62123: तत्पुरुषे शालायां नपुंसके ================================ **Padacheda:** तत्पुरुषे | S | 7 | 1 | शालायाम् | S | 7 | 1 | नपुंसके | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word शाला at the end of a तत्-पुरुष समास when exhibited in the Neuter has acute on the first syllable. Vasu English Translation ------------------------ The word शाला at the end of a तत्-पुरुष समास when exhibited in the Neuter has acute on the first syllable. Thus ब्राह्मणशा꣡लम्, क्षत्रियशा꣡लम् ॥ The compound becomes Neuter by (2.4.25). Why do we say "in a *Tatpurusha*"? Observe दृढशाल ब्राह्मणकुलम् which is a *Bahuvrihi* compound and therefore first member retains its accent (VI.2. I), and as the first member is a *Nishtha* word, it has acute on the final. Why do we say "the word शाला?" Observe ब्राह्मणसेनम् ॥ Why do we say 'in the Neuter'? Observe ब्राह्मणशाला ॥ Compare (6.2.86). Kashika ------- शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्ग उत्तरपदमाद्युदात्तं भवति। ब्र्रा॒ह्म॒ण॒शाल॑म्। क्ष॒त्र्िाय॒शाल॑म्। **विभाषा सेनासुराच्छायाशालानिशानाम्** (२.४.२५) इति नपुंसकलिङ्गता। तत्पुरुष इति किम्? दृ॒ढशा॑लं ब्राह्मणकुलम्। शालायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? ब्रा॒ह्म॒ण॒शा॒ला॥ Siddhanta Kaumudi ----------------- शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ॥ Padamanjari ----------- दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदातम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उतरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ॥ Nyaas ----- शालशब्दः `कूलतीर` (6.2.120) इत्यत्रोक्तस्वरः। `ब्राआहृणशालम्, क्षत्त्रियशालम्` इति ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः, `क्षत्राद्? धः` (4.1.138) इति घप्रत्ययान्तत्वात्। `दृढशालम्` इति। बहुव्रीहिरयम्, तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) `विभाषा सेना` (2.4.25) इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता, किं तर्हि? अभिधेयवशेन लक्षणोक्ता `अभिधेयवल्लिङ्गवचनानि भवन्ति` (व्या।प।73) इति। तत्? किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्रु त्तरार्थं तत्पुरुषग्रहणम्। `चेलखेट कटुककाण्डं गर्हायाम्` (6.2.126) इत्यनेन दधि च तत्? कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्। दधिकटुकम्, `उदइआत्कटुकम्` इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या।प।3) चेह नाश्रयितव्या भवति -एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत्? प्रत्युदाहरणमुपन्यस्तम्॥ Prakriyasarvasvam ----------------- शालान्ते क्लीबे तत्पुरुषे परपदमाद्युदात्तं स्यात् । गोपशालम् । छात्त्र्यादिपूर्वेत्वे तु 'छात्त्र्यादयः शालायाम्' (६-२-८६) इति प्राक्पदमाद्युदात्त (त्व ?) मेव । छात्त्रिशालम् ।