62022: पूर्वे भूतपूर्वे ======================= **Padacheda:** पूर्वे | S | 7 | 1 | भूतपूर्वे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word पूर्व and the sense is 'this had been lately…'. Vasu English Translation ------------------------ The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word पूर्व and the sense is 'this had been lately…'. -'. Kashika ------- पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्व आ॒ढ्यपू॑र्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते। तत्र **विशेषणं विशेष्येण०** (२.१.५७) इति समासः। मयूरव्यंसकादिर्वा द्रष्टव्यः। द॒र्श॒नीय॑पूर्वः। सु॒कु॒मा॒रपू॑र्वः। भूतपूर्व इति किम्? प॒र॒म॒पू॒र्वः। उ॒त्त॒म॒पू॒र्वः। अत्र परमश्चासौ पूर्वश्चेति समासः, न तु परमो भूतपूर्व इति। तथा च सत्युदाहरणमेव भवति ॥ Siddhanta Kaumudi ----------------- आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥ Padamanjari ----------- आढ्यो भूतपूर्व इति। यः पूर्वमाढ।ल् आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा एचेति । ह्यर्थे ॥ Nyaas ----- `आढओ भूतपूर्वः` इति। यः पूर्वमाढ आसीत्? स एवमुच्यते। समासे गम्यमानार्थत्वाद्भूतशब्दो न प्रयज्यते, यथा -दध्योदन इत्यत्रोपसिक्तशब्दः। `परमपूर्वः` इति। अत्र **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना समासः। `अत्र परमश्चासौ पूर्वश्चेति समासः` इति। इतिकरणोऽर्थनिर्देशार्थः। परमश्चसौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदाहरणे समास इत्यर्थः। `न तु परमो भूतः` इति। तुशब्दोऽवधारणे। परमो भूतपूर्व इति योऽयं वाक्यार्थः परमपूर्वकाललक्षणः, तस्मिन्नेवातर समास इत्यर्थः। किं कारणम्? इत्याह -`तथा च` इत्यादि। चशब्दो हि हीत्यर्थे। अयं समासो न भवति। एवं सत्यदाहरणमेवेदं भवति, न प्रत्युदाहरणम्, पूर्वशब्दस्य भूतपूर्ववाचित्वात्। यस्तु प्रायेण पुस्तकेषु पाठोऽत्र `परमश्चासौ भूतपूर्वश्चेति विग्रहो न तु परमो भूतपूर्वः` इति; स प्रमादपाठो वेदितव्यः; वाक्यद्वयेऽपि भूतपूर्वयोर्गम्यमानत्वात्॥ Prakriyasarvasvam ----------------- पूर्वशब्दे परे भूतपूर्वार्थे तत्पुरुषे प्राक्पदं प्रकृत्या स्यात् । दर्शनीयो भूतपूर्वो दर्शनीयपूर्वः ।