस्य विकरणप्रत्ययस्य, 'उ' इत्यस्य विकरणप्रत्ययस्य च उकारस्यैव ग्रहणं भवति । अतः अस्य सूत्रस्य व्याप्तिः अपि तयोः एव विषये अस्ति । अस्मात् मकारादि-वकारादि-प्रत्यये च परे अस्य उकारस्य वैकल्पिकः लोपः भवति । यथा - 1. स्वादिगणस्य चिञ् (चयने) अस्य लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् एतादृशम् सिद्ध्यति - चि + लोट् [**लोट् च** (3.3.162) इति लोट्] → चि + वस् [**तिप्तस्..** (3.4.78) इति उत्तमपुरुषद्विवचनस्य वस्-प्रत्ययः] → चि + श्नु + वस् [**स्वादिभ्यः श्नुः** (3.1.73) इति श्नुः] → चि + नु + व [**लोटो लङ्वत्** (3.4.85) इत्यनेन लोट्-लकारस्य ङित्-लकारवत् कार्याणि भवन्ति । अतः **नित्यं ङितः** (3.4.99) इत्यनेन सकारलोपः] → चिनुव / चिन्व [**लोपश्चास्यान्यतरस्यां म्वोः** (6.4.107) इति उकारस्य वैकल्पिकः लोपः] 2. तनादिगणस्य तनुँ (विस्तारे) अस्य लट्लकारस्य उत्तमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति - तन् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → तन् + मस् [**तिप्तस्..** (3.4.78) इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → तन् + उ + मस् [**तनादिकृञ्भ्यः उः** (3.1.73) इति उ-प्रत्ययः] → तनुमः, तन्मः [**लोपश्चास्यान्यतरस्यां म्वोः** (6.4.107) इति उकारस्य वैकल्पिकः लोपः] 3. यदि अयमुकारः संयोगपूर्वः अस्ति तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, आप्-धातोः लट्-लकारस्य उत्तमपुरुषबहुवचनस्य रूपसिद्धौ - आप् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → आप् + मस् [**तिप्तस्..** (3.4.78) इति उत्तमपुरुषबहुवचनस्य मस्-प्रत्ययः] → आप् + श्नु + मस् [**स्वादिभ्यः श्नुः** (3.1.73) इति श्नुः] → आप्नुमः [**ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] अत्र उकारात् पूर्वः 'प् + न्' इति संयोगः अस्ति अतः अत्र **लोपश्चास्यान्यतरस्यां म्वोः** (6.4.107) इत्यस्य प्रसक्तिः नास्ति, अतः उकारस्य लोपः न भवति । ज्ञातव्यम् - वस्तुतः अत्र 'लुक्' इत्यस्य अनुवृत्तिम् कर्तुं शक्यते । तथाप्यत्र 'लोपः' इति उक्तमस्ति । तस्य कारणमेतत् - **प्रत्ययस्य लुक्श्लुलुपः** (1.1.61) इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । परन्तु अत्र 'श्नु' इत्यस्य केवलं उकारस्य लोपः इष्यते, नकारस्य न । अतः अत्र 'लोपः' इति उक्तमस्ति । एवं क्रियते चेत् **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिम-उकारस्य लोपः भवितुमर्हति । Sutrartha (English) ------------------- The उकार which occurs at end of a प्रत्यय is optionally deleted when followed by a मकार / वकार , provided that a संयोग is not present immediately before this उकार. Vasu English Summary -------------------- The पु of the विकरण उ and श्नु when not preceded by a conjunct consonant, may be elided optionally before a personal affix beginning with म् or व्। Vasu English Translation ------------------------ The पु of the विकरण उ and श्नु when not preceded by a conjunct consonant, may be elided optionally before a personal affix beginning with म् or व्। Thus सुन्वः or सुनुवः, सुन्मः, सुनुमः, तन्वः, तनुवः, तन्मः, तनुमः ॥ The उ must belong to the affix, and should not be part of the root. Therefore not in युवः, युमः ॥ Why do we say 'not preceded by a conjunct consonant'? Observe शक्नुवः, शक्नुमः only. Though the elision word लुक् was understood in this *sutra*, the mention of लोप indicates that the final is only to be elided, and not the whole affix नु ॥ It is a general maxim that the words लुक्, श्लु and लुप् cause the elision of the whole affix, while '*lopa*' will cause elision of the final letter only of the affix. If the whole affix be elided, we could not get सुन्वः &c., Moreover, in कुर्व and कुर्म formed by *guna* of कृ, there would have been no *guna*, had the word लुक् been used, for (1.1.63), would have prevented *guna*; but by using the word लोप we have such *guna* also by (1.1.62). Kashika ------- योऽयमुकारोऽसंयोगपूर्वस्तदन्तस्य प्रत्ययस्यान्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः। सुन्वः, सुनुवः। सुन्मः, सुनुमः।तन्वः, तनुवः। तन्मः, तनुमः। प्रत्ययस्येत्येव — युवः। युमः। असंयोगपूर्वस्येत्येव — शक्नुवः, शक्नुमः। लुगिति वर्तमाने लोपग्रहणमन्त्यलोपार्थम्॥ Siddhanta Kaumudi ----------------- असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥ Laghu Siddhanta Kaumudi ----------------------- असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥ Balamanorama ------------ **लोपश्चास्यान्यतरस्यां म्वोः** - लोपश्च ।उतश्च प्रत्ययादेसंयोगपूर्वा॑दिति पूर्वसूत्रोक्त उकारोऽस्येत्यनेन परामृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते । असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वेति । स च अङ्गस्य विशेषणं । तदन्तविधिः । तदाह — असंयोगेति । प्रत्ययोकारैति । प्रत्ययसंबन्धी उकार इत्यर्थः । 'प्रत्यय — उकार' इति व्याख्याने तु सनुनुवः सुनुम इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्ययेति किम् । युवः । युमः । असंयोगपूर्वादिति किम् । शक्नुवः शक्नुमः । धिन्वः धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत आह — मिपि त्विति । दिदिन्व । धिन्विता । धिन्विष्यति । धिनोतु । Tattvabodhini ------------- **लोपश्चास्यान्यतरस्यां म्वोः** - लोपश्चा । यः प्रत्ययोकार इति । असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम्, अक्ष्णुवः अक्ष्णुम इत्यादावनिष्टाऽभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम्उतश्चे॑ति सूत्रेऽपिअक्ष्णुही॑त्यत्र दोषाऽभावेऽपि अश्नुहीत्यत्रातिप्रसङ्गः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं तु कृतमत्याहुः ।अश्नुही॑ति परस्मपैदं यद्यपि लोके दुर्लभं, तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् ।आप्नुहीटति पाठस्तूतिः । Padamanjari ----------- अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ।लश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः इति संज्ञाविधाववोचाम् । एसर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ॥ Nyaas ----- `योऽयमुकारोऽसंयोगपूर्वः` इति। एतेनास्येत्यनेन प्रकृत उकारः प्रत्यवमृश्यत इति दर्शयति। ननु च `अतः` (6.4.106) इत्यनुवृत्तेरुकारस्यैव लोपो विज्ञास्यते, तत्किम्? `अस्य` इत्यनेन? षष्ठीप्रकॢप्त्यर्थमस्येत्येतदिति चेत्? न; `म्वोः` इत्येषैव हि सप्तम्यकृतार्था `उतः` इत्यस्याः पञ्चम्याः पूर्वयोगे कृतार्थायाः षष्ठीत्वं प्रकल्पयिष्यति, **तस्मिन्निति निर्दिष्टे पूर्वस्य** (1.1.66) इति वचनात्। स्यादेतत्। यदि `म्वोः` इत्येषा सप्तमी विज्ञायते, एतदेव तु न विज्ञायते -किमियं षष्ठी उत सप्तमीति? तस्मात्? षष्ठीप्रकॢप्यर्थमस्येत्युक्तम्। `लुगित्त्यनुवर्तमाने` इत्यादि। यदि प्रकृत एव लुक्? क्रियते तदा सर्वस्यैव प्रत्ययस्य लुक्? स्यात्, नान्त्यस्य; यतः प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तु प्रत्ययावयवस्यादर्शनस्य। सर्वस्य तु लुकि कृते `सुन्वः सुन्मः` इति न सिध्यति? लोपग्रहणाददोषः। तत्र ह्रुकारमात्रस्य लोपः **अलोऽन्त्यस्य** (1.1.52) इति वचनात्। तस्मादन्त्यस्य लोपार्थं लोपग्रहणम्। किञ्च कुर्वः कुमं इत्यत्र गुणो लुकि सति न स्यात्; **न लुमताङ्गस्य** (1.1.63) इति प्रत्ययलक्षणाप्रतिषेधात्। लोप#ए तु सति भवति। ततो गुणार्थमपि लोपग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- षुञ् अभिषवे । 'स्वादिभ्यः श्नुः' इति श्नुः । सुनोति । ङित्सु श्नोर्न गुणः । सुनुतः 'हुश्नुवोः—' इति यण् । सुन्वन्ति । सुनोषि । सुनुथः । सुनुथ । सुनोमि । म्वोः परयोः असंयोगपूर्वोकारान्तस्य प्रत्ययस्य वा लोपः स्यात् । अत्रान्त्यस्य लोपः । सुन्वः, सुनुवः । सुन्मः, सुनुमः । तङि सुनुते । सुन्वाते । सुन्वते । सुनुषे । सुनुध्वे । सुन्वे । सुन्वहे, सुनुवहे । सुन्महे, सुनुमहे । कर्मणि सूयते । लिङि सुनुयात् । सुनुयाताम् । सुनुयुः । सुन्वीत । सुन्वीयाताम् । सुन्वीरन् । सुन्वीथाः । सुन्वीध्वम् । सुन्वीय । सुन्वीवहि । लोटि सुनोतु, सुनुतात् । सुनुताम् । सुन्वन्तु । 'उतश्च प्रत्ययात्—' इति हेर्लुक् । सुनुः सुनुतात् । सुनुतम् । सुनुत । आटि गुणः । सुनवानि । सुनवाव । सुनुताम् । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुनुध्वम् । सुनवै । सुवावहै । लङि असुनोत् । असुनुताम् । असुन्वन् । असुनोः । असुनुतम् । असुनवम्, असुन्व, असुनुव । असुन्म, असुनुम । असुनुत । असुन्वाताम् । असुन्वत । असुनुथाः । असुनुध्वम् । असुन्वि । असुन्वहि, असुनुवहि । लुङि 'सुस्नुवुवा'मिति कौमुदीमतेन वेट् । असावीत् । असाविष्टाम् । असोषीत्, असौष्टाम् । तङि असविष्ट । असविषाताम् । असविद्वम्, असविध्वम् । असोष्ट । असोषाताम् । असोढ्वम् । कर्मणि चिण्वत्त्वं चोह्यम् । लिटि आदेशसत्वात् षः । सुषाव । सुषुवतुः । सुषविथ, सुपोष । सुषुवथुः । सुषुव । सुषाव, सुषव । सुषुविव । सुषुवे । सुषुवाते । सुषुविषे । सुषुविट्वे, सुषुविध्वे । सुषुविवहे । आशिषि सूयात् । सविषीष्ट, सोषीष्ट । सविषीढ्वम्, सविषीध्वम् । सोषीढ्वम् । सोषीध्वम् । लुटि सविता, सोता । सविष्यति, सोष्यति । सविष्यते, सोष्यते । 'उपसर्गात्सुनोति—' इति षः । अभिषुणोति । 'प्राक्सितादड्व्यवायेऽपि' । अभ्यषुणोत् । अभ्यषौषीत् ।