62105: उत्तरपदवृद्धौ सर्वं च ============================ **Padacheda:** उत्तरपदवृद्धौ | S | 7 | 1 | सर्वम् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- Words denoting direction and the word सर्व have acute accent (उदात्त) on the final before a word which takes वृद्धि in the first syllable of the second term by सुसर्वार्धाज्जनपदस्य (7.3.12). Vasu English Translation ------------------------ Words denoting direction and the word सर्व have acute accent (उदात्त) on the final before a word which takes वृद्धि in the first syllable of the second term by सुसर्वार्धाज्जनपदस्य (7.3.12). By the *sutra* उत्तरपदस्य (7.3.10). (7.3.12), the *Vriddhi* of the *Uttarapada* is ordained when the *Taddhita* affixes having ञ्, ण् or क् follow, the *Purvapada* being सु, सर्व and अर्ध ॥ The word उत्तरपदवृद्धिः therefore, means that word which takes *Vriddhi*, under the rule relating to *uttarapada*, i. e. under rule (7.3.12) and (7.3.13). Thus पूर्वे꣡पाञ्चालकः, अपर꣡पांचालकः, सर्व꣡पाञ्चालकः ॥ These are formed by वुञ् affix (4.2.125). Why do we say "which takes *Vriddhi* in the second term?" Had the word उत्तरपद not been used, then the *sutra* would have run thus वृद्धौ सर्वं च, and would have applied to cases like सर्वमासः, सर्वकारकः where मासः and are कारकः are *Vriddha* words not by virtue of (7.3.12). Bhashya ------- उत्तरपदवृद्धौ सर्वं च (2765) (उत्तरपदवृद्धिपदार्थबोधकभाष्यम्) अयुक्तोऽयं निर्देशः, न ह्युत्तरपदं नाम वृद्धिरस्ति । कथं तर्हि निर्देशः कर्तव्यः ? वृद्धिमत्युत्तरपद इति । स तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । नैवं विज्ञायते - उत्तरपदं वृद्धिः -उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति । कथं तर्हि ? उत्तरपदस्य वृद्धिरस्मिन् सोऽयम् - उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति ॥ Kashika ------- **उत्तरपदस्य** (७.३.१०) इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति। स॒र्वपा॑ञ्चालकः। पू॒र्वपा॑ञ्चालकः। उ॒त्त॒रपा॑ञ्चालकः। **सुसर्वार्धदिक्शब्देभ्यो जनपदस्य** (महाभाष्य १.१८६) इति तदन्तविधिना जनपदलक्षणो (४.२.१२५) वुञ्प्रत्ययः। **सुसर्वार्धाज्जनपदस्य** (७.३.१२) **दिशोऽमद्राणाम्** (७.३.१३) इति चोत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति — स॒र्व॒भा॒सः, स॒र्व॒का॒र॒क इति॥ Siddhanta Kaumudi ----------------- उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥ Padamanjari ----------- वृद्धौ इत्येतावतैव तद्वदुतरपदपरिग्रहे सिद्धे उतरपदग्रहणातदधिकारो लक्ष्यते ॥ एबहुव्रीहौ विश्वं संज्ञायाम् ॥ विशेः क्वनि विश्वशब्द आद्यौदातः । विश्वामित्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्ए संज्ञायां मित्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ॥ Nyaas ----- `उत्तरपदवृद्धौ` इति। उत्तरपदाधिकारविहिता वृद्धिरुत्तरपदवृद्धिः, इह तु तद्वदुत्तरपदं गृह्रते। तमेवार्थं दर्शयितुमाह -`उत्तरपदस्योत्येवम्` इत्यादि। कथं पुनरुत्तरपदवृदधावित्युच्यमान एषोऽर्थः शक्यते विज्ञातुम्? तदुच्यते; उत्तरपदं स्वर्यते, स्वरितेनाधिकारो लक्ष्यते, तेनोत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तास्यास्तावद्ग्रहणं विज्ञायते। पूर्वपदस्येदमन्तोदात्तत्वं विधीयते। पूर्वपदं च सम्बन्धिशब्दत्वादुत्तरपदमुपस्थापयति। न च वृद्धिमात्र उत्तरपदमुपपद्यत इति सामर्थ्याद्वृद्धिशब्दसाहचर्यादुत्तरपदं वृद्धिमुपलक्षयति। तेनोत्तरपदाधिकारे वृद्धिमत्युत्तरपद एष स्वरो भवतीति विज्ञायते। `सर्वपाञ्चालकः` इति। `पूर्वकालैक` (2.1.48) इत्यादिना समासः। `पूर्वपाञ्चालकः` इत्यादौ `पूर्वापर` (2.1.57) इत्यादिना। `जनपदलक्षणो वृञ्प्रत्ययः` इति। **धन्वयोपधाद्वुञ्** (4.2.121) इत्यनुवर्तमाने **जनपदतदवध्योश्च** (4.2.124) इत्यतो जनपदग्रहणे च **अवृद्धादपि बहुवचनविषयात्** (4.2.125) इत्यनेन वञ्।`सुसर्वाद्र्धात्` इत्यादि। `सर्वपाञ्चालकः` इति। `सुसर्वर्धाज्जनपदस्य` (7.3.12) इत्युत्तरपदवृद्धिः। `पूर्वपाञ्चालकः` इत्यादौ तु **दिशोऽमद्राणाम्** (7.3.13) इति। एषा चोत्तरपदाधिकारविहिता, तत्र चोत्तरपदस्येत्यनुवृत्तेः। किं पुनः कारणमुत्तरपदाधिकार उत्तरपदग्रहणेन लक्ष्यत इत्येवं विज्ञायते? इत्याह -`अधिकार लक्षणात्` इत्यादि। यद्युत्तरपदग्रहणेनोत्तरपदाधिकारो लक्ष्येत, तदा वृद्धिमात्रवत्युत्तरपदे वैतद्वुञो ह्रु वात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुदात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुत्तरपदाधिकारविहिता वृद्धिः। `भासृ दीप्तौ` (धातुपाठः-624) भासत इति भासः, पचाद्यच्। करोतीति कारकः, ण्वुल्, **अचो ञ्णिति** (7.2.115) इति वृद्धिः, सा चोत्तरपदाधिकारविहिता न भवति॥ Prakriyasarvasvam ----------------- परपदोक्तवृद्धिमति परे सर्वशब्दो दिक्छब्दश्चान्तोदात्ताः स्युः । सर्व- पाञ्चालकः । पूर्वपाञ्चालकः । (वा. ७-३-१२) इति तदन्तविधेः जनपदे वुञ् । 'सुसर्वार्धात्—' (७-३-१२) । दिशोऽमद्राणाम्' (७-३-१३) इति च परपदवृद्धिः ।