61070: शेश्छन्दसि बहुलम्
========================
**Padacheda:** शेः | S | 6 | 1 |
छन्दसि | S | 7 | 1 |
बहुलम् | S | 1 | 1 |
Sutrartha
---------
**वैदिकप्रयोगेषु कुत्रचित् 'शि' इत्यस्य लोपः कृतः दृश्यते ।**
**जश्शसोः शिः** (7.1.20) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः "शि"-आदेशः भवति । अस्य आदेशस्य वेदेषु बहुलम् (इत्युक्ते केषुचन स्थलेषु) लोपः कृतः दृश्यते । यथा - "त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत" (ऋग्वेदे 1.36.5) इत्यत्र विद्यमानेषु "विश्वा", "व्रता", "ध्रुवा" एतेषु त्रिषु शब्देषु "शि"-प्रत्ययस्य लोपः कृतः अस्ति । अत्र प्रक्रिया एतादृशी वर्तते —
.. code-block:: text
विश्व+ शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ विश्व + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः]
→ विश्व + न् + इ [**नपुंसकस्य झलचः** (7.1.72) इति नुमागमः]
→ विश्वा न् इ [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति उपधादीर्घः]
→ विश्वान् [ **शेश्छन्दसि बहुलम्** (6.1.70) इति शि-प्रत्ययस्य लोपः]
→ विश्वा [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः]
एवमेव "व्रता", "ध्रुवा" — एतौ शब्दौ सिद्ध्यतः ।अनेनैव प्रकारेण "तानि" इत्यस्य स्थाने "ता", "यानि" इत्यस्य स्थाने "या" एतौ प्रयोगौ अपि दृश्येते ।
प्रकृतसूत्रेण उक्तः लोपः केवलम् केषुचन स्थलेषु एव दृश्यते, सर्वत्र न; अतएव अस्मिन् सूत्रे "बहुलम्" इति शब्दः स्वीकृतः वर्तते ।
**वार्त्तिकम् — **
काशिकायां भाष्ये च **एङि पररूपम्** (6.1.94) इत्यत्र पाठितम् इदं वार्त्तिकम् कौमुदीकारेण तु प्रकृतसूत्रस्य व्याख्याने स्थापितम् अस्ति । **"एमन्" , "ओद्वन्", "इष्टि" एतेषु शब्देषु परेषु पररूपैकादेशः भवति** — इति अस्य वार्त्तिकस्य अर्थः । यथा —
1. त्वा + एमन् = त्वेमन् ।
2. त्वा + ओद्वन् = त्वोद्वन् ।
3. अभि + इष्टि = अभिष्टि ।
4. परि + इष्टि = परिष्टि ।
Sutrartha (English)
-------------------
In वेदाः, 'शि' is seen removed at some places.
Vasu English Summary
--------------------
In the छन्दस् , the elision of the case-ending इ (शि) of the nominative and accusative plural neuter, is optional.
Vasu English Translation
------------------------
In the छन्दस् , the elision of the case-ending इ (शि) of the nominative and accusative plural neuter, is optional.
Thus या क्षेत्रा or यानि क्षेत्राणि, या वना or यानि वनानि ॥
Bhashya
-------
शेश्छन्दसि बहुलम् (2507) (योगानुपयोगप्रख्यापनभाष्यम्) अयं योगः शक्योऽवक्तुम् । कथम् - अग्ने त्री ते वाजिना त्री षधस्था, ता ता पिण्डानाम् - इति ? पूर्वसवर्णेनाप्येतत्सिद्धम् ॥ न सिध्यति । नुमा व्यवहितत्वात्पूर्वसवर्णो न प्राप्नोति ॥ छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोर्गृह्णाति, मधोस्तृप्ता इवासते, इत्येवमर्थम् । तत्र पुंवद्भावेन नुमो निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् ॥ भवेत्सिद्धम् - अग्ने त्री ते वाजिना त्री षधस्था । इदं तु न सिध्यति - ता ता पिण्डानामिति । इदमपि सिद्धम् । कथम् ? साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिको भविष्यति ॥ एवमपि जसि गुणः प्राप्नोति । वक्ष्यत्येतत् - जसादिषु छन्दो वावचनं प्राङ् णौ चङ्युपधायाः ॥
Kashika
-------
शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। या वना॑ (शौ॰ सं॰ १४.२.७)। यानि॒ क्षेत्रा॑णि (शौ॰ सं॰ १४.२.७)। यानि वनानि॥
Siddhanta Kaumudi
-----------------
लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) । (वार्तिकम्) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥
Balamanorama
------------
**संहितायाम्** - संहितायाम् । इत्यधिकृत्येति ।छे चेत्यादि विधीयते॑ इति शेषः । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम् ।
Tattvabodhini
-------------
**संहितायाम्** - संहितायाम् । इत्यधिकृत्येति । एतच्चइकोयणची॑त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम् ।
Padamanjari
-----------
या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन'नपुंसकस्य झलचः' इति नुम्,'सर्वनामस्थाने च' इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि'जसि च' इति गुणः प्राप्नोति, वक्ष्यत्येतत् -ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते'सुपां सुलुक्' इतीकारस्याकारे कृते'प्रथमयोः पूर्वसवर्णः' इति दीर्घत्वेन सिद्धम् ॥
Nyaas
-----
`जस्शसोः शिः` (7.1.20) इति यः शिरादेशस्तस्यायं लोपो विधीयते। `या क्षेत्रा, या वना` इति। शेर्लोपे कृते प्रत्यलक्षणेन **नपुंसकस्य झलचः** (7.1.72) इति नुम्, **सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इति दीर्घः, `नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नलोपः। वेति कर्तव्ये बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। `तेन सर्वे विधयश्छन्दसि विक्ल्प्यन्ते` (पु।प।वृ।56), इत्युपपन्नं भवति॥
Prakriyasarvasvam
-----------------
जश्शसोः शेर्बहुलम् लोपः स्यात् । (त?) या४ ते धामानि । या५ (इ) इति स्थिते शेर्लोपे प्रत्ययलक्षणेन 'नपुंसकस्य'— (७-१-७२) इति नुम् । 'सर्वनाम- स्थाने'— (६-४-८) इति दीर्घः । न लोपः । या यानीत्यर्थः । बहुलोक्तेर्धामा- नीत्यत्र न शिलोपः । (वा. ६-१-७६) विश्वजनच्छत्रम् । विश्वजनछत्रम् । यस्य छायामृतम् । स्यादिमात्रात् स्वरादूर्ध्वस्यैकोयण् सामनीष्यते । भो इ इडेति वक्तव्ये भो ३ यिडेति हि गीयते ॥ ८७५ ॥ त्रिमात्रश्चतुरादिमात्रो वायमोकारः । (वा. ६-१-७९) घृतंर्गव्यूतिमुक्षतम् ।