62104: आचार्योपसर्जनश्चान्तेवासिनि ================================== **Padacheda:** आचार्योपसर्जनः | S | 1 | 1 | 7 च | S | 0 | 0 | अन्तेवासिनि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The direction denoting words have acute accent (उदात्त) on the final, before the names of scholars when such names derived from those of their teachers. Vasu English Translation ------------------------ The direction denoting words have acute accent (उदात्त) on the final, before the names of scholars when such names derived from those of their teachers. Thus पूर्व꣡पाणिनीयाः, अपर꣡पाणिनीयाः, पूर्व꣡काशकृत्स्नाः, अपर꣡काशकृत्स्नाः ॥ Compare (6.2.36) Why do we say 'when derived from the names of their Teachers'? Observe पूर्वशिष्याः ॥ Why do we say 'Scholar-names'? Observe पूर्वपाणिनीयं शास्त्रम् ॥ (पाणिनीयं शास्त्रं पूर्वं चिरन्तनम्) ॥ Kashika ------- आचार्योपसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भवन्ति। पू॒र्वपा॑णिनीयाः। अ॒प॒रपा॑णिनीयाः। पू॒र्वका॑शकृत्स्नाः। अ॒प॒रका॑शकृत्स्नाः। आचार्योपसर्जन इति किम्? पू॒र्व॒श्िाष्याः। अन्तेवासिनीति किम्? पू॒र्व॒पा॒ण्िानी॒यं शास्त्रम्॥ Siddhanta Kaumudi ----------------- आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥ Nyaas ----- `आचार्योपसर्जनश्च` इति। सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्, एतच्चान्तेवासिविशेषणम्। `आचार्योपसर्जनान्तेवाचिन्युत्तरपदे` इति। आचार्य उपसर्जनम्प्रधानं यस्य अन्तेवासिनः स तथोक्तः। आचार्योपसर्जनश्चान्तेवासी चाचार्योपसर्जनान्तेवासी, तं वक्तुं शीलं यस्योत्तरपदस्य तदाचार्योपसर्जनान्तेवासिवाचि। `पूर्वपाणिनीयाः` इति। `पूर्वापर` (2.1.57) इत्यादिना समासः पाणिनेराचार्यस्यान्तेवासिनः पाणिनीयाः, अत्रान्तेवासिनः प्राधान्येनोच्यन्ते प्रत्ययान्तेन; आचार्यस्तु तद्विशेषणत्वादुपसर्जनभावेनेत्याचर्योपसर्जनान्तेवासिवाच्युत्तरपदं भवति। `पूर्वकाशकृत्स्नाः` इति। काशकृत्स्नस्येमे काशकृत्स्नाः, औत्सर्गिकोऽण्।`पूर्वपाणिनीयं शास्त्रम्` इति। पाणिना प्रोक्तं पाणिनीयम्, अत्राचार्योपसर्जनशास्त्रवाच्युत्तरपदम्, न त्वाचार्योपसर्जनान्तेवासिवाचि॥ Prakriyasarvasvam ----------------- सप्तम्यर्थे प्रथमेति हरः । आचार्योपसर्जने शिष्ये परे दिक्छब्दोऽन्तोदात्तः स्यात् । पूर्वपाणिनीयाः ।