63010: कारनाम्नि च प्राचां हलादौ ================================ **Padacheda:** कारनाम्नि | S | 7 | 1 | च | S | 0 | 0 | प्राचाम् | S | 6 | 3 | हलादौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Locative -7th case affix is not elided after a stem ending in a consonant or a short अ in the name of atax of the Eastern People when the second member begins with a consonant. Vasu English Translation ------------------------ The Locative -7th case affix is not elided after a stem ending in a consonant or a short अ in the name of atax of the Eastern People when the second member begins with a consonant. Thus सूपेशाणः, दृषदिमाषकः, हलेद्विपदिका, हलेत्रिपदिका ॥ All these are names of taxes, and would have retained the Locative ending even by the last rule. The present rule makes a *niyama* or restriction, which is threefold, namely (1) when it is the name of a tax, and no other word, (2) when it belongs to the Eastern people and no other people, (3) and when the second member begins with a consonant. Why do we say when it is the name of a tax.? Observe अभ्यर्हितेपशुः = अभ्यर्हितपशुः ॥ It is the name of 'a duty or dues', but not of a 'tax'. Why do we say "of the Eastern people"? Observe यूथेपशुः = यूथपशुः ॥ Why do we say 'before a second member beginning with a consonant'? Observe अविकटे उरणः = अविकटोरणः ॥ So also नद्यां दोहनी = नदीदोहनी ॥ For accent of these words see (6.2.65). Bhashya ------- कारनाम्नि च प्राचां हलादौ (2869) (वार्तिकावतरणभाष्यम्) किमियं प्राप्ते विभाषा, आहोस्विदप्राप्ते ? । कथं च प्राप्ते, कथं चाप्राप्ते ? यदि संज्ञायामिति वर्तते ततः - प्राप्ते । अथ निवृत्तं ततः - अप्राप्ते । कश्चात्र विशेषः ? (6403 प्राप्तविभाषायां दोषवार्तिकम् ॥ 1 ॥) - कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गः - कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्गो भवति । इहापि प्राप्नोति - अविकटे उरणो दातव्यः - अविकटोरणः ॥ अस्तु तर्ह्यप्राप्ते । (6404 अप्राप्तविभाषायां दोषवार्तिकम् ॥ 2 ॥) - अप्राप्ते समासविधानम् - यद्यप्राप्ते समासो विधेयः । प्राप्ते पुनः सति संज्ञायाम् (2.1.44) इत्येव समासः सिद्धः ॥ (अप्राप्तविभाषादोषानिवारकभाष्यम्) नैष दोषः । एतदेव ज्ञापयति - भवत्यत्र समास इति, यदयं कारनाम्नि सप्तम्या अलुकं शास्ति ॥ यद्यपि तावत् - ज्ञापकात्समासः स्यात्, स्वरस्तु न सिध्यति । यद्धि तत्सप्तमीपूर्वपदं प्रकृतिस्वरं भवतीति, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं तत् । नैवात्रानेन स्वरेण भवितव्यम् । किन्तर्हि ? सप्तमीहारिणौ र्धम्येऽहरणे (6.2.65) इत्यनेनात्र स्वरेण भवितव्यम् ॥ किं च भोः संज्ञा अपि लोके क्रियन्ते, न लोकः संज्ञासु प्रमाणम् । लोके च कारनाम संज्ञा ॥ (वार्तिकावतरणभाष्यम्) ननु चोक्तं कारनाम्नि वावचनार्थं चेदजादावतिप्रसङ्ग इति । नैष दोषः ॥ (6405 प्राप्तविभाषादोषनिवारकवार्तिकम् ॥ 3 ॥) - योगविभागात्सिद्धम् - योगविभागः करिष्यते - कारनाम्नि च प्राचाम् । ततः -हलादौ । हलादौ च कारनाम्नि सप्तम्या अलुक् भवति । इदमिदानीं किमर्थम् ? नियमार्थम् - हलादावेव कारनाम्नि सप्तम्या अलुक् भवति नान्यत्र । क्व मा भूत् ? अविकटे उरणो दातव्यः - अविकटोरणः ॥ Kashika ------- प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या अलुग् भवति। स्तूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते — कारनाम्न्येव, प्राचामेव, हलादावेवेति। कारनाम्नीति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्यैतद् देयस्य नाम। प्राचामिति किम्? यूथे पशुः यूथपशुः। हलादाविति किम्? अविकट उरणः अविकटोरणः। हलदन्तादित्येव — नद्यां दोहनी नदीदोहनी॥ Siddhanta Kaumudi ----------------- प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥ Balamanorama ------------ **कारनाम्नि च प्राचां हलादौ** - कारनाम्नि । यत्रकारनामेति । राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति ।प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,॑कारनाम्नि हलादौ चेत्प्राचामेव,॑प्राचां कारनाम्नि चेद्धलादावेवे॑ति नियमत्रयार्थमित्यर्थः । अविकटोरण इति । अविशब्दासङ्घाते कटच् । उपणो मेषः । नद्यामिति । नद्युत्तारणे तात्कालिको दोहः-करः । Tattvabodhini ------------- **कारनाम्नि च प्राचां हलादौ** - अविकटोरण इति । सङ्घाते कट जिति कटच्प्रत्ययान्तः । उरणो-मेषः । Padamanjari ----------- वणिम्भिः पशुपालैः कर्षकैश्च कल्पितो राजग्राह्यए भागः - करः, कर कएव कारः, प्रज्ञादित्वादण् । एनियमविकल्पा इति नियमविशेषा इत्यर्थः । तानेव दर्शयति - कारनाम्न्ये नेत्यादि । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव इति प्रथमो नियमः, अप्राग्देशावर्तिनि तु त्वचिसारादावकारनाम्न्यपि भवत्येव । तथा कारनाम्नि हलादौ यदि भवति प्रचामेव इति द्वितीयः । प्राचां कारनाम्नि च यदि भवति हलादावेव इति तृतीयः । अवीनां समूहोऽविकटम्, सङ्घाते कटच् । कथं पुरेकस्मिन्वाक्ये नियमत्रयं लभ्यते कः पुनराह - एकमिदं वाक्यमिति आगृह्यमाणविशेषत्वेन प्रत्येकमेवकारध्याहारात् त्रीण्येव वाक्यानि । संज्ञाग्रहणेन प्रकृतेऽपि एनामग्रहणं क्रियते नियमार्थत्वं विस्पष्टयितुमन्यथाऽसंज्ञायां विध्यर्थताऽपि समाभाव्येत । कथं पुरसंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यात् - प्रचां कारे हलादिनोतरपदेनासंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यत् - प्रचां क्रे हलादिनोतरपदेनासंज्ञानामपि भवति समास इति । यस्मिन्विधिः इत्येव सिद्धे आदिग्रहणं विस्पष्टार्थम् ॥ Nyaas ----- वणिग्भिः कर्षकैः पशुपालैश्च राज्ञे देयो भागो रक्षानिबन्धनः=कारः, तस्य नाम कारनाम। `कूपेशाणम्` इत्यादौ `र्संज्ञायाम्` (2.1.43) इति समासः। `हलेद्विपदिका` इति। द्वौ द्वौ पादौ देयौ द्विपादिका, `पादशतस्य` (5.4.1) इत्यादिना वुन्, अलोन्त्यलोपश्च, **पादः पत्** (6.4.130) इति पदादेशः। `कारविशेषस्य` इत्यादिनास्य सूत्रस्य नियमार्थतां दर्शयति। नियमविकल्पाः -नियमविशेषा इत्यर्थः। `कारनाम्नि च` इत्यादिना तेषां नियमविकलपानां स्वरूपं दर्शयति। एते च नियमविकल्पाः कारनाम्नि, प्राचाम्, हलादावित्येषां पदानामिह नियमवाक्य उपादानाललभ्यन्ते। यद्याद्यो नियमो नाभिप्रेतः स्यात्? तदा `कारनाम्नि` इति न ब्राऊयात्। एवं यदि द्वितीयो नियममो नाभिप्रेतः स्यात्? तदा `प्राचाम्` इत्येवं नोक्तं स्यात्। तथा यदि तृतीयो नियमो नाभीष्टः स्यात्? `हलादौ` इत्येवं नोक्तं स्यात्। अथ किमर्थं नामग्रहणम्, न पूर्वयोगात्? संज्ञाग्रहणमनुवर्तते? पूर्वयोगे संज्ञाया उपाधेः प्रायिकत्वसूचनार्थं नामग्रहणम्। तेन ह्मदिस्पृक्, दिविस्पृगित्यत्रासंज्ञायामप्यलुक्सिद्धो भवति॥ Prakriyasarvasvam ----------------- हलादौ प्राग्देशभवे कारनाम्नि परे हलदन्तात् सप्तम्या अलुक् स्यात् । कारौ राजभागः । हलेद्विपदिकाः । दृषदिमाषकाः ॥