63003: ओजःसहोऽम्भस्तमसः तृतीयायाः ================================= **Padacheda:** ओजस्-सहस्-अम्भस्-तमसः | S | 5 | 1 | तृतीयायाः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The Instrumental -3rd case endings after 1. ओजस् 2. सहस् 3. अम्भस् and 4. तमस् are not elided before the second member of a compound. Vasu English Translation ------------------------ The Instrumental -3rd case endings after 1. ओजस् 2. सहस् 3. अम्भस् and 4. तमस् are not elided before the second member of a compound. Thus ओजसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम् ॥ Vart:- अञ्जस् also should be enumerated. Thus अञ्जसाकृतम् ॥ Vart:- The compounds पुंसानुजः and जनुषान्धः should also be mentioned. Thus पुंसा हेतुनानुजः = पुंसानुजः ॥ जनुषा हेतुनाऽन्धः = जनुषान्धः ॥ The word जनु is another name of जन्मन् 'birth'. Bhashya ------- ओजः सहोऽम्भस्तमसस्तृतीयायाः (2862) (6393 उपसंख्यानवार्तिकम् ॥ 1 ॥) - तृतीयाया अञ्जस उपसंख्यानम् - तृतीयाया अञ्जस उपसंख्यानं कर्तव्यम् । अञ्जसाकृतम् ॥ (6394 उपसंख्यानवार्तिकम् ॥ 2 ॥) - पुंसानुजो जनुषान्धो विकृताक्ष इति च - पुंसानुजो जनुषान्धो विकृताक्ष इति चोपसंख्यानं कर्तव्यम् । पुंसानुजः, जनुषान्धः, विकृताक्षः ॥ Kashika ------- ओजस् सहस् अम्भस् तमस् इत्येतेभ्य उत्तरस्यास्तृतीयाया अलुग् भवत्युत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम् ॥ अञ्जस उपसंख्यानम्॥ अञ्जसाकृतम्॥ पुंसानुजो जनुषान्ध इति वक्त व्यम्॥ पुंसानुजः। जनुषान्धः॥ Siddhanta Kaumudi ----------------- ओजसाकृतमित्यादि । (वार्तिकम्) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः । (वार्तिकम्) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥ Balamanorama ------------ **ओजःसहोऽम्भस्तमसः तृतीयायाः** - ओजस् ।ओजस्,सहस्,अम्भस्,तमस्-एषां समाहारद्वन्द्वः । एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृतमिति ।कर्तृकरणे कृता बहुल॑मिति समासः । 'ओजो दीप्तौ बले' इत्यमरः । इत्यादीति ।सहसाकृतम्, 'अम्भसाकृतम्'तमसावृत्तम् । तमोवृत्तमिति तु असाध्वेव । शेषषष्ठआ वा समासः । अञ्जस उपसङ्ख्यानमिति । अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः । अञ्जसाकृतमिति । अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह -आर्जवेनेति । पुंसानुजः ।तृतीयाया अलुकि साधु॑रिति शेषः । यस्येति । यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ।जनुर्जननजन्मानी॑त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह — जात्यन्ध इति । ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् । Tattvabodhini ------------- **ओजःसहोऽम्भस्तमसः तृतीयायाः** - ओजः सहो । ओजसाकृतमिति । कर्तृकरणे कृतेति समासः । कथं तर्हि सततनैशतमोवृतमन्यतः इति भारविः । अत्राहुः — वृतु वर्तने इत्यस्मात् घञर्थे कविधानमिति भावे कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति । यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे । तथा च नैतशतमसा इति तृतीयाया अलुङ्न भवतीति दुर्घटवृत्याद्वुक्तम् । तन्न । पदाङ्गाधिकारे इत्यत्र इष्टकचितं, पक्वेष्टकचितमिति भाष्योदाहरमादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः । पुंसानुजो जनुषान्ध इति च । जनुषेति । जनुर्जननजन्मानीत्यमरः । Padamanjari ----------- ओजःसहोग्भस्तमसस्तृतीयायाः ॥ Nyaas ----- ओजसाकृतमित्यादौ **कर्तृकरणे कृता बहुलम्** (2.1.32) इत्यनेन समासः। `अञ्जस उपसंख्यानम्` इति। अञ्जस उत्तरस्यास्तृतीयाया अलुक्? उपसंख्यानम्=प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् -**आज्ञायिनि च** (6.3.5) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाञ्जःशब्दादुत्तरस्यास्तृतीयाया अलुग्भवतीति। अन्यदपि चात्र प्रत्पादनमुत्तरत्र करिष्यामः।`पुंसानुजः` इत्यादि। पुंसानुजो जनुषान्ध इत्यत्रापि तृतीयाया अलुक्प्रतिपादनं कर्तव्यमित्यर्थः। प्रतिपादनं पूर्ववत्। पुंसा हेतुनानुजः पुंसानुजः। जनुषा हेतुना अन्धः जनुषान्धः। `तृतीया` (2.1.30) इति योगविभागात्? समासः। जनुरिति जन्मनो नामधेयमेतत्॥ Prakriyasarvasvam ----------------- अधिकारोऽयम् ॥ एभ्य उत्तरपदे परे तृतीयाया अलुक् स्यात् । ओजसाजितम् । सहसाकृतम् । अम्भसासिक्तम् । तमसाच्छन्नम् । विशेषानुक्तावलुक्येकवद्भावो वाच्यः । तेन तमोभिः छन्नमित्यादावपि तमसाच्छन्नमेव । अञ्जसश्च वाच्यम् । अञ्जसाकथितम् । पुंसानुजो जनुपान्धश्चेष्टः । पुंसा हेतुनानुजः । पुंसोऽनुज इत्यर्थः । हेत्वन्तरं विना जन्मनैवान्धो जनुपान्धः ॥ Vartika ------- अञ्जस उपसङ्ख्यानम् ।