63018: शयवासवासिष्वकालात् ========================= **Padacheda:** शय-वास-वासिषु | S | 7 | 3 | अकालात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Locative -7th case-affix ending is optionally retained after the words 1. शय 2. वास and 3. वासिन् when the preceding word does not denote time and ends in a consonant or a short अ। Vasu English Translation ------------------------ The Locative -7th case-affix ending is optionally retained after the words 1. शय 2. वास and 3. वासिन् when the preceding word does not denote time and ends in a consonant or a short अ। Thus खेशयः, or खशयः, ग्रामेवासः or ग्रामवासः, ग्रामेवासिन् or ग्रामवासिन् ॥ After a time-name we have पुर्वाह्णशयः ॥ After a vowel ending word (other than अ) we have भूमिशयः ॥ Vart:- The Locative case-affix is retained after अप् when योनि, or the affix यत् or मतुप् follows. Thus अप्सुयोनिः, अप्सव्यः, अप्सुमन्तौ ॥ The affix यत् is added by treating अप् as belonging to the दिवादि class (अप्सु भवः, (4.3.54)). Kashika ------- शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषालुग् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालादिति किम्? पूर्वाह्णशयः। हलदन्तादित्येव — भूमिशयः॥ अपो योनियन्मतुषु सप्तम्या अलुग् वक्तव्यः॥ अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ (आ० श्रौ० २.१३.३)। अप्सु भव इति दिगादित्वाद् (४.३.५४) यत् प्रत्ययः। सर्वत्र सप्तमीति योगविभागात् समासः॥ Siddhanta Kaumudi ----------------- खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः । (वार्तिकम्) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥ Balamanorama ------------ **शयवासवासिष्वकालात्** - शयवास । शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वाद्यत् । 'ओर्गुणः'वान्तो यी॑त्यवादेशः । अप्सुमन्ताविति । 'अप्सु' इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ । Padamanjari ----------- अत्राकाल इत्यर्थगर्हण्, व्याख्यानात् । तदाहाकालवाचिन इति । खशय इति । अधिकरणे शेतेः इत्यच् । वास इति । घञ् । ग्रामेवासीति । सुप्यजातौ णिनिः । अपो योनीत्यादि । शब्दप्रधानत्वादप इत्येकवचनम्, योनिः - उत्पत्तिः अप्सुयोनिर्यस्य सोऽम्सुयोनिः । अप्सव्य इति । ओर्गुणः, वान्तो यि प्रत्यये । अप्सुमन्ताविति । सप्तम्यन्तान्तुपोऽसम्भवादप्स्विति शब्दो ययोरस्ति तावप्सुमन्तौ कारीर्यामाज्यभागौ, तयोर्हि अप्स्वग्ने सधिष्टवः, अप्सु मे सोमो अब्रवीत्, इत्यनुवाक्ययोरप्सुशब्दोऽस्ति । यद्येवम्, अनुकरणत्वादस्यवामीयादिवल्लुगन भविष्यतीति किं मतुब्ग्रहणेन अन्य तु मतिशब्दं पठन्ति, उदारहन्ति - अत्र सोमो वाप्सुमतिरिति ततु भाष्ये न दृष्टम् ॥ नेन्त्सिद्धबध्नातिषु च ॥ तत्पुरुषे कृति बहुलम् इति प्राप्तं प्रतिषिध्यते, सप्तम्यांः परस्याः परस्य केवलस्येनोऽसम्भवादुतरपदाधिकारेऽपि प्रत्ययग्रहणे तदन्तविधिरित्याह - इन्नन्त उतरपद इति । स्थण्डिलवर्तीति । व्रते इति णिनिः । उपपदसमासः । साङ्काशयसिद्ध इति । सिद्धशुष्कपक्वबन्धैश्चेति समासः । चारबद्ध थैति । बद्धशब्दो निष्ठान्तः । योगविभागात् समास इति । बद्धशब्देन । तदिति । बन्ध इत्येव शब्दरुपम् । अथ धञन्तः कस्मान्न भवति तत्राह धञन्ते हीति । अथ वा - पचाद्यजन्ते च बन्धे च विभाषा इत्ययं विकल्पः कस्मान्न भवति इत्यत आह - धञन्ते हीति ॥ Nyaas ----- `खेशयः` इति। **अधिकरणे शेतेः** (3.2.15) इत्यच्। `ग्रामेवासः` इति। वसनं वासः, भावे घञ्। `ग्रामेवासी` इति। ताच्छीलिको णिनिः, व्रते वा। `पूर्वाह्णशयः` इति। ननु च स्वरूपग्रहणे सति कालशय इति प्रत्युदाहार्यम्, नैवेदं स्वरूपग्रहणम्। किं तर्हि? अर्थग्रहणम्। अत एव वृत्तावुक्तम् -`अकालवाचिनः` इति। कथं पुनरर्थग्रहणं लभ्यते? पूर्वसूत्रादिह नामग्रहणानुवृत्तेः। यद्येवम्, तदा नार्थः कालग्रहणेन **घकालतनेषु कालनाम्नः** (6.3.17) इत्येतदनुवर्तिष्यते, तस्य च नञा सह सम्बन्धं करिष्यामः -कालनाम्नो नेति, तत्रायमर्थः -`नेन्सिद्धबध्नातिषु च` (6.3.19) [`नेन्सिद्ध` इति प्राचीनमुद्रितपाठः] इत्यत्र नेति वक्तव्यं न भवति, नेत्येतदेव ह्रनुवर्त्तिष्यते? नैवं शक्यम्; `न शयवासवासिषि` इत्युच्यमाने ह्रलुक एवायं प्रतिषेधो विज्ञायेत, तस्यात्र विधेयतया प्रस्तुतत्वात्। तस्मात्? कालस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं कालग्रहणं कर्तव्यम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्॥ Prakriyasarvasvam ----------------- एषु परेषु सप्तम्या अलुग्वा स्यात् । कालात् तु न । तल्पेशयः । तल्पशयः । वनेवासः । वनवासः । घञ् । वने वासी, वनवासी । कालात् तु निशीथशयः । 'अपो योनियन्मतिषु' । अप्सुयोनिरग्निः । अप्सव्यः । दिगादियत् । अप्सुमतिः पान्थः ॥ Vartika ------- अपो योनियन्मतुषु । Sutra Prayogas -------------- * **सप्तार्णवजलेशयम्** (रघुवंशम्): `शयवासवासिष्वकालात्` इत्यलुक्। * **वृक्षेशया** (रघुवंशम्): `शयवासवासिष्वकालात्` इत्यलुक्सप्तम्याः। * **सागरशयस्य** (शिशुपालवधम्): `शयवासवासिष्वकालात्` इति विकल्पादलुगभावः। * **स्वर्गेवासं** (शिशुपालवधम्): `शयवासवासिष्वकालात्` इति विकल्पादलुक्। * **वने-वास** (भट्टिकाव्यम्): `शय-वास - वासिषु` इति विभाषा- सप्तम्या अलुक् । * **वन-वासि-मुख्याः** (भट्टिकाव्यम्): `शयवासवासिष्वकालात्` इत्यादिना विकल्पेन सप्तम्या अलुक्। * **वन-शयान्** (भट्टिकाव्यम्): `शय- वास- वासिषु` इत्यादिना सप्तम्या विभाषा अलुक्।