64105: अतो हेः ============== **Padacheda:** अतः | S | 5 | 1 | हेः | S | 6 | 1 | Sutrartha --------- **अदन्तात् अङ्गात् परस्य 'हि' प्रत्ययस्य लुक् भवति ।** लोट्लकारस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य **सेह्यर्पिच्च** (3.4.87) इत्यनेन 'हि' आदेशः भवति । अयमादेशः यदि अदन्तात् अङ्गात् परः आगच्छति, तर्हि अस्य आदेशस्य लोपः भवति । यथा, पठ्-धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लोट् [**लोट् च** (3.3.162) इति लोट्] → पठ् + सिप् [**तिप्तस्..** (3.4.78) इति सिप्] → पठ् + शप् + सि [**कर्तरि शप्** (3.1.68) इति शप्] → पठ् + अ + हि [**सेर्ह्यपिच्च** (3.4.87) इत्यनेन सि-इत्यस्य हि-आदेशः] → पठ् + अ [**अतो हेः** (6.4.105) इति अदन्तात् अङ्गात् परस्य हि-इत्यस्य लुक्] → पठ ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति, अतः केवलं ह्रस्व-अकारान्त-अङ्गात् एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः अदादिगणस्य 'या', 'स्ना', 'दा' आदीनाम् विषये अनेन सू्त्रेण 'हि' इत्यस्य लुक् न भवति । यथा - याहि, स्नाहि, दाहि । 2. **तुह्योस्तातङाशिष्यन्यतरस्याम्** (7.1.35) अनेन सूत्रेण आशीषि विषये लोट्-लकारस्य हि प्रत्ययस्य विकल्पेन तातङ्-आदेशः भवति । अयमादेशः परत्वात् वर्तमानसूत्रम् बाध्यते, अतः हि-इत्यस्य तातङ्-आदेशः करणीयः अस्ति चेत् वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - भवतात् । 3. अस्मिन् सूत्रे 'हि' इत्यस्य 'लुक्' उच्यते, लोपः न । अस्य कारणमेतत् - **प्रत्ययस्य लुक्श्लुलुपः** (1.1.61) इत्यनेन 'लुक्' सर्वदा सम्पूर्ण-प्रत्ययस्यैव भवति, प्रत्ययस्य अवयवस्य न । अत्र 'हि' इत्यस्य सम्पूर्ण-प्रत्ययस्य लोपः इष्यते, अतः अत्र 'लुक्' कार्यमेव करणीयम् । यदि अत्र 'लोपः' इति अभविष्यत्, तर्हि **आदेः परस्य** (1.1.54) इत्यनेन 'हि' इत्यस्य केवलं हकारस्यैव लोपः अभविष्यत् । Sutrartha (English) ------------------- The 'हि' प्रत्यय that follows an अदन्त अङ्ग is removed. Vasu English Summary -------------------- The Imperative affix हि is elided after a अङ्ग (stem) ending in short अ। Vasu English Translation ------------------------ The Imperative affix हि is elided after a अङ्ग (stem) ending in short अ। Thus पच, पठ, गच्छ, धाव ॥ But युहि, रुहि after stems ending in उ. Why do we say "short अ"? Observe लुनीहि, पुनीहि (लुना + हि, the ई substitution by (6.4.113), should be considered *asiddha*), here हि is not elided after the long आ ॥ Kashika ------- अकारान्तादङ्गादुत्तरस्य हेर्लुग् भवति। पच। पठ। गच्छ। धाव। अत इति किम्? युहि। रुहि। तपरकरणं किम् ? लुनीहि। पुनीहि। ईत्वस्यासिद्धत्वादाकार एव भवति॥ Siddhanta Kaumudi ----------------- अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥ Laghu Siddhanta Kaumudi ----------------------- अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत॥ Balamanorama ------------ **अतो हेः** - अतो हेः । 'अत' इति पञ्चमी । हेरिति षष्ठी ।चिणो लु॑गित्यतो लुगित्यनुवर्तते । तदाह — अतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोटः सिपि तस्यसेह्र्रपिच्चे॑ति हिभावे शपि गुणावादेशयोः 'अतो हे' रिति लुकं परत्वाद्बाधित्वातुह्रो॑रिति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते॒लोटो लङ्व॑दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः । Tattvabodhini ------------- **अतो हेः** - भवतादिति । लुगपेक्षया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग्बाधते न तु परमिति भावः॥ Padamanjari ----------- गच्छेति । इषुगमियमां च्छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्तेर्धावादेशः । लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युतरसूत्रे उतः, प्रत्ययात् इति यदुपातमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ॥ Nyaas ----- `गच्छ` इति। गमेर्लोट्, **इषुगमियमां छः** (7.3.77) इति छत्वम्। `धाव` इति। `धावु गतिशुद्ध्योः` (धातुपाठः-601) अथ वा सर्त्तेः `पाघ्रा` (7.3.78) इत्यादिना धावादेशः। `युहि, रुहि` इति। अदावित्वाच्छपो लुक्। `लुनोहि, पुनीह` इति। `प्वादीनां ह्रस्वः` (7.3.80) इति ह्रस्वत्वम्, `ई हल्यधोः` (6.4.113) इतीत्त्वम्। ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति, ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह - `ईत्वसय` इत्यादि। असिद्धत्वान्तु पूर्ववत्॥ Prakriyasarvasvam ----------------- अतः परस्य हेरेव हेर्लुक् स्यात् । हेरेव हेरित्युक्तेः स्थानिवत्त्वात् तातङो लुङ् न । भव, भवतात् । भवतम्, भवत ।