54044: प्रतियोगे पञ्चम्यास्तसिः =============================== **Padacheda:** प्रतियोगे | S | 7 | 1 | पञ्चम्याः | S | 5 | 1 | तसिः | S | 1 | 1 | Sutrartha --------- **'प्रति' इत्यस्य योगे प्रयुक्तात् पञ्चम्यन्तशब्दात् स्वार्थे 'तसि' प्रत्ययः भवति ।** 'प्रति' इत्यस्य योगे प्रयुक्तः यः पञ्चम्यन्तशब्दः, तस्मात् स्वार्थे 'तसि' प्रत्ययः भवति । 'तसि' प्रत्यये इकारः उच्चारणार्थः अस्ति । सकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संजा मा भूत्, इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे अस्य लोपं कृत्वा 'तस्' इति प्रयोगे विधीयते । किम् नाम 'प्रति' ? वस्तुतः तु अस्य शब्दस्य अनेके अर्थाः सन्ति । परन्तु **प्रतिः प्रतिनिधिप्रतिदानयोः** (1.4.92) इत्यनेन सूत्रेण 'कर्मप्रवचनीय'संज्ञकः यः 'प्रति'शब्दः दीयते, तस्य ग्रहणमत्र कृतमस्ति । इत्युक्ते, 'मुख्यसदृशः' / 'प्रतिनिधिः' अस्मिन् अर्थे अत्र अस्य शब्दस्य ग्रहणम् भवति । कानिचन उदाहरणानि पश्यामः - 1. 'अर्जुनः मुख्यः, तत्सदृशः एव अभिमन्युः' (Abhimanyu is just like his father Arjuna in every aspect - इति आशयः) । अस्मिन् सन्दर्भे 'अभिमन्युः अर्जुनात् प्रति' इति प्रयोगः भवति । अत्र 'अर्जुन' इति शब्दः 'प्रति' इत्यस्य योगे प्रयुक्तः अस्ति, तस्य च पञ्चमी विभक्तिः प्रयुज्यते । अस्यां स्थितौ 'अर्जुन' शब्दात् 'तसि' प्रत्ययं कृत्वा 'अभिमन्युः अर्जुनतः प्रति' इति वाक्यम् सिद्ध्यति । अभिमन्युः अर्जुनस्य प्रतिनिधिः इत्यर्थः । प्रक्रिया इयम् - अर्जुनात् + तसि → अर्जुनात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → अर्जुन + ङसिँ + तस् [अलौकिकविग्रहः] → अर्जुन + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङसिँ-प्रत्ययस्य लोपः] → अर्जुनतः [सकारस्य **ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] एवमेव अन्ये प्रयोगाः अपि ज्ञेयाः - 2. प्रद्युम्नः वासुदेवतः प्रति । 3. भोजः कर्णतः प्रति । 4. लवः रामतः प्रति । आदयः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते आद्यादिगणे विद्यमानेभ्यः शब्देभ्यः अपि 'तसि' इति प्रत्ययः विधीयते । यथा - आदौ इत्येव = आदितः । मध्ये इत्येव = मध्यतः । अन्ते इत्येव = अन्ततः । पृष्ठे इत्येव = पृष्ठतः । अग्रे इत्येव = अग्रतः । (सर्वत्र सप्तम्याः अर्थे प्रत्ययः विधीयते) । एवमेव - अर्थेन इत्येव = अर्थतः । स्वरेण इत्येव = स्वरतः । वर्णेन इत्येव = वर्णतः (सर्वत्र तृतीयायाः अर्थे प्रत्ययः विधीयते) । अयम् आद्यादिगणः आकृतिगणः अस्ति, अतः शिष्टप्रयोगमनुसृत्य अन्ये शब्दाः अप्यत्र भवितुमर्हन्ति । विशेषः - 1. **प्रतिः प्रतिनिधिप्रतिदानयोः** (1.4.92) इत्यनेन 'प्रतिनिधि' (A copy / representative) तथा 'प्रतिदान' (Giving something in return of taking something) एतयोः अर्थयोः 'प्रति' शब्दः पाठितः अस्ति । एताभ्याम् 'प्रतिनिधि' अस्मिन् अर्थे प्रयुक्तः यः 'प्रति'शब्दः, तस्यैव अत्र ग्रहणं भवति । 'प्रतिदान' इत्यस्मिन् अर्थे प्रयुक्तः यः 'प्रति' शब्दः, तस्य ग्रहणमत्र न भवति । 2. 'तसि' प्रत्ययान्तशब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 3. **तसेश्च** (5.3.8) इत्यनेन सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विहितस्य 'तसि' प्रत्ययस्य 'तसिल्' आदेशः भवति । 4. एतत् सूत्रम् **समर्थानां प्रथमात् वा** (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'अभिमन्युः अर्जुनात् प्रति' इत्यपि प्रयोगाः सिद्ध्यन्ति । Vasu English Summary -------------------- The affix तसि comes after that Ablative -5th case which is ordained owing to the union with the कर्मप्रवचनीय word प्रति। Vasu English Translation ------------------------ The affix तसि comes after that Ablative -5th case which is ordained owing to the union with the कर्मप्रवचनीय word प्रति। This Ablative case is ordained by *Sutra* (2.3.11). Thus प्रद्युम्नः वासुदेवतः प्रति, अभिमन्युरर्जुनतः प्रति ॥ The *anuvritti* of वा "optionally" runs here also: thus it is an optional rule; we have the regular forms वासुदेवात् &c, also. Vart:- The affix तसि comes after the words आदि &c: as, आदितः, मध्यतः, पार्श्वतः, पृष्ठतः &c. This is an *akritigana*, no complete list being given. Bhashya ------- प्रतियोगे पञ्ञ्चम्यास्तसिः (2321) (तसिप्रत्ययाधिकरणम्) (5924 उपसंख्यानवार्तिकम्॥1॥) तसिप्रकरण आद्यादिभ्य उपसंख्यानम्॥ तसिप्रकरण आद्यादिभ्य उपसंख्यानं कर्तव्यम्॥ आदितः । अध्यतः । अन्ततः। Kashika ------- प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात् तसिः प्रत्ययो भवति। प्रद्युम्नो वासुदेवतः प्रति। अभिमन्युरर्जुनतः प्रति। वाग्रहणानुवृत्तेर्विकल्पेन भवति। वासुदेवादर्जुनादित्यपि भवति॥ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्॥ आदौ आदितः। मध्यतः। पार्श्वतः। पृष्ठतः। आकृतिगणश्चायम्॥ Siddhanta Kaumudi ----------------- प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति । (वार्तिकम्) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥ Nyaas ----- `प्रद्युम्नो वासुदेवतः प्रति` इति। `प्रतिनिधिप्रतिदाने च यस्मात्` (2.3.11) इति पञ्चमी, ततस्तसिः। तसेरिकारो मुखमुखार्थः। ननु च सकारस्येत्संज्ञा मा भूदित्येवमर्थः स्यात्? नैतदस्ति; प्रयोजनाभावादेव हि तस्येत्संज्ञा न भविष्यति। `आद्यादिभ्य उपसंख्यनम्` इति। आद्यादिभ्यसतसेरुपसंख्यानमिति प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन आद्यादिभास्तसिर्भविष्यतीति। अनुक्तसमुच्चयार्थत्वे चकारस्य `तस्यादित उदात्तमर्धह्रस्वम्` (1.2.32) इति निर्देशः॥ Prakriyasarvasvam ----------------- कर्मप्रवचनीयेन प्रतिना योगे पञ्चम्यन्ताद्वा तसिः स्यात् । प्रतिनिधौ— हरिर्मेघतः प्रति । मेघात् प्रति । तत्सदृश इत्यर्थः । प्रतिदाने—तिलतः प्रति माषान्ददाति, तिलेभ्य इति वा । तिलानां गृहीतानां माषान् प्रत्यर्पयतीत्यर्थः । (वा०) । आदौ आदितः । मध्यतः । अस्याकृतिगणत्वात् सर्वेभ्यः सर्वविभक्त्यर्थे तसिरित्याहुः ॥ Vartika ------- आद्यादिभ्य उपसंख्यानम् ।