63078: सहस्य सः संज्ञायाम् ========================== **Padacheda:** सहस्य | S | 6 | 1 | सः | S | 1 | 1 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- स is substituted for सह , in a Name. Vasu English Translation ------------------------ स is substituted for सह , in a Name. Thus साश्वत्थम्, सपलाशम्, सशिंशपम् ॥ Why when it is a Name? Observe सहयुध्वा, सहकृत्वा ॥ The word स꣡ह has acute on the first syllable, because all Particles have acute on the first syllable. The substitute स coming in the room of the acute स and the grave ह, will have an accent mid-way between स꣡ acute and ह॒ grave, namely, it would have the *svarita* accent. But, as a matter of fact, it has the acute accent. As स꣡पुत्रः, स꣡भार्यः ॥ These are *Bahuvrihi*. In *Avyayibhava*, the *samasa*-accent will prevail (6.1.223), as सेष्टि꣡, सपशुबन्ध꣡म् ॥ Bhashya ------- सहस्य सः संज्ञायाम् (2937) (सादेशाधिकरणम्) (6480 पूर्वपक्षिवार्तिकम् ॥ 1 ॥) - सहस्य हलोपवचनम् - सहस्य हलोपो वक्तव्यः ॥ सादेशे हि सति स्वरे दोषः । आन्तर्यत उदात्तानुदात्तयोः स्थाने स्वरित आदेशः प्रसज्येत । सपुत्रः । सभार्यः ॥ (सिद्धान्तभाष्यम्) स तर्हि लोपो वक्तव्यः । न वक्तव्यः । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति । एवमप्युपदेशिवद्भावो वक्तव्यः । स यथैव निपातनस्वरः प्रकृतिस्वरं बाधते, एवं समासस्वरमपि बाधेत - सेष्टि, सपशुबन्धम् - इति ॥ Kashika ------- सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायामिति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात्। स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र, तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव — से॒ष्टि, स॒प॒शु॒ब॒न्धम् इति॥ Siddhanta Kaumudi ----------------- उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥ Balamanorama ------------ **सहस्य सः संज्ञायाम्** - सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः ।वोपसर्जनस्ये॑त्यस्यापवादः । सपलाशमिति ।तेन सहे॑ति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ।सबे चे॑ति क्वनिप् । असंज्ञात्वान्न सभावः । Tattvabodhini ------------- **सहस्य सः संज्ञायाम्** - सहयुध्वेति ।सहे चे॑ति क्वनिप् । स्त्रियामपिवनो न हशः॑इति निषेधान्ङीब्राऔ न । समुहूर्तमिति । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । Padamanjari ----------- सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे चेति सादेशः । उदातो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदातानुदातावतोहीति । सहशब्दे निपाता आद्यौदाताः इति सशब्द उदातः, शेषनिधाते हशब्दोऽनुदातः, तेनासावुदातानुदातवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदातो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदातत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदातेऽभिनिर्वृते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदातनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ॥ Nyaas ----- `साआत्थम्` इति। सहाआत्थेनेति **तेन सहेति तुल्ययोगे** (2.2.28) इति बहुव्रीहिः। `सहयुध्वा, सहकृत्वा` इति। `दृशेः क्वनिप्` (3.2.94) इत्यनुवर्तमाने `राजनि युधि कृञः` (3.2.95) , `सहे च` (3.2.96) इति क्वनिप्, उपपदसमासः, `सर्वनामस्थाने; (6.4.8) इति दीर्घः। किं पुनः कारणं सादेश उदात्तो निपात्यते? इत्यत आह -`उदात्तानुदात्तवतो हि` इत्यादि। निपाता आद्युदाता भवन्ति` (फि।सू।4।80) इति सहशब्द आद्युदात्त एव, शेषमनुदात्तम्। तेनासावुदात्तानुदात्तवान्, ततश्चान्तर्यतस्तस्य स्थाने सशब्दः स्वरितः। तस्मान्मा भूदेष दोष इत्युदात्तो निपात्यते। यद्येवम्, अव्ययीभावेऽपि उदात्त एव स्वरः प्राप्नोति? इत्यत आह -`स च निपातस्वरः` इत्यादि। `यत्र` इत्यादि। बहुव्रीहौ तत्पुरुषे वा। **बहुव्रीहौ प्रकृत्या पूर्वपदम्** (6.2.1) इति सहेत्येतस्य समासान्तोदात्तत्वापवादः प्रकृतिस्वरत्वं भवति। तत्पुरुषेऽपि `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना। तस्मात्? तत्रैव स निपातस्वरः प्रसज्यते। अव्ययीभावे तु समासान्तोदात्तत्वापवादः प्रकृतिस्वरो न केनचिद्विहित इति ततर समासान्तोदात्तत्वेनैव भवितव्यम्। अतस्तेन बाध्यत एव। `सेष्टि, सपशृबन्धम्` इति। इष्टिरन्तो यस्य पशुबन्धोऽन्तो यस्येति, `अव्ययं विभक्ति` (2.1.6) इत्यादिना समासः, अन्तवचने। अत्र परत्वात्? प्रथमसतावन्नपतस्वरः, ततः समासान्तोदात्तत्वम्। तच्च सति निपातस्वरे शिष्यत इति सतिशिष्टम्, अतस्तेन निपातस्वरो बाध्यते; सतिशिष्टस्वरस्य वलयस्त्वात्॥ Prakriyasarvasvam ----------------- साश्वत्थं सपलाशमित्याख्या ।।