61014: बन्धुनि बहुव्रीहौ ======================== **Padacheda:** बन्धुनि | S | 7 | 1 | बहुव्रीहौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is vocalisation of the affix ष्यङ् (4.1.78) when the word बन्धु follows in a बहुव्रीही compound. Vasu English Translation ------------------------ There is vocalisation of the affix ष्यङ् (4.1.78) when the word बन्धु follows in a बहुव्रीही compound. Thus कारीषगन्ध्याबन्धुरस्य = कारीषगन्धीबन्धुः ॥ So also कौमुदगन्धीबन्धुः ॥ Why do we say "when the compound is a *Bahuvrihi*"? Observe कारीषगन्ध्याया बन्धुः = कारीषगन्ध्याबन्धुः, which is a *Tatpurusha* compound. Like the last *sutra*, we have here also परमकारीषगन्धबन्धुः, but अतिकारीषगन्ध्याबन्धुः, कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः ॥ Though the word बन्धुनि is exhibited in the *sutra* in the neuter gender, it is in fact a masculine word. Vart:- There is vocalisation of ष्यङ् in a *Bahuvrihi* compound with मातच्, मातृक and मातृ optionally: as कारीषगन्धीमातः꣡ or कारीषगन्ध्यामातः꣡, कारीषगन्धीमातृकः or कारीषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता ॥ The indicatory च of मातच् makes the word take the *udatta* on the last syllable (6.1.163), thus debarring the especial accent of the *Bahuvrihi* (VI.2. I). All *Bahuvrihi* compounds ending in ऋ take the *samasanta* affix कप्, so मातृ would have become मातृक by force of (5.4.153), so the separate enumeration of मातृ and मातृक here shows that कप् is also optional. Bhashya ------- बन्धुनि बहुव्रीहौ (245) (उपसंख्यानभाष्यम्) मातज्मातृकमातृषु ष्यङ् प्रसार्यो विभाषया ॥ मातच् - कारीषगन्ध्या माताऽस्य कारीषगन्धीमातः, कारीषगन्ध्यामातः । मातच् ॥ मातृक - कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । मातृक ॥ मातृ - कारीषगन्धीमाता, कारीषगन्ध्यामाता ॥ Kashika ------- ष्यङः संप्रसारणमित्यनुवर्तते। बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याबन्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनीति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया, पुँल्लिङ्गाभिधेयस्त्वयं बन्धुशब्दः॥ मातच्मातृकमातृषु वा॥ ष्यङः संप्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या मातास्येत्येवं बहुव्रीहौ कृत एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद् बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादानाद् **नद्यृतश्च** (५.४.१५३) इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यामातः। कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः। कारीषगन्धीमाता, कारीषगन्ध्यामाता॥ Siddhanta Kaumudi ----------------- बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया । (वार्तिकम्) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च (SK833) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥ Balamanorama ------------ **बन्धुनि बहुव्रीहौ** - बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः । मातञ्मातृकमातृषु वेति । वार्तिकमिदम् । मातच्, मातृक, मातृ-एषु परेषु ष्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति — कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः । अदन्तमेतत् । मातृके उदाहरति — कारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति ।नद्यृतश्चे॑ति कप् । मातृशब्दे उदाहरति — कारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं,नद्यृतश्चे॑ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह — अत एवेति । बहुव्रीहावेवेदमिति ।बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः ।मात॑जिति चित्करणं स्वरार्थमित्याह — चित्त्वसामर्थ्यादिति । Nyaas ----- `बन्धुनीति नपुंसकनिर्देशः` इत्यादि। बन्धुनीति शब्दरूपापेक्षया नपुंसकलिङ्गन निर्देशः कृत इत्यर्थः। किं पुनः कारणमेवं व्याख्यायते? इत्याह - `पुलिङ्गाभिधेयोऽयम्` इत्यादि। ननु बन्धाविति पुलिङ्गेनैव निर्देशः कस्मान्न कृतः/ पर्यायेषु मा भूत्। एवं हि क्रियमाणेऽर्थप्रधानोऽयं निर्देश इत्यादिः स्यात्, ततश्च पर्यायेष्वपि प्रसज्येत। अर्थप्रधाने निर्देशे स्वरूपपरिभाषा नोपतिष्ठत इत्युक्तम्। `मातच्` इत्यादि। ननु च मातजिति शब्दरूपं नास्त्येव, न ह्रस्य स्वतन्त्रस्य क्वचित्? प्रयोगो लभ्यते, कथं तत्र सम्प्रसारणं कर्त्तं शक्यम्? इत्यत आह `अस्मादेव` इत्यादि। `तत्र` इत्यादि। यदि च **बहुव्रीहौ प्रकृत्या पूर्वपदम्** (6.2.1) इति बहुव्रीहिस्वरः स्यात्, चित्करणमनर्थकं स्यात्। तस्मान्मा भूत्? तस्यानर्थक्यमिति चित्कारणसामर्थ्याम्? बहुव्रीहिस्वर` `चितः` (6.1.157) इत्यन्तोदात्तत्वं विधीयमानं बाधते। ननु च मातृशब्दो बहुव्रीहावुत्तरपदं न सम्भवत्येव, `नद्युतश्च` (5.4.153) इति नित्यं कपा भवितव्यम्, तत्? कथं तत्रोत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणमुपपद्यते? इत्याह - `मातृमातृकयोश्च` इत्यादि। यदि च नित्यं कप्? स्यात्? मातृमातृकयोर्भेदेनोपादानं न कुर्यात्, कृतञ्च। तस्माद्भेदेनोपादानात्? कब्? विकल्पेन क्रियते, न केवलं मातजादेश इत्यपिशब्दस्यार्थः॥ Prakriyasarvasvam ----------------- ष्यङो बन्धुशब्दे परे बहुव्रीहौ सम्प्रसारणं स्यात् । वाराही बन्धुः । तत्पुरुषे तु वाराह्या बन्धुः । ष्यङः प्रसारणं वा स्यान्मातज्मातृकमातृषु । बहुव्रीहौ ष्यङन्तेभ्यो मातृर्वा मातजिष्यते ॥ ४३५ ॥ कप् च वा स्यादतः सिद्धा मातज्मातृकमातरः । वाराहीमात एषः स्याद्वाराह्यामात इत्यपि ॥ ४३६ ॥ एवं वाराहीमातृकः । वाराह्यामातृकः । वाराहीमाता ! वांराह्यामाता । “ष्यङोऽन्यत्र तु सम्बुद्धौ मातुर्मातज्व्यवस्थितः । प्रशस्ततनये वाच्ये देवकीमात हे हरे !”॥ ४३७ ॥ दिव् + नाथ इत्यत्र लुप्तषष्ठीविभक्त्याश्रयेण दिवः पदत्वे— Vartika ------- मातञ्मातृकमातृषु वा ।