53047: याप्ये पाशप् =================== **Padacheda:** याप्ये | S | 7 | 1 | पाशप् | S | 1 | 1 | Sutrartha --------- **'याप्यः' (कुत्सितः) अस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे 'पाशप्' प्रत्ययः भवति ।** अनेन सूत्रेण 'पाशप्' इति प्रत्ययः पाठ्यते । यत्र 'याप्यः' (= कुत्सितः / अप्रवीणः / bad) इत्यस्य विशेष्यरूपेण किञ्चन प्रातिपदिकम् प्रयुज्यते, तत्र तस्मात् प्रातिपदिकात् स्वार्थे 'पाशप्' इति प्रत्ययः भवति । अस्मिन् प्रत्यये पकारः इत्संज्ञकः अस्ति, **अनुदात्तौ सुप्पितौ** (3.1.4) इत्यनेन प्रत्ययस्थ-आकारस्य अनुदात्तस्वरनिर्देशार्थम् च सः अत्र स्थापितः अस्ति । उदाहरणम् एतादृशम् - याप्यः वैयाकरणः (सः वैयाकरणः यः किमपि व्याकरणम् न जानाति । A person who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). = वैयाकरण + पाशप् → वैयाकरणपाश । एवमेव - याप्यः नैयायिकः नैयायिकपाशः । याप्यः याज्ञिकः याज्ञिकपाशः । याप्यः भिषग् भिषक्पाशः ( a bad doctor) । ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा 'याप्य' इति शब्दः प्रातिपदिकेन निर्दिष्टस्य विषयस्य सन्दर्भे एव विधीयते । इत्युक्ते, यदि कश्चन वैद्यः किमपि वैद्यकार्यम् न जानाति, तर्हि तस्य निर्देशः अत्र 'याप्यः भिषग्' इत्यनेन क्रियते, तथा च अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगं कृत्वा एतादृशस्य वैद्यस्य निर्देशः 'भिषक्पाशः' इत्यनेन अपि भवितुमर्हति । A doctor who does not know anything about his subject - इत्याशयः । परन्तु कश्चन वैद्यः यदि वैद्यकार्ये कुशलः अस्ति, परन्तु स्वभावेन दुःशीलः / कुत्सितः / दुष्टः अस्ति, तर्हि यद्यपि तस्य निर्देशः 'याप्यः भिषग्' इति भवितुमर्हति, तथापि अस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः अत्र 'कुत्सितत्वम्' वैद्यस्य स्वभावस्य विषये अस्ति, न हि 'वैद्य' इत्यनेन निर्दिष्टस्य अर्थस्य (= वैद्यकीयकार्यस्य) विषये । 2. पाशप्-प्रत्यये परे **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - याप्या वैयाकरणी (a female, who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). ) = वैयाकरणी + पाशप् → वैयाकरण + पाशप् [पुंवद्वावः] → वैयाकरणपाश → वैयाकरणपाश + टाप् [स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः] → वैयाकरणपाशा । Vasu English Summary -------------------- The affix पाशप् denotes something as insignificant. Vasu English Translation ------------------------ The affix पाशप् denotes something as insignificant. The word याप्य means 'contempt, trifling' &c. Thus वैयाकरणः = वैयाकरणपाशः 'a very bad Grammarian'. So also याज्ञिकपाशः ॥ Of course this will not come in denoting a person who is a good Grammarian, but bears bad character, or who is a good performer of sacrifices but immoral. Bhashya ------- याप्ये पाशप् (2205) (पाशपोऽधिकरणम्) (5829 याप्यार्थबोधकवार्तिकम् ॥ 1 ॥) - पाशपि कुत्सितग्रहणम् - (भाष्यम्) पाशपि कुत्सितग्रहणं कर्तव्यम्। वैयाकरणपाशः। याज्ञिकपाशः। यो हि यापयितव्यो याप्यः तत्र मा भूदिति॥ (अतिप्रसक्तिनिवारकभाष्यम्) अथ वैयाकरणः शरीरेण कृशो व्याकरणेन च शोभनः, कर्तव्यो वैयाकरणपाश इति। न कर्तव्यः। कथम्? यस्य भावाद् द्रव्ये शब्दनिवेशस्तदबिधाने - तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम्। न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः॥ Kashika ------- याप्यः कुत्सित इत्युच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणो वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलः, तत्र कस्माद् न भवति ? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः,तस्य कुत्सायां प्रत्ययः॥ Siddhanta Kaumudi ----------------- कुत्सितो भिषक् भिषक्पाशः ॥ Balamanorama ------------ **याप्ये पाशप्** - याप्ये पाशप् । याप्यः=कुत्सितः ।निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः॑ इत्यमरः । कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः । प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम् । Tattvabodhini ------------- **याप्ये पाशप्** - याप्ये पाशप् ।कुत्सिते॑इत्यत्रैव नाऽयं विहितः, तिङन्तादपि प्रसङ्गात् । Padamanjari ----------- याप्यशब्दोऽकयमस्त्यपादानसाधनः - यापिता अस्माद् गुणा इति याप्यःउकुत्सितः, अस्ति कर्मसाधनः-यापयितव्यो याप्यो देशान्तरं प्रापयितव्यः, शरीराद्वाऽपनेतव्यः, अशक्यप्रतीकारो याप्यो व्याधिः। तत्रेहाभिधानशक्तिस्वभावादाद्यस्य ग्रहणमित्याह - याप्यः कुत्सित उच्यत इति। तत्र कस्मान्न भवतीति। व्याकरणे प्रवीणस्यापि दुःशीलत्वेन कुत्सितत्वाद् भवितव्यमेवेति भावः। यस्य गुणस्येति। गुणो विशेषणम्, द्रव्यं विशेष्यम्। तस्य कुत्सायां प्रत्यय इति। एतच्चान्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमितं हि प्रत्यासन्नम्; शब्दवाच्यत्वात्। धर्मान्तरं तु तत्र वस्तुतः सदपि न शब्देन स्पृश्यते। यत्र तु प्रवृत्तितिनिमितस्य कुत्सितं न सम्भवति - असको देवदतक इत्यादौ, तत्र सहचरितगुणक्रियाकुत्साश्रयः प्रत्ययो भवत्येव। एवं च देवदतपाश इत्याद्यपि सत्यभिधाने भवति।'कुत्सिते' इत्यत्रैवायं न विहितः; तिङ्न्तादपि प्रसङ्गात् ॥ Nyaas ----- याप्यशब्दोऽयं गमयितव्ये वर्तते - ग्रामान्तरात्? याप्य इति; अस्त्यशक्यप्रतीकारे - याप्यो रोग इति, अस्ति कुत्सिते - याप्योऽयमिति, कुत्सित इति गम्यते। पाशप्प्रत्ययान्तात्? कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्यशब्दस्येवं ग्रहणं युक्ततम्। अत एवाह - `याप्यः कुत्सित इत्युच्यते` इति याप्यन्ते=अपनीयन्ते तस्माद्गुणा इति याप्यः, **कृत्यल्युटो बहुलम्** (3.3.113) इत्यपादाने कृत्यः। `तत्र कस्मान्न भवति` इति। यद्यप्यसौ व्याकरणे प्रवीणः तथापि दुःशीलत्वाद्भवितव्यमेव तत्रेत्यभिप्रायः। `यस्य` इत्यादि। गुणो विशेषणम्? द्रव्यं विशेष्यम्, तत्र द्रव्ये यद्यपि बहवो गुणाः सन्ति, तथापि यस्य गुणस्य भावे द्रव्ये शब्दो निविशते वर्तते प्रत्यासत्तेस्तस्यैव कुत्सायां शब्देन भवितव्यम्; न तु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम्। किं तर्हि? व्याकरणस्य परिज्ञानम्, अध्ययनं वा। न चेह दुःशीलत्वेन भवितव्यं प्रत्ययेन॥ Prakriyasarvasvam ----------------- कुत्सिते स्वार्थे पाशप् स्यात् । भिषक्पाशः । यशस्पाशम् । स्वार्थिकानां प्रकृतिवल्लिङ्गवचनमिष्टम् । तच्च क्वचिदतिवर्तत इति रक्षस्पाशानित्याह भट्टिः ॥ Sutra Prayogas -------------- * **रक्षस्-पाशान्** (भट्टिकाव्यम्): `याप्ये पाशप्` इति स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते।