52113: दन्तशिखात् संज्ञायाम् ============================ **Padacheda:** दन्त-शिखात् | S | 5 | 1 | संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'दन्त' तथा 'शिखा' एताभ्यां प्रथमासमर्थाभ्याम् शब्दाभ्याम् संज्ञायाम् गम्यमानायाम् 'वलच्' प्रत्ययः भवति ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'दन्त' तथा 'शिखा' शब्दाभ्याम् संज्ञायाः निर्देशे कर्तव्ये अनेन सूत्रेण वलच्-प्रत्ययः भवति । यथा - 1. दन्ताः अस्य अस्मिन् वा सन्ति = दन्त + वलच् → दन्तावल । यथा - दन्तावलः गजः । अत्र **वले** (6.3.118) इति दीर्घादेशः भवति । 2. शिखा अस्य अस्मिन् वा अस्ति = शिखा + वलच् → शिखावल । यथा - शिखावलः मयूरः । स्मर्तव्यम् - 'शिखा' शब्दात् **शिखाया वलच्** (4.2.89) इत्यनेन चातुर्थिकप्रकरणे अपि वलच्-प्रत्ययः भवति, परन्तु तत्र देशस्य निर्देशः क्रियते (यथा - शिखा अस्मिन् देशे अस्ति सः शिखावलः देशः) । अत्र निर्दिष्टः 'शिखावल' शब्दः देशभिन्नस्य निर्देशं करोति । Vasu English Summary -------------------- The affix वलच् comes in the sense of मतुप् after 1. दन्त and 2. शिखा when a Name is formed. Vasu English Translation ------------------------ The affix वलच् comes in the sense of मतुप् after 1. दन्त and 2. शिखा when a Name is formed. Thus दन्तावलः सैन्यः, दन्तावलो गजः, शिखावलं नगरम्, शिखावलो स्थूणा ॥ The final vowel of दन्त is lengthened before वल by (6.3.118). Kashika ------- दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये। दन्तावलः सैन्यः। दन्तावलो गजः। शिखावलं नगरम्। शिखावला स्थूणा॥ Siddhanta Kaumudi ----------------- दन्तावलो हस्ती । शिखावलः केकी ॥ Balamanorama ------------ **ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः** - ज्योत्स्ना । ज्योतिष इति । ज्योत्स्नावयवाः=ज्योतीषि, तान्यस्यां सन्तीति विग्रहे ज्योतिष्शब्दान्नप्रत्ययः, उपधाभूतस्य इकारस्य लोपश्च निपात्यते । सति च इकारस्य लोपे इणः परत्वाऽभावात्षत्वनिवृत्तौ ज्योत्स्नेति रूपम् ।चन्द्रिका कौमुदी ज्योत्स्ने॑त्यमरः । तमस इति । तमोऽस्यास्तीति विग्रहे तमस्मशब्दात् रक्प्रत्ययाः । उपधाभूतस्य मकारादकारस्य इत्वं च निपात्यत इत्यर्थः ।तमिरुआआ तामसी रात्रि॑रित्यमरः । ननुतमिरुओ॑ति स्त्रीलिङ्गनिसर्देशात्तमिरुआं गृहमिति कथमित्यत आह — स्त्रीत्वमतन्त्रमिति । शृङ्गादिनजिति । 'निपात्यते' इति शेषः । शृङ्गिण इति । शृङ्गमस्यास्तीति विग्रहः । इनचि णत्वम् । ऊर्जसो वलजिति । 'निपात्यते' इति शेषः । ऊर्जसित्यसुन्नन्तं प्रातिपदिकम् । ननुअस्मायामेधे॑ति लिनिना सिद्धेरूर्जस्विन्निति भूदित्येतदर्थं विनो निपातनमित्यर्थः । ऊर्ज इति । ऊर्जशब्दाद्वलचि प्रकृतेरसुगागम इति वृत्तिग्रन्थोऽनुपपन्न इत्यर्थः । कुत इत्यत आह — ऊर्जस्वतीरितिवदिति । ऊर्जस्वतीरित्यत्र बलप्रत्ययाऽभावेन तत्सन्नियोगशिष्टस्य असुगागमस्याऽप्रसक्तेस्तत्र ऊर्जसित्यसुन्नन्तं प्रातिपदिकमवयश्यमभ्युपेयम् । तेनैव ऊर्जस्विन्नूर्जस्वलयोर्विनिवलज्मात्रनिपातनोपपत्तेरित्यर्थः । ईमसच्चेति । मलशब्दान्निपात्यत इति शेषः । Tattvabodhini ------------- **ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्- मलिनमलीमसाः** - ज्योत्स्ना=चन्द्रप्रभा । तत्रावयवीभूतं ज्योतिरस्तीति मत्वर्थीयोपपत्तिः । एतेन तमःसमूहे तमिरुआआशब्दो व्याख्यातः । निघन्टुषु तमःपर्यायस्तमिरुआशब्दः पठितः । तत्र समूहसमूहिनोरभेदोपचार इति हरदत्तः । स्त्रीत्वमतन्त्रमिति । व्याख्यानमत्र शरणम् ।ऊर्जस्विन्गोमिन्नि॑त्यत्र नान्तत्वाभिव्यक्तये नलोपो न कृतः । Padamanjari ----------- दन्तावलःउगजः,'दन्ती दन्तावलो हस्ती' इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे'शिखाया वलच्' इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्तव्यम् - निर्वृताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्तव्यम्, इहापि यथा स्यात् - शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ॥ Nyaas ----- दन्तशब्दादिनिठनोः प्राप्तयोर्वलज्विधीयते। शिखाशब्दादिनिप्रत्ययो वक्ष्यते **व्रीह्यादिभ्यश्च** (5.2.116) इत्यत्र `शिखादिभ्य इनिर्वाच्यः` (म। भा। 2।398) इति। अदेशार्थं शिखाग्रहणम्, शिखावला स्थूणेत्यत्र यथा स्यात्। देशे तु **शिखाया वलच्** (4.2.89) इत्यनेनैव चातुरर्थिक एव सिद्धः। यद्येवम्, इदमेव वक्तव्यम्, किं तेन? नैतदस्ति; तदपि हि वक्तव्यमेव - निर्वृत्तादिष्वर्थेषु यथा स्यात्। अत्रापि संज्ञाग्रहणं तस्यै वार्थस्यानुवादार्थम्। इतिकरणानुवृर्त्त्यवाभिधेयनियमसिद्धेः॥ Prakriyasarvasvam ----------------- दन्तावलः, शिखावलः ।