52096: प्राणिस्थादातो लजन्यतरस्याम् =================================== **Padacheda:** प्राणिस्थात् | S | 5 | 1 | आतः | S | 5 | 1 | लच् | S | 1 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्राणिनामङ्गवाचिभ्यः आकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः विकल्पेन लच्-प्रत्ययः भवति, पक्षे औत्सर्गिकः मतुँप्-प्रत्ययः अपि विधीयते ।** 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः **तदस्यास्त्यस्मिन्निति मतुँप्** (5.2.94) इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; ये आकारान्ताः शब्दाः प्राणिस्थवाचकाः सन्ति (= प्राणिनामवयवस्य निर्देशं कुर्वन्ति) तेभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव । यथा - 1. चूडा (apex / crest / crown of head) अस्य अस्ति सः = चूडा + लच् → चूडालः (कश्चन पक्षी यस्य मस्तिष्के चूडा अस्ति । white cockato इति) । पक्षे मतुँप्-प्रत्यये कृते **मादुपधायाश्च मतोर्वोऽयवादिभ्यः** (8.2.9) इत्यनेन मकारस्य वकारादेशं कृत्वा चूडावान् इत्यपि सिद्ध्यति । 2. कर्णिका (specific type of long ears) अस्य अस्ति सः कर्णिकालः कर्णिकावान् वा शृगालः । विशेषः - 1. अस्मिन् सूत्रे 'प्राणिस्थ' इति उच्यते । अस्य शब्दस्य अर्थः 'प्राणिषु तिष्ठति तत्' इति भवति । अतः 'प्राणिषु विद्यमाना चिकीर्षा, इच्छा, माया, मेधा' - एतेषाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः उद्भवति । परन्तु अस्य सूत्रस्य प्रयोगः केवलम् 'प्राणिनामङ्गवाचिभ्यः शब्देभ्यः' एव क्रियते, चिकीर्षादिभ्यः अन्येभ्यः शब्देभ्यः न । अस्य स्पष्टीकरणार्थमेव वार्त्तिककारः वदति - । अङ्गवाचिभ्यः शब्देभ्यः एव प्रत्ययः विधीयते, इति अस्य वार्त्तिकस्य आशयः । अतः 'चिकीर्षा, इच्छा, माया, मेधा' - एतादृशानां शब्दानां विषये केवलम् मतुँप्-प्रत्ययः एव भवति । यथा - चिकीर्षावान्, मेधावान् - आदयः । 2. अस्य सूत्रस्य प्रसक्तिः आकारान्तशब्दानाम् विषये एव अस्ति - इति स्मर्तव्यम् । अतएव 'हस्त', 'दन्त', 'पाद' एतेभ्यः शब्देभ्यः वर्तमानसूत्रेण लच्-प्रत्ययः न भवति । 3. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् '**तद्धितस्य** (6.1.164) इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'चुडाल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि **आद्युदात्तश्च** (3.1.3) इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु 'चूडालोऽस्ति' एतादृशेषु वाक्येषु अयमुदात्तस्वरः उत्तरपदस्य अनुदात्तस्वरेण सह एकादेशं कृत्वा **स्वरितो वाऽनुदात्ते पदादौ** (8.2.6) इत्यनेन विकल्पेन स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति । 4. लच्-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - चूडाला, कर्णिकाला । Vasu English Summary -------------------- The affix लच् comes optionally in the sense of मतुप् after a stem ending in long आ the word expressing something which is found only in a living being. Vasu English Translation ------------------------ The affix लच् comes optionally in the sense of मतुप् after a stem ending in long आ the word expressing something which is found only in a living being. Thus from चूडा 'a crest', we have चूडालः or चूडावान्. So also कर्णिकालः or कर्णिकावान् ॥ Why do we say 'which is found in a living being'? Observe शिखावान् प्रदीपः 'the crested flame of a lamp'. Why do we say "ending in आ"? Observe हस्तवान्, पादवान् ॥ Vart:- It should be stated that the affix लच् comes only after what denotes member or limb of a living being, (and not anything like love, passion, intelligence &c, that are also found in living being). Hence there is no affixing of लच् here : चिकीर्षाऽस्यास्ति = चिकीर्षावान्, जिहीर्षावान् ॥ Every affix is *udatta* (3.1.3), unless contrary is indicated by some *anubandha*. The लच् would have been udatta by (3.1.3), even without the indicatory च् (V1.1. 163). The employment of this *anubandha*, however indicates that this *udatta* will never be changed into *svarita*, as other *udattas* are by rule (8.2.6), as चूडालोऽसि ॥ Bhashya ------- प्राणिस्थादातो लजन्यतरस्याम् (2114) (अतिव्याप्त्याशंकाभाष्यम्) इह कस्मान्न भवति - चिकीर्षाऽस्यास्ति, जिहीर्षाऽस्यास्तीति? (एकदेशिसमाधानभाष्यम्) प्राण्यङ्गादिति वक्तव्यम्। तत्तर्हि वक्तव्यम्। न वक्तव्यम्॥ (सिद्धान्तभाष्यम्) कस्मान्न भवति - जिहीर्षाऽस्यास्ति, चिकीर्षाऽस्यास्तीति? अनभिधानात्॥ Kashika ------- प्राणिस्थवाचिनः शब्दादाकारान्तात् लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। चूडालः, चूडावान्। कर्णिकालः, कर्णिकावान्। प्राणिस्थादिति किम् ? शिखावान् प्रदीपः। आदिति किम्? हस्तवान्। पादवान्॥ प्राण्यङ्गादिति वक्तव्यम्॥ इह मा भूत् — चिकीर्षास्यास्ति चिकीर्षावान्, जिहीर्षास्यास्ति जिहीर्षावान्। प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूडालोऽस्तीत्यत्र **स्वरितो वानुदात्ते पदादौ** (८.२.६) इति स्वरितबाधनार्थः॥ Siddhanta Kaumudi ----------------- चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥ (वार्तिकम्) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ (SK3659) इति स्वरितबाधनार्थश्चकारः ॥ Laghu Siddhanta Kaumudi ----------------------- चूडालः। चूडावान्। प्राणिस्थात्किम्? शिखावान् दीपः। प्राण्यङ्गादेव। मेधावान्॥ Balamanorama ------------ **प्राणिस्थादातो लजन्यतरस्याम्** - प्राणिस्थात् । आदन्तात्प्राणिस्थवाचिनः शब्दान्मत्वर्थे लज्वा स्यादित्यर्थः । शिखावान् दीप इति । अत्र शिखाशब्दस्य दीपाग्रवाचिनः प्राणिस्थवाचित्वाऽभावान्न लजिति भावः । प्राण्यङ्गादेवेति । भाष्ये तथा वचनादिति भावः । ननु लचिश्चत्करणं व्यर्थं, चित इत्यन्तोदात्तत्वस्य प्रत्ययस्वरेणैव सिद्धेरित्यत आह — प्रत्ययस्वरेणेति । चूडालोऽसीति । तत्र असीत्येतत् 'तिङ्ङतिङः' इति निहतम् । चूडालात्सो रुत्वे उत्वे तस्य सुप्त्वेनाऽनुदात्तस्याद्गुणस्यएकादेश उदात्तेने॑त्युदात्तत्वे तस्य परेण पूर्वरूपैकादेशे तस्य पदाद्यनुदात्ते सहैकादेशत्वात्स्वरितो वाऽनुदात्ते॑ इत्यस्य प्राप्तौ तन्निवृत्त्यर्थं चित्करणमित्यर्थः । Tattvabodhini ------------- **प्राणिस्थादातो लजन्यतरस्याम्** - प्राणिस्थात् । शिखावान्दीप इति । प्रत्युदाहरणदिगियं दर्शिता । शिखशब्दस्य व्रीह्रादिपाठेन लचोऽप्रसङ्गात् ।चूडावान् वृक्षः॑इति प्रत्युदाहार्यमिति हरदत्तः । न च वृक्षस्य प्राणित्वमस्तीति शङ्क्यम्, मुखनासासंचारी वायुः प्राणः, तद्वानेव प्राणीति तदाशयात् । प्राण्यङ्गादेवेति । एतच्चेतिकरणानुवृत्त्या लभ्यते । चूडालोऽसीति ।असी॑त्यस्यतिङ्ङतिङः॑इति निगातः । चूडालशब्दात्सोरुत्वे तस्यअतो रोरप्लुता॑दित्युकारे कृते, हलां स्नंसनधर्मत्वात्तत्स्थानिकोऽकारोऽनुदात्तः । सुप्स्थानिकस्यापि सुप्त्वात्अनुदात्तौ सुप्पितौ॑इत्यनुदात्त इत्यन्ये । पूर्वेण सह आद्गुणे सतिएकादेश उदात्तेने॑त्योकार उदात्तः । ततःएङः पदान्तादती॑ति पूर्वरूपमेकादेशस्तस्यस्वरितो वाऽनुदात्ते॑इत्यादिना स्वरिते प्राप्ते तद्बाधनाय चकार इत्यर्थः । Nyaas ----- `कणिकालः` इति। कणिकादिशब्दोऽयं प्राण्यङ्गस्य वाचकः, नालङ्कारविशेषस्य। प्राण्यङ्गादेव हीष्यते, अत आह - `प्राण्यङ्गादिति वक्तव्यम्` इति। प्राण्यङ्गत्वादेवाकारान्तल्लज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - इतिकरणो विवक्षार्थोऽनुवर्तते। तेन प्राण्यङ्गदेव भविष्यतीति, नान्यस्मात्। अनभिधानाद्वाऽप्राण्यङ्गान्न भविष्यतीति। ननु चैकाचो लचः प्रत्ययस्वरेणान्तोदात्तत्वं सिद्धम्, तत्किमर्थं चकारः? इत्याह - `प्रत्ययस्वरेणैव` इत्यादि। चूडालशब्दात्? प्रथमैकवचनान्तात्? परतोऽसिशब्दे व्यवस्थिते तस्य **तिङ्ङतिङः** (8.1.28) इति निघातः, सोः **ससजुषो रुः** (8.2.66) इति रुत्वम्, **अतो रोरप्लुतादप्लुते** (6.1.113) इत्युत्वम्,ाद्गुणः` (6.1.84) , तस्य च **एकादेश उदात्तेनोदात्तः** (8.2.5) इत्युदात्तत्वम्, **एङः पदान्तादति** (6.1.109) इति पररूपमेकादेशः। असति तु वकारे `स्वरितो वानुदात्तेऽपदादौ` (8.2.6) इति स्वरितः स्यात्। अतस्तद्बाधनार्थ चकारः क्रियते॥ Prakriyasarvasvam ----------------- प्राणिस्थादादन्ताल्लज्वा । चूडालः चूडावान् । अप्राणिस्थे तु चूडावान् स्तम्भः । 'प्राण्यङ्गादेवेष्टम्' । तेन शोभावानिच्छावान् नर इत्यादौ न । छाया- लतनुवल्लरी चूडालं शशिलेखयेत्यादौ च्छायां लात्यादत्त इति 'आतोऽनुपसर्गे कः' (३-२-३) 'केसरालमित्यलेरणीति वामनः । केसराण्यलति भूषणीकरोतीति कर्मण्यणि केसरालं नलिनम् ॥ Vartika ------- प्राण्यङ्गादेव । Sutra Prayogas -------------- * **शिराल** (भट्टिकाव्यम्): `प्राणिस्थादातो लजन्यतरस्याम्` इति लच्।