53028: दक्षिणोत्तराभ्यामतसुच् ============================= **Padacheda:** दक्षिण-उत्तराभ्याम् | S | 5 | 2 | अतसुच् | S | 1 | 1 | Sutrartha --------- **'दक्षिण' तथा 'उत्तर' एतौ शब्दौ यदा 'दिशा', 'स्थान' उत 'काल' एतेषु अर्थषु प्रयुज्येते, तदा तयोः सप्तम्यन्तेभ्यः, पञ्चम्यन्तेभ्यः तथा च प्रथमान्तेभ्यः रूपेभ्यः 'अतसुच्' इति प्रत्ययः स्वार्थे विधीयते ।** 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्यये प्राप्ते तस्य अपवादस्वरूपेण 'दक्षिण' तथा 'उत्तर' एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'अतसुच्' प्रत्ययः विधीयते । अस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, उकारः उच्चारणार्थः अस्ति, अतः द्वयोः अपि लोपः भवति ; 'अतस्' इत्येव अवशिष्यते । उदाहरणे एते - 1. दक्षिणस्याम् दिशि / दक्षिणे देशे / दक्षिणस्याः दिशः / दक्षिणात् देशात् / दक्षिणा दिक् / दक्षिणः देशः = दक्षिणायाम् / दक्षिणे / दक्षिणस्याः / दक्षिणात् + अतस् → दक्षिण + अतस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → दक्षिण् + अतस् [**यस्येति च** (6.4.148) इति अकारलोपः] → दक्षिणतः [सकारस्य रेफः, विसर्गः] विशेषः - 'दक्षिण' शब्दः 'काल' अस्मिन् अर्थे न प्रयुज्यते, अतः तस्य उदाहरणानि न लभन्ते । 2. उत्तरस्याम् दिशि / उत्तरे देशे / उत्तरे काले / उत्तरस्याः दिशः / उत्तरात् देशात् / उत्तरात् कालात् / उत्तरा दिक् / उत्तरः देशः / उत्तरः कालः = उत्तरस्याम् / उत्तरे / उत्तरस्याः / उत्तरात् / उत्तरा / उत्तरः + अतस् → उत्तर + अतस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → उत्तर् + अतस् [**यस्येति च** (6.4.148) इति अकारलोपः] → उत्तरतः [सकारस्य रेफः, विसर्गः] अनेन सूत्रेण निर्मितयोः 'दक्षिणतः' तथा 'उत्तरतः' एतयोः द्वयोः अपि शब्दयोः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । ज्ञातव्यम् - अस्मिन् सूत्रे 'अतसुच्' इत्यस्य स्थाने 'तसुच्' इति प्रत्ययः प्रोच्यते तथापि तादृशमेव रूपम् सिद्ध्येत् । परन्तु **षष्ठ्यतसर्थप्रत्ययेन** (2.3.30) इत्यस्मिन् सूत्रे विशिष्टरूपेण 'अतस्' प्रत्ययस्य ग्रहणमावश्यकम्, अतः अत्र प्रत्यये अकारः स्थापितः अस्ति । यदि अत्र 'तसुच्' इत्येव प्रत्ययः उच्येत, तर्हि **षष्ठ्यतसर्थप्रत्ययेन** (2.3.30) इत्यस्य स्थाने 'षष्ठीतसर्थप्रत्ययेन' इति 'तसर्थ' एतादृशः उल्लेखः आवश्यकः स्यात् । परन्तु एतादृशः उल्लेखः क्रियते चेत् अन्ये 'तसर्थाः' (यथा - तसिल् प्रत्ययः) अप्यत्र निर्दिष्टाः भवेयुः, येषाम् ग्रहणमत्र न इष्यते । अतएव अत्र 'अतसुच्' इत्यत्र प्रारम्भे अकारस्य योजनम् कृतमस्ति, येन अस्य प्रत्ययस्य अन्येभ्यः 'तसर्थेभ्यः' भिन्नरूपेण विधानम् सम्भवेत् । Vasu English Summary -------------------- The affix अतसुच् (अतस्) comes in the sense of 'direction', 'locality' or 'time' after the words 1. दक्षिण and 2. उत्तर। Vasu English Translation ------------------------ The affix अतसुच् (अतस्) comes in the sense of 'direction', 'locality' or 'time' after the words 1. दक्षिण and 2. उत्तर। This debars अस्ताति ॥ The word दक्षिणा can never refer to time, so with regard to it direction and locality are only taken. Thus दक्षिणतो वसति, दक्षिणत आगतः, दक्षिणतोरमणीयम् ॥ उत्तरतोवसति, उत्तरत आगतः, उत्तरतोरमणीयम् ॥ The अ of अतस् is for the sake of differentiating this affix from तस् in *sutras* like (2.3.30). Bhashya ------- दक्षिणोत्तराभ्यामतसुच् (2186) (अतसुच्प्रत्ययाधिकरणम्) (न्यासाक्षेपभाष्यम्) किमर्थमतसुच् क्रियते, न तसुजेव क्रियेत? तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्। का रूपसिद्धिः - दक्षिणतो ग्रामस्य, उत्तरतो ग्रामस्य? दक्षिणोत्तरशब्दावकारान्तौ तसुशब्दः प्रत्ययः॥ (एकदेशिनः प्रयोजनभाष्यम्) भवेत्सिद्धम् - यदा अकारान्तौ॥ यदा तु खलु आकारान्तौ तदा न सिद्ध्यति॥ (प्रत्याक्षेपभाष्यम्) तदाऽपि सिद्धम्। कथम्? पुंवद्भावेन। कथं पुंवद्भावः? तसिलादिष्वाकृत्वसुचः 6.3.35 इति॥ (प्रत्याक्षेपसमाधानभाष्यम्) न सिध्यति। भाषितपुंस्कस्य पुंवद्भावः, न चैतौ भाषितपुंस्कौ॥ (दक्षिणोत्तराशब्दयोर्भाषितपुंस्कत्वाभावबोधकभाष्यम्) ननु च भोः दक्षिणशब्द उत्तरशब्दश्च पुंसि भाष्येते। समानायामाकृतौ यद्भाषितपुंस्कमित्युच्यते, आकृत्यन्तरे चैतौ भाषितपुंस्कौ - दक्षिणोत्तरेति दिक्शब्दौ, दक्षिण उत्तर इति व्यवस्थाशब्दौ॥ (व्यवस्थावाचित्वेऽपि दिग्वाचकत्वव्यवस्थाभाष्यम्) यदि पुनर्दिक्शब्दा अपि व्यवस्थाशब्दाः स्युः, कथं यानि दिगपदिष्टानि कार्याणि? दिशो यदा व्यवस्थां वक्ष्यन्ति॥ (व्यवस्थावाचित्वेऽतिप्रसङ्गापादकभाष्यम्) यदि तर्हि यो यो दिशि वर्तते स स दिक्शब्दः। रमणीयादिष्वतिप्रसङ्गो भवति - रमणीया दिक्, शोभना दिगिति॥ (अतिप्रसङ्गनिरासभाष्यम्) अथ मतमेतत् - दिशि दृष्टो दिग्दृष्टः, दिग्दृष्टः शब्दो दिक्शब्द इति दिशं यो न व्यभिचरति न रमणीयादिष्वतिप्रसङ्गो भवति। पुंवद्भावस्तु न प्राप्नोति। एवं तर्हि सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वक्तव्यः - दक्षिणोत्तरपूर्वाणामित्येवमर्थम्॥ (न्यासप्रयोजनभाष्यम्) विशेषणार्थं तर्हि। क्व विशेषणार्थेनार्थः? षष्ठ्यतसर्थप्रत्ययेन 2.3.30 इति। षष्ठी तसर्थप्रत्ययेनेत्युच्यमाने इहापि स्यात् - ततो ग्रामात्, यतो ग्रामादिति॥ Kashika ------- दक्षिणोत्तराभ्यां दिग्देशकालेषु वर्तमानाभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थेऽतसुच् प्रत्ययो भवति। अस्तातेरपवादः। दक्षिणाशब्दः काले न संभवतीति दिग्देशवृत्तिः परिगृह्यते। दक्षिणतो वसति। दक्षिणत आगतः। दक्षिणतो रमणीयम्। उत्तरतो वसति। उत्तरत आगतः। उत्तरतो रमणीयम्। अकारो विशेषणार्थः **षष्ठ्यतसर्थप्रत्ययेन** (२.३.३०) इति॥ Siddhanta Kaumudi ----------------- अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥ Balamanorama ------------ **दक्षिणोत्तराभ्यामतसुच्** - दक्षिणोत्तराभ्यां ।दिग्देशकालवृत्तिभ्या॑मिति शेषः । दक्षिणत उत्तरत इति । नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तुसर्वनाम्नो वृत्तिमात्रे॑ इति पुंवत्वेनैव 'दक्षिणतः' इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात् । अत एव भाष्ये अकारः प्रत्याख्यातः । केचित्तु — अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुःसमानकालीन॑मित्यादिवत् 'पुरत' इति प्रामादिकमेवेति बहवः । Padamanjari ----------- किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः - स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ?'तसिलादिष्वाकृत्वसुचः' कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः - यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह - अकारो विशेषणार्थ इति।'षष्ठी तसर्थप्रत्येन' इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ?'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः'प्रतियोगे पञ्चम्यास्तसिः' 'तेनैकदिक्' ,'तसिश्च' , तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥ Nyaas ----- `अकारो विशेषणार्थः` इति। यद्यत्राकारो न क्रियते, तदा `षष्ठी तसर्थप्रत्ययेन` (2.3.30) इति सूत्रं कर्तव्यम्, एवञ्च सति तसिलोऽपि ग्रहणं स्यात्। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्। तस्मादकारो विशेषणार्थः कर्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वर्तेते, तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः` (वा। 104) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कर्तव्यः, तत्र, `एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य` (व्या। प। 52) इति तसिलो ग्रहणं न भविष्यति? एवमपि **प्रतियोगे पञ्चम्यास्तसिः** (5.4.44) , **तेनैकदिक्** (4.3.112) , `तसिश्च` (4.3.113) इत्यन्यतरग्रहणं स्यात्। तस्माद्विशेषणार्थश्चकारः कर्तव्यः॥ Prakriyasarvasvam ----------------- अस्तात्यर्थे । दक्षिणतः. उत्तरतः ।। Sutra Prayogas -------------- * **दक्षिणतः** (भट्टिकाव्यम्): `दक्षिणोत्तराभ्यामतसुच्` इति अतसुच् प्रत्ययः।