53025: किमश्च ============= **Padacheda:** किमः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **'किम्' सर्वनामशब्दात् प्रकारवचने अभिधेये स्वार्थे थमु-प्रत्ययः विधीयते ।** 'किम्' इति सर्वनामसंज्ञकः शब्दः । अस्मात् शब्दात् 'प्रकारवचने' वाच्ये **प्रकारवचने थाल्** (5.3.23) इत्यनेन स्वार्थे थाल्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'थमु' इति प्रत्ययः उच्यते । अस्मिन् प्रत्यये उकारः उच्चारणार्थः अस्ति, अतः प्रक्रियायाम् तस्य लोपः विधीयते ; प्रयोगे 'थम्' इत्येव दृश्यते । प्रक्रिया इयम् - केन प्रकारेण इत्येव = केन + थमु [विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → केन + थम् [उकारस्य लोपः] → किम् + थम् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → क + थम् [**किमः कः** (7.2.103) इति किम्-शब्दस्य 'क' आदेशः ।] → कथम् एतादृशं 'केन प्रकारेण' इत्यस्मिन् अर्थे 'कथम्' इति शब्दः सिद्ध्यति । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा अपि जायते । Vasu English Summary -------------------- Also after किम् comes the affix थमु in the sense of denoting a manner. Vasu English Translation ------------------------ Also after किम् comes the affix थमु in the sense of denoting a manner. Thus केन प्रकारेण = कथम् 'how?'. Kashika ------- किंशब्दात् प्रकारवचने थमुः प्रत्ययो भवति। केन प्रकारेण कथम्। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- केन प्रकारेण कथम् ॥ Laghu Siddhanta Kaumudi ----------------------- केन प्रकारेण कथम् ॥ इति प्राग्दिशीयाः ॥ १४ ॥ Balamanorama ------------ **किमश्च** - किमश्च ।प्रकारवृत्तेस्थमु॑रिति शेषः । कथमिति । 'किमः कः' इति कादेशः । **** इति बालमनोरमायाम् प्राग्दिशीयानां विभक्तिसंज्ञकानां पूर्णोऽवधिः । ****अथ प्रागिवीयाः । — — — — - Tattvabodhini ------------- **किमश्च** - किमश्च । योगविबागःथा हेतौ च छन्दसी॑त्युत्तरसूत्रे किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति । इति तत्त्वबोधिन्याम प्राग्दिशीयानां पूर्णोऽवधिः । Padamanjari ----------- योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥ Nyaas ----- `योगविभाग उत्तरार्थः` इति। `था हेतौ च` (5.3.26) इति वक्ष्यति, स किम एव यथा स्यात्, इदमो मा भूदिति॥ Prakriyasarvasvam ----------------- कथम् ॥