64104: चिणो लुक् ================ **Padacheda:** चिणः | S | 5 | 1 | लुक् | S | 1 | 1 | Sutrartha --------- **चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति ।** 'चिण्' इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये **च्लि लुङि** (3.1.43) इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये 'चिण्' आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते । यथा - 1. जन्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - जन् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → जन् + ल् [इत्संज्ञालोपः] → अट् + जन् + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + जन् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि'] → अ+ जन् + चिण् + ल् [**दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्** (3.1.61) इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः] → अ+ जन् + इ + ल् [**अत उपधायाः** (7.2.116) इत्यनेन उपधावृद्धौ प्राप्ते; **जनिवध्योश्च** (7.3.35) इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः] → अ + जन् + इ + तिप् [**तिप्तस्...** (3.4.78) इति तिप्-प्रत्ययः] → अ + जन् + इ [**चिणो लुक्** (6.4.104) इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति] → अजनि 2. गद् -धातोः कर्मणि-प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् - गद् + लुङ् [**लुङ्** (3.2.110) इति लुङ् ] → अ + गद् + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + गद् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति लुङ्लकारस्य विकरणप्रत्ययः 'च्लि'] → अ + गद् + च्लि + त [**तिप्तस्...** (3.4.78) इति भावकर्मविवक्षायामात्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → अ + गद् + चिण् + त [**चिण्भावकर्मणोः** (3.1.66) इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः] → अ + गाद् + इ + त [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः] → अगादि [**चिणो लुक्** (6.4.104) इति प्रत्ययस्य लुक्] ज्ञातव्यम् - अस्मिन् सूत्रे 'तिङ्-प्रत्ययस्य' लुक् भवतीति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रमङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य 'प्रत्ययस्यैव' लुक् भवितुमर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - 'अथ प्रत्ययस्य एतत् कुतः लभ्यते? **अङ्गस्य** (6.4.1) इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।' Sutrartha (English) ------------------- The तिङ् प्रत्यय that follows the चिण् विकरणप्रत्यय undergoes a लुक्. Vasu English Summary -------------------- The personal endings are elided after चिण् , the 3rd person singular Passive of Aorist. Vasu English Translation ------------------------ The personal endings are elided after चिण् , the 3rd person singular Passive of Aorist. As अहारि, अलावि, अकारि, अपाचि ॥ So also अकारितराम्, अहारितमाम्, here the elision of the personal affix त (3.1.60) of the Aorist being considered as *asiddha*, the affixes तरप् and तमप् are not elided: though if the *sutra* were to be literally interpreted, every affix after चिण्, ought to be elided. Or the word क्ङिति is understood here; so that कित् and ङित् affixes of चिण् are elided and not every affix. Bhashya ------- चिणो लुक् (3102) (लुकोऽधिकरणम्) (6578 उपसंख्यानवार्तिकम् ॥ 1 ॥) - चिणो लुकि तग्रहणम् - चिणो लुकि तग्रहणं कर्तव्यम् । इह मा भूत् - अकारितराम्, अहारितराम् - इति ॥ (6579 एकदेशिवार्तिकम् ॥ 2 ॥) - चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात् - चिणो लुकि तग्रहणमनर्थकम् । सङ्घातस्य लुक् कस्मान्न भवति ? सङ्घातस्याप्रत्ययत्वात् । प्रत्ययस्य लुक्श्लुलुपो भवन्तीत्युच्यते, न च सङ्घातः प्रत्ययः ॥ तलोपे तर्हि कृते परस्य प्राप्नोति । (6580 सिद्धान्तवार्तिकम् ॥ 3 ॥) - तलोपस्य चासिद्धत्वात् - असिद्धस्तलोपस्तस्यासिद्धत्वान्न भविष्यति ॥ (6581 प्रकारान्तरेण तकारानर्थक्ये वार्तिकम् ॥ 4 ॥) - कार्यकृतत्वाद्वा - अथवा कृतश्चिणो लुगिति कृत्वा पुनर्न भविष्यति । तद्यथा - वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न स्यात्, यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा - वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत - इति अग्न्याधाननिमित्तं वसन्ते वसन्त इज्यते । तस्मात्पूर्वोक्तावेव परिहारौ ॥ (प्रकारान्तरबोधकभाष्यम्) अथवा क्ङितीति वर्तते । क्व प्रकृतम् ? गमहनजनखनघसां लोपः क्ङित्यनङि (6.4.98) इति । तद्वै तत्र सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति ॥ Kashika ------- चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम् अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग् भवति, चिणो लुगित्येतद् विषयभेदाद् भिद्यते॥ Siddhanta Kaumudi ----------------- चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट ।{$ {!489 तायृ!} सन्तानपालनयोः$} । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट ।{$ {!490 शल!} चलनसंवरणयोः$} ।{$ {!491 वल!} {!492 वल्ल!} संवरणे संचरणे च$} । ववले । ववल्ले ।{$ {!493 मल!} {!494 मल्ल!} धारणे$} । मेले । ममल्ले ।{$ {!495 भल!} {!496 भल्ल!} परिभाषणहिंसादानेषु$} । बभले । बभल्ले ।{$ {!497 कल!} शब्दसंख्यानयोः$} । कलते । चकले ।{$ {!498 कल्ल!} अव्यक्ते शब्दे$} । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च ।{$ {!499 तेवृ!} {!500 देवृ!} {!501 षेवृ!} {!502 गेवृ!} {!503 ग्लेवृ!} {!504 पेवृ!} {!505 मेवृ!} {!506 म्लेवृ!} सेवने$} । परिनिविभ्यः - (SK2275) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके ।{$ {!507 रेवृ!} प्लवगतौ$} । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥{$ {!508 मव्य!} बन्धने$} । ममव्य ।{$ {!509 सूर्क्ष्य!} {!510 ईर्क्ष्य!} {!511 ईर्ष्य!} ईर्ष्यार्थाः$} ।{$ {!512 हय!} गतौ$} । अहयीत् । यान्तात्वान्नवृद्धिः ।{$ {!513 शुच्य!} अभिषवे$} । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके ।{$ {!514 हर्य!} गतिकान्त्योः $}। जहर्य{$ {!515 अल!} भूषणपर्याप्तिवारणेषु$} । अलति । आल ॥ Laghu Siddhanta Kaumudi ----------------------- चिणः परस्य लुक् स्यात्॥ Balamanorama ------------ **चिणो लुक्** - चिणो लुक् । 'चिण' इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । 'अव रक्षणे' इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः । Tattvabodhini ------------- **चिणो लुक्** - चिणो लुक् । परस्य लुक् स्यादिति ।तदशब्दस्ये॑ति कैश्चित्पठते, तदार्थिकार्थकथनम्, तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् — प्रत्ययस्य लुकश्लुलुपः॑ इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षेवृ धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यात्तदा स्त्यायतिरिवाऽयमपि षोपदेश लक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः । प्लवगताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् ।प्लवे॑ति धात्वन्तरत्वेविभाषऽऽङि रुप्लुवो॑रित्यत्र प्लुवः पक्षे घञ्विधानं व्यर्थं स्यात्, ल्पेवेत्येतस्माद्धञि आप्लावशब्दस्य सिद्धत्वात् । तथारुआवतिश्रणोती॑ति सूत्रेण प्लवेतरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात्, तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोःसन्यतः॑ इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति ।यस्य हलः॑ इति लोपस्तु न भवति,यस्येति सङ्घातग्रहण॑मिति सिद्धान्तितत्वात् । वर्णंग्रहणे त्वर्थवद्ग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि — मव्यिता । आशिषि — मव्यात् ।हलो यमा॑मिति धातुयकारस्य वा लोपः । सूक्ष्र्य ईर्क्ष्य । णलि — सुषूक्ष्र्य । ईक्ष्र्याचकार । ईष्र्याचकार । एभ्यः क्विपिलोपो व्योटरिति यलोपे,स्कोः॑ इति कलोपे जश्त्वचर्त्वयोः — सूर्ट् इत्येव रूपम् । हय गतौ । जहाय । हय्यात् । शिथिलीकरणमिति ।सोममभिषुणोती॑त्यादौ दर्शनात् । सुराया इति । तत्प्रकरणेसंधानं स्यादभिषवः॑ इत्यमरोक्तेः । Padamanjari ----------- चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङितीति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्ययस्य लुग्विधीयमानस्तरपो न भविष्यति ॥ Nyaas ----- `चिण उत्तरस्य प्रत्ययस्य` इति। अथ प्रत्ययस्यैतत्कुतो लभ्यते? **अङ्गस्य** (6.4.1) इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्। यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्, अकारितमामित्यत्र तरप्तममोर्लुक्? कस्मान्न भवति? इत्याह - `अकारितराम्` इत्यादि। योऽसौ तशब्दस्य लुक्, तस्य तरप्तमपोर्लुकि कर्तव्ये `असिद्धवदत्राभात्` (6.4.22) इत्यसिद्धत्वम्। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति। ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह - `चिणो लुगित्येतत्` इत्यादि। `चिणो लुक्` इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ `तिङश्च` (5.3.56) इत्यनेन, तदन्तात् **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यामौ कृते, अकारितमाम्, अकारितमामिति भवति॥ Prakriyasarvasvam ----------------- चिणः परस्य प्रत्ययस्य लुक् स्यात् । णित्त्वाद् वृद्धिः । अभावि । कर्मण्यपि तशब्दे परे तथैव । आतामादौ तु सिच् । Sutra Prayogas -------------- * **आकुल्यकारि** (शिशुपालवधम्): `चिणो लुक्` इति तशब्दस्य लुक्। * **वनौघनमदभ्रमराणि** (शिशुपालवधम्): `चिणो लुक्` इति तशब्दस्य लुक्। * **अतिसुरभिभाजि** (शिशुपालवधम्): `चिणो लुक्` इति तशब्दस्य लुक्। * **उदकण्ठि** (शिशुपालवधम्): `चिणो लुक्` इति तशब्दादेशस्य लुक्। * **रानायि** (भट्टिकाव्यम्): `चिणो लुक्` इति तशब्दस्य लुक् । * **अपाती** (भट्टिकाव्यम्): `चिणो लुक्` इति लुक्। * **आपादि** (भट्टिकाव्यम्): `चिणो लुक्` इति तशब्दस्य लुक्। * **प्रत्यवादि** (भट्टिकाव्यम्): `चिणो लुक्` इति तलोपः ।