62124: कन्था च ============== **Padacheda:** कन्था | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In a Neuter तत्-पुरुष समास ending in कन्था the acute accent (उदात्त) falls on the first syllable of the second member. Vasu English Translation ------------------------ In a Neuter तत्-पुरुष समास ending in कन्था the acute accent (उदात्त) falls on the first syllable of the second member. Thus सौशमिक꣡न्थम्, आह्वरक꣡न्थम्, चप्यक꣡न्थम् ॥ The word सौशमिः denotes the descendant of सुशमः (शोभनः शमो यस्य) आह्वर is formed by the preposition आ with the verb ष्ठ्वृ and the affix क (3.1.136) The compound is Neuter by (3.4.20). These are Genitive compounds. When the word is not Neuter we have दाक्षिकन्था ॥ Kashika ------- तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तं भवति। सा॒ैश॒मि॒ कन्थ॑म्। आ॒ह्व॒कन्थ॑म्। च॒प्प॒कन्थ॑म्। **संज्ञायां कन्थोशीनरेषु** (२.४.२०) इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसक इत्येव — दा॒क्षि॒क॒न्था॥ Siddhanta Kaumudi ----------------- तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ॥ Padamanjari ----------- शोभवनः शमो यस्य तस्यापत्यं सौशमिः । आङ्पूर्वात् ह्वयतेः आतश्चोपसर्गे इति कः चप सान्तवने औणादिकः पः बहुलवचनादिडभावः - चप्पः ॥ आदिश्चिहणादीनाम् ॥थ 6.2.125 ॥ चिनोतेः क्विप्, चित्, हन्तेः पचाद्यच्, हनः, चिहणम् - निपातनातलोपो णत्वं च । मल मल्ल धारणे, ताअभ्यां रप्रत्ययः, निपात्नाल्लस्य डत्वम् - मडरः, मद्दुरः । विगततुलस्येदं वैतुलम् । पटदिति कायति - पटत्कः । कै गै रै शब्दे । आतोऽनुपसर्गे कः । बिडमादेते बिडालः । ला आदाने सोपसर्गादप्यस्मादेव निपातनात्कः, तस्यापत्यं बैडालिः, तस्येव कर्णावस्य बैडालिकर्णः । अपहे तु इकारान्तं पठन्ति - बैडालिकणिरिति । कुक्कु रटतीति, कुक्कुटः, निपातनाद्रशब्दस्य लोपः, चिनोतेः क्विप् , चित्, कणतेरच्, कणः, चिता कणः, चिक्कणः, निपातनातकारस्।य ककारः । तकारमेवान्ये पठन्ति । चिहणादयश्चैते गौत्रनामधेयाति स्मर्यन्ते । आदिरिति वर्तमान इति । पूर्वं ह्यादिग्रहणमुतरपदाभिसम्बद्वमिह पूर्वपदानां चिहणादीनामाद्यौदातत्वमिष्यते, अतस्तदर्थं पुनरादिग्रहणं कृतम् ॥ Nyaas ----- कथि `क्लेशने` () अस्मात्? **गुरोश्च हलः** (3.3.103) इत्यकारः, तेन कन्थान्तोदात्ता। `सौशमिकन्थम्` इति। शोभनः शमोऽस्य शुशमः **तस्यापत्यम्** (4.1.92) इत्यत इञ्। तेनाद्युदात्तः सौशमिशब्दः। `आह्वकन्थम्` इति। आङ्पूर्वस्य ह्वयतेः **आतश्चोपसर्गे** (3.3.106) इति कः, तेनाह्वशब्दस्याथादिस्वरेणा (6.2.143) न्तोदात्तः। `चप्पकन्थम्` इति। `चप सान्त्वने` (धातुपाठः-399), अस्मात्? `पानी विषिभ्यः पः` (द।उ।7।2) इति बहुलवचनाच्चपोऽपि भवति। तेन चप्पशब्दोऽन्तोदात्तः॥ Prakriyasarvasvam ----------------- ad_ref: ६. २. १२४