54133: वा संज्ञायाम् ==================== **Padacheda:** वा | S | 0 | 0 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The substitution of अनङ् does not optionally take place when the बहुव्रीहि समास is a name. Vasu English Translation ------------------------ The substitution of अनङ् does not optionally take place when the बहुव्रीहि समास is a name. This declares an option, where the last *sutra* had made the substitution compulsory. As शतधनुः or शतधन्वा, दृढधनुः or दृढधन्वा ॥ Kashika ------- धनुःशब्दान्ताद् बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा॥ Siddhanta Kaumudi ----------------- शतधन्वा । शतधनुः ॥ Balamanorama ------------ **वा संज्ञायाम्** - वा शंज्ञायां । 'धनुषश्च' इत्युक्तोऽनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाक्याने प्रसिद्ध । जायाया निङ् । आदेश इति ।प्रत्ययः, परश्चे॑त्यधिकारस्थत्वेऽपि ङित्त्वादन्तादेशोऽयमिति भावः । Tattvabodhini ------------- **वा संज्ञायाम्** - शार्ङ्ग्धन्वेति । कथं तर्हिस्वलालण्याशंसाधृतधनुषमह्नाय तृणव॑दिति पुष्पदन्तप्रयोग इति चेदत्राहुः -समासान्तविधेरनित्यत्वान्नत्रानुपपत्तिः । अनीयत्वे प्रमाणं त्वंआआदिगणे राजन्शब्दपाठः । स हिप्रतेरंआदयस्तत्पुरुषे॑इत्यन्तोदात्तार्थः ।राजाहःसखी॑ति टचो नित्यत्वे तु किं तेनेति । Prakriyasarvasvam ----------------- शतधन्वा, शतधनुः । 'धृतधनुषि धैर्यशालिनी'त्याद्यसंज्ञात्वादयुक्तमिति वामनः ॥ Sutra Prayogas -------------- * **क्षेमधन्वानम्** (रघुवंशम्): `वा संज्ञायाम्` इत्यनङादेशः। * **पुष्पधन्वा** (कुमारसम्भवम्): `वा संज्ञायाम्` इत्यनङ् । * **पुष्पधन्वा** (कुमारसम्भवम्): `वा संज्ञायाम्` इत्यनङादेशः। * **गाण्डीवधन्वनः** (किरातार्जुनीयम्): `वा संज्ञायाम्` इत्यनङादेशः। * **पुष्पधनुषो** (शिशुपालवधम्): `वा संज्ञायाम्` इति विकल्पान्नानङादेशः।